________________ वसहि 1016 - अभिधानराजेन्द्रः - भाग 6 वसहि ओलीनिवेसणे वा, वजिंतु अडंति जत्थ य पविट्ठा।। नयवंदणं न नमणं, न य संभासो नविय दिट्ठी॥१२॥ 'ओलि' त्ति ग्रामगृहाणामेका पक्तिः निवेशनम्- एकनिर्गमनप्रवेशानि व्यादीनि गृहाणि, ततो यस्यां पङ्क्ती निवेशने वा संयत्यः पर्यटन्तितां वर्जयित्वा अन्यस्यां पङ्क्तौ अन्यस्मिन् वा निवेशने संयता भिक्षामटन्ति / अथ लघुतरोऽसौ ग्रामस्ततः पङ्क्त्यादिविभागो न शक्यते कर्तुं ततो यत्र गृहादौ प्रविष्टा रथ्यायांवा गच्छन्त एकत्र मिलन्ति तत्र च नैव वन्दनं कृतिकर्मन वा नमनं शिरःप्रणाममात्रं न च संभाष:परस्पराऽऽलापो नापि च दृष्टिसंमुखमवलोकनमाप्नुवन्ति, पूर्वोक्तशङ्कादिदोषप्रसङ्गात् इति। पुष्वभणिए य ठाणे, सुम्नोगादी चरंति वजेता। पढमबिइयातुरा वा, जयणा आइन्नधुवकम्मी ||3|| पूर्वभणितानि च शङ्काविषयभूतानि शून्यौकः-शून्यगृहं तदादीनि स्थानानि दूरेण वर्जयन्तश्चरन्ति, प्रथमद्वितीयपरीषहातुराश्च यतनया जनाकीर्णे धुवकर्मिका वा काष्ठसूत्रधारादयो यत्रयन्ति तत्र प्रथमालिकां-- द्रवपानं वाकुर्वन्ति। एवं संयतीक्षेत्रे साधूनामागतानां विधिरुक्तः। अथ उभयेषु पूर्वस्थितेषूभयेषामेवागमने विधिमाहदोन्नि वि ससंजईया, एगग्गामम्मि कारणेण ठिया। तासिंच तुच्छयाए, असंखडं तत्थिया जयणा ||4|| द्वये अपि वास्तव्या आगन्तुकाश्च साधवो यदि ससंयतीका एकस्मिन् ग्रामे कारणेन स्थिताः, तासांचसंयतीनां तुच्छतया यद्यसंखडमुपजायते तत्रेयं वक्ष्यमाणा यतना। आह-तिष्ठतुतावद्यतना कथं पुनस्तासामसंखडमुत्पन्नभूतमितितावद्वयं जिज्ञासामहे, ताभिर्वास्तव्यसंयतीभिरागन्तुकसंयत्यः पृष्टाः-आर्याः? किं यूयं यदृच्छया भक्तपानलमध्ये नवेति? ताः प्राहुः-- चुण्णाइविंटलकए, गरहियसंथवकए य तुज्झाहिं। ताई अजाणंतीओ, फव्वीहामो कहं अम्हे ||5|| चूणे-वशीकरणादिफलं द्रव्यसंयोगरूपं तेनादिशब्दाज्ज्योतिषनिमित्तादिना च विण्टलेन कृते-भाषिते तथा गर्हितः पूर्वपश्चात्सं-- बन्धरूपो यः संस्तवः-परिचयस्तेन वा कृते--भावितेयुष्माभिः क्षेत्रे यानि चूर्णादीनि कर्तुमजानानाः कथं वयमत्र 'फव्वीहामो' त्ति देशीपदत्वात् यदृच्छया भक्तपानं लभामहे। वास्तव्यसंयत्यः प्रतिब्रुवते-- सेणाणुमाणेण परं जणोऽयं, ___ठावेह दोसेसु गुणेसु चेव। पावस्स लोगो पडिहाइ पावो, कलाणकारिस्सय साहुकारी॥६६|| स्वेन-स्वकीयेनानुमानेन परमन्यमात्मव्यतिरिक्तमयं प्रत्यक्षोलभ्यमानो जनो दोषेषु गुणेषु च स्थापयति,अविद्यमानानामपि तेषां तत्राध्यारोपं करोतीति भावः / एतदेव व्यक्तीकरोति पापस्य-पापकर्मकारिणो जनस्य लोकः-सर्वोऽपि पापः प्रतिभाति, कल्याणकारिणः पुनः सर्वोऽपि साधुकारी। ततश्चनूणं न तं वट्टइ जं पुरा भे, इमम्मि खेत्ते जइभावियम्मि। अवेयवचाण जतो करेहा, अम्हाववायं अइपंडियाओ ||7|| नून-निश्चितं यत् कुण्डलविण्टलं पुरा भे' भवत्यः कृतवत्यस्तदत्र क्षेत्रे यतिभाविते न वर्तते कर्तुम् / कुत एतज्ज्ञायते? यद्वयं कुण्डल-वेण्टलं कृतवत्य इति चेदत आह-अपेतवाच्यानां वचनीयतारहितानां यत एवं यूयमिति पण्डिता अतीव दुर्विदग्धाः, अस्माकमपवादमसद्दोषोद्धोषणं कुरुथा इत्थमसंखड उत्पन्ने किं कर्तव्यमित्याहतत्थेव अणुवसंते, गणिणीते कहिंति तह वि हु अठंते। गणहारीण कहें ति, सगाण गंतूण गणिणीओ // 8 // यदि तत्रैव परस्परमुपशान्तं तदसंखडं ततः सुन्दरमेव।अथनोपशान्तं ततो गणिन्याः-स्वस्याः स्वस्याः प्रवर्तिन्याः कथयन्ति, यदि न कथयन्ति ततश्चतुर्गुरवः / ततस्ते प्रवर्तिन्यौ मधुरया गिरा प्रज्ञायोपशमयतः। तथाऽप्यतिष्ठति-अनुपरते द्वे अपि गणिन्यौ गत्वा स्वेषां स्वेषां गणधारिणां कथयतः, यदि न कथयतः ततश्चत्वारो गुरुकाः / ततः प्रवर्त्तिन्या कथिते गणधरेण किं विधेयमित्यत आहउप्पन्ने अहिगरणे, गणहारिनिवेदणं तु कायव्वं / जइ अप्पणा भणेजा, चाउम्मासा भदे गुरुगा IIEI अधिकरणे उत्पन्ने सति प्रवर्तिनीमुखादाकर्ण्य तेन गणधरेण द्वितीयस्य गणधारिणो निवेदनं कर्तव्यम्। यदि सगणधर आत्मनैवगत्वा द्वितीयगणधरसत्कां व्रतिनी भणेत्-उपालभेत ततश्चतुर्मासा गुरुका भवेयुः। इदमेव सविशेषमाहवतिणी वतिणं वयणी, व परगुरुं परगुरुंच जइ वइणिं। जंपइ तीसु वि गुरुगा, तम्हा सुगुरूण साहेजा।।१०।। यदि व्रतिनी व्रतिनी जल्पति-उपालभते, व्रतिनी वा यदि परगुरुमन्यसंयतीगणधरं जल्पति, परगुरुर्वा यदि व्रतिनी जल्पति, तत एतेषु त्रिष्वपि चतुर्गुरुकाः / तस्मात् स्वगुरूणां कथयेत् / उपलक्षणत्वात् स्वव्रतिनी चोपालभेत। अथ परवतिनीमुपालभमानस्य को दोषःस्यादित्यत्रोच्यतेजाणामि दूमियं भे, अंगं अरुअम्मि जत्थ अर्कता। को वा एअन्न मुणइ, वारहिह कित्तिया वाऽवि // 101 / / सा परव्रतिनी भण्यमाना ब्रूयात्-जानाम्यहं यदूनं भवतामङ्गम्, यत्र यस्मिनङ्गे अरुषि-व्रणे युष्मदीयसंयती प्रति ब्रुवाणया मया यूयमाक्रान्ता स्थ, को वा एतमर्थं नजानाति कियतो वा अवतो निवारयिष्यथा यद्यहं वारिता सती न जल्पिष्यामि तर्हि अन्येऽपि जल्पिष्यन्तीति। अपिचनिग्गंधं न विवायति, अलाहि किं वाऽवि तेण भणिएणं /