________________ वसहि 1020- अमिधानराजेन्द्रः - भाग 6 वसहि छ एत्तुं व पभायं, न वि सका पडसएणाऽवि // 10 // न हि निर्गन्धो वायुति कं तु यादृशस्य वनखण्डादेर्मध्येन समायाति तादृग्गन्धसहित एव,एवं भवतामप्यस्या उपरि य ईदृशः पक्षपातः सन निःसम्बन्ध इति भावः। अथवा-'अलाहि' अलमनेन वनेनाभिहितेन मर्मानुवेधित्वात्, किंवा तेन भणितेन कार्यम्, यतः-प्रभातं संजातं सन्न पटशतेनापि छादयितुं शक्यम् / इत्थं तन्मुखान्निर्गते असद्भूतार्थेऽपि दूषणे जले पतिते इव तैलबिन्दौ सर्वतः प्रसर्पति, सूरीणां महान् छायाघातो जायते। सच तत्त्वत आत्मकृत एवैतद्दृष्टान्तमाहमज्झत्थं अच्छंतं, सीहं गंतूण जो विबोहेइ। अप्पवहाए होई,वेयालो चेव दुज्जुत्तो // 103|| मध्यस्थमुदासीनं तिष्ठन्तं सिंहं गत्वा-उपेत्य यः कश्चिद्विबोध-यति-- विशेषेण पाणिप्रहारादिना बोधयति, स विबोधितः सन् तस्यात्मवधाय भवति, वेताल इव वा-दुष्प्रयुक्तो यथा साधकमेवोपहन्ति एवमियमप्याचार्येण प्रबोधिता सती तस्यैव छायाघातमुपजनयति। यतश्चैवमतःउप्पन्ने अहिगरणे, गणहारि पवित्तिणी निवारेइ। अह तत्थ न वारेई, चाउम्मासा मवे गुरुगा।।१०।। उत्पन्ने अधिकरणे गणधारी प्रवर्तिनी निवारयति, अथ तत्र गणधारी न वारयति ततश्चतुर्मासा गुरुका भवेयुः / ततो गणधरौ द्वावपि मिलित्वा संयतीप्रतिश्रयं गत्वा प्रवर्तिनी पुरतः कृत्वा स्वस्वसंयतीरुपशमयतः। तत्र वास्तव्यसंयत्य इत्थमुपशाम्यन्ते-- पाहुन्नं ताण कयं, असंखडं देहतो अलज्जाओ। पुवट्ठिय इय अजा, उवालभताऽणुसासंति।।१०।। प्राघूर्ण्यम्-आतिथेयंतासामागन्तुकसंयतीनांशोभनं कृतं यदेवमलज्जाः सत्योऽसंखडं दत्थ-कुरुध्वम्, पूर्वस्थिता आचार्याः, स्वकीया आर्या उपालभमाना इत्येवमनुशासते। आगन्तुकसंयतीनामुपशमनोपायः पुनरयम्एगं तासिं खेत्तं, मलेह बिइयं असंखडं देह। आगंतुय इय दोस, सिंचिंति तिक्खाइमहुरेहि / / 106|| एक तावत्तासां वास्तव्यसंयतीसत्कं क्षेत्रं मलयथ-विनाशयथ, द्वितीयं पुनरसंखडं दत्थ-कुरुध्वम्। आगन्तुका आचार्या इत्येवंदोषमधिकरणलक्षणं तीक्ष्णमधुरादिभिर्वचनैः 'सिंचिंति' त्ति विध्मापयन्ति-उपशमयन्तीति यावत्। ततश्चअबराह तुलेतूणं, पुष्ववरद्धं च गणधरा मिलिया। बोहित्तुमसागरिए,दिति विसोहिं खमावेउं / / 107 / / द्वावपि गणधारौ मिलितौ अपराधंतोलयित्वा यस्या यावान् अपराधस्तं परस्परसंवादेन सम्यक् निश्चित्य; या पूर्वापराद्धापूर्वमपराद्धं यया सा, तथा असागारिके एकान्ते बोधयित्वा ततो द्वितीयां तस्याः पश्चात् क्षमापयेत्। यः क्षमापयित्वा स चोभयोरपि यथोचितां विशोधि-प्रायश्चित्तं प्रयच्छति इति, गतः प्रथमो भङ्गः / ___ अथ द्वितीयं भङ्गं बिभावयिषुराहअभिनिदुवारनिक्खम-ण पवेसे एगवगडिते चेव। जं इत्थं नाणत्तं, तमहं वोच्छं समासेणं // 108|| द्वितीयभङ्गो-यद्ग्रामादिकमभिनिद्वारम्-अनेकद्वारम्, अत एवाभिनिष्क्रमणप्रवेश परमेकवगडम्, तत्र त एव दोषा भवन्ति, ये प्रथमभङ्गे प्रोक्ताः / यत्पुनरत्र द्वितीयभङ्गे नानात्वं तदहं वक्ष्ये समासेन। प्रतिज्ञातमेव निर्वाहयतितह चैव अन्नहा वा-वि आगया ठंति संजईखेत्ते। भोइयनाए भयणा, सेसं तं चेविमं वण्णं / / 10 / / तथैव "सोऊण य समुदाणं, गच्छं आणित्त देउले ठाइ'' इत्यादिना प्रथमभङ्गोक्तप्रकारेणैव, अन्यथा वा संयतीक्षेत्रे आगताः सन्तस्ति, तत्र च स्थितानां तेषां भङ्गिकज्ञाते भजना कार्या / यदि संयतीनां विचारभूम्यादिमार्ग स्थिताः ततो भवति भोगिकज्ञातम् / अन्यथा तदनुमतं भवतीति भावः। शेषं सर्वमपि प्रायश्चित्तादितदेव प्रथमभङ्गोक्तं ज्ञातव्यम्। इदं चान्यदभ्यधिकमभिधीयतेएगाव होज साही, दाराणि व होज सपडिजुत्ताणि। पासे व मग्गतो वा, उच्चे नीए व धम्मकहा।।११०॥ तत्रानेकद्वारेएकवगडे ग्रामादौ साधुसाध्वीप्रतिश्रययोरेका वा साहिकागृहपक्तिर्भवत्, द्वाराणि परस्परं सप्रतिमुखानि भवेयुः। अथवासाध्वीप्रतिश्रयस्य पार्श्वतो वा मार्गतो वा उचे वा नीचे वा स्थाने स्थिता भवेयुः, तत्रावस्थितानां धर्मकथा कोऽप्यशुभेन भावेन कुर्यादिति द्वारगाथासंक्षेपार्थः। अथ विस्तरार्थमाहवह अंतरियाणं खलु, दोण्ह वि वग्गाण गरहिओ वासो। आलावे संलावे, चरित्तसंभेइणी विकहा॥१११॥ एकस्यां साहिकायां वृत्त्या अन्तरितयोः संयतसंयतीरूपयोरपि वर्गयोरेकत्र वासो गर्हितो-निन्दितस्तीर्थकरैः प्रतिकृष्ट इत्यर्थः, यतस्तत्र संयतसंयत्योः कायिक्यादिव्युत्सर्जनार्थ निर्गतयोः परस्परमालापेसकृज्जल्पे संलापे-पुनः पुनः संभाषणे संजाते सति चारित्रसंभेदिनी विकथा वक्ष्यमाणरीत्या भवेत्। __ अथैकसाहिकायामेव दोषानाहउभयेगतरहाए, व निग्गया दट्ठु एकमेकं तु। संकानिरोहमादी, पबंध आतोभया वाऽऽसु॥११२|| उभयं संज्ञाकायिकीरूपं तस्य एकतरस्य वा व्युत्सर्जनार्थं निर्गतयोः संयतीसंयतयोरेकैकं दृष्ट्वा शङ्का भवति। तथाहि-संयतः कायिक्यादिव्युत्सर्जनार्थं निर्गतः संयतीं दृष्ट्वा प्रतिनिवृत्तः, पुनरपि कायिकीसंज्ञाभ्यामु-द्राध्यमानो निर्गतः, ततः संयती तं दृष्ट्वा शङ्कां करोतिनूनमेष मां कामयते / एवं संयतस्यापि संयती प्रविशन्ती निर्गच्छन्ती च दृष्ट्वा शङ्का भवति। अथवा-लोकस्य शङ्का भवति यथैष एषा वा यदेवं पौनःपुन्येन प्रविशति निर्गच्छतिवा तन्नूनमे-नामेनं वा अभिलषतीति, निरोधो वा कायिकीसंज्ञयोर्भवत्, आदिशब्दाद्-अनागाढपरितापनादिपरिग्रहः / कथाप्रबन्धो वा वक्ष्यमाणो भवेत्। ततश्चात्मसमुत्थेन उभ--