________________ वसहि १०१८-अभिधानराजेन्द्रः - भाग 6 वसहि शिष्यः प्राह-किं पुनः कार्य-कारणम् ? का वा यतना? उच्यतेअद्धाणनिग्गयाई, अम्गुज्जाणे भवे पवेसो य। पुन्नो ऊणे व भवे, गमणं खमणं च सव्वासिं ||3|| अधुना येऽध्वनिर्गता वसिमं प्राप्तास्ते,आदिशब्दादशिवादिका-रणेषु वर्तमानाः संयतीक्षेत्रे प्राप्तास्तत्र बाह्योद्याने स्थिता गीतार्थाः संयतीप्रतिश्रये प्रहेयाः, तैश्च विधिना तत्र प्रवेशः कर्तव्यः / संयतीनां च मासकल्पः पूर्ण ऊनो वा भवेत्, यदि पूर्णस्ततो गमनं कर्तव्यम्। अथ न्यूनस्ततः सर्वासामपि क्षपणं भवतीति नियुक्तिगाथासमासार्थः। अथ विस्तरार्थमाहउव्वाया वेला वा, दूरट्ठियमाइणो य परगामे। इय थेराओ सिजं, विसंतणावाहपुच्छा य॥४॥ अध्वनिर्गतादयः साधवः संयतीक्षेत्रे प्राप्ताः सन्तो यदिनतावद्भिक्षाया देशकालस्ततो यः पुरोवर्ती ग्रामस्तत्र गत्वा भैक्षं गृह्णन्तु अथते उदाताःअतीव परिश्रान्ताः, वेला वा तदानीमतिक्रामति, परग्रामे वादूरोत्थितादयो दोषाः, तत्र दूर-दूरवर्ती सग्रामो न तदानीं गन्तुं शक्यते, उत्थितो वा उद्वसीभूतोऽसौ आदि-शब्दात्-क्षुल्लको वा अभिनववासितो वा भाराक्रान्तो वा इत्यादि-परिग्रहः, इति विचिन्त्य अग्रोद्याने स्थित्वा यः स्थविरोगीतार्थः स आत्मद्वितीयः संयतीप्रतिश्रये प्रेक्ष्यते / स च तत्र गत्वा बहिरेक-पार्श्वे स्थित्वा नैषेधिकीं करोति। यदि ताभिः श्रुतं ततः सुन्दरम् / अथ न श्रुतं ततः शय्यातराणां निवेद्यते, ता आर्यिकाणां निवेदयन्ति। निवेदिते यदि सर्वा अप्यार्यिका वृन्देन निर्गच्छन्ति ततश्चत्वारो गुरवः / अथ प्रवर्तिनी प्रौढाभ्यांवयः परिणताभ्यामार्यिकाभ्यां सहितानिर्गत्यानुजानीतेति भणति ततस्तौ साधू आशिय्यांसाध्वीप्रतिश्रयं प्रविशतः। ततश्च ताभिः कृतिकर्मणि विहिते सगीतार्थः साधुरधोमुखमवलोकमानः आचार्यवचनेन तासामनाबाधपृच्छां करोतिकचिदुत्सर्पन्तीनां संयमयोगा निराबाधं भवतीनाम् ? ग्लाना वा न काचिद्वर्तते? ___ एवं पृष्टा किं कुर्वन्तीत्याहअमुगत्थ गमिस्सामो, पुट्ठाऽपुट्ठा वई यवोत्तूणं / इह मिक्खं काहामो, ठवणाइघरे परिकहेह ||5|| स्थविराः-गीतार्थाः पृष्टाः अपृष्टा वा अमुकत्र वयं गमिष्यामः इत्युक्त्वा इदं भणन्ति-वयमिह ग्रामे भिक्षां करिष्यामः ततः स्थापनादिगृहाणि परिकथयत। आदिशब्दो मात्रादिगृहसूचकः / ततस्तेषु कथितेषु यो विधिः कर्त्तव्यस्तमाहसामायारिकडा खलु, होइ अवडा य एगसाही य। सीउण्हं पढमादी, पुरतो समगं व जयणाए॥८६|| हे आर्याः ! कृतसामाचारीका यूयमुत नेति? तासां समीपे प्रष्ट व्यम्, 'अवड्डे' त्ति एकस्मिन्मासार्द्ध संयताः पर्यटन्ति, द्वितीयस्मिन् संयत्यः। / 'एगसाही य' त्ति एकस्यां साहीकायां गृहपङक्तयां साधवः पर्यटन्ति, द्वितीयस्यां साध्वय इति। यद्वा-शीतम् उष्णं वा यथायोगं गृह्णन्ति। तथा 'पढमाइ' त्ति प्रथमालिकाः आदिशब्दात्-पानकस्य वा पानं शून्यगृहादिस्थानानि वर्जयित्वा कुर्वन्ति। संयतीनां पुरतः प्रथमं समकं वा यतनया पर्यटन्ति, एष नियुक्तिगाथासमासार्थः। अथ विस्तरार्थं प्रतिपदमाहकडमकडं ति य मेरा, कडमेरा मित्तियं ति जइ पुट्ठा। ताहे भणंति थेरा, साहह किह गिहिमो भिक्खं / / 7 / / स्थविरैस्ताः वक्तव्याः, आर्याः! युष्माकं मर्यादां-सामाचारिकाविधि जानीम इत्यर्थः / ततः स्थविरा भणन्ति कथयत कथं भिक्षां गृह्णीमो वयम्। ताति अम्ह पुण्णो, मासो वच्चामों अहव खमणं णे। संपत्थियाओं अम्हे, पविसह वा जा वयं नीमो ||8|| ता आर्यिका ब्रुवते-पूर्णोऽस्माकं मासकल्पः अतः सूत्रार्थपौरुष्यौ कृत्वा व्रजामो वयम्-ग्रामान्तरं व्रजिष्याम इति साधवो यथासुखं पर्यटन्तु। अथवा-न पूर्णास्तथाऽपि क्षपणमद्य 'णे' अस्माकं सर्वासामपि ततः पर्यटत यूयम्। अथन क्षपणं ततस्ता ब्रूयुः-संप्रस्थिता वयं भिक्षाटनार्थ यूयं पश्चात् पर्यटत। अथवा--प्रविशतभिक्षामवतरत यूयं निर्गच्छाम इति। यदाच तासांक्षपणं भवति तदाब्रूयुःवित्थिओ य पुरोहडा,अन्तोभूमी य णे वियारस्स। सागारिओ य सन्नी, कुणइ उ सारक्खणं अम्हं विस्तीर्ण 'पुरोहडं' वर्तते / गाथायां प्राकृतत्वात्पुंस्त्वनिर्देशः 'णे' अस्माकमन्ताममध्ये विचारभूमिरस्ति, यश्चास्माकं सामायिकः स संज्ञीश्रावकस्ततः संरक्षणमस्माकं करोति बहिर्विचारभुवं गन्तुं न ददातीत्यर्थः। एवं संयतीभिरुक्ते, साधवस्तत्र यथासुखं पर्यटन्ति। अथ ताभिः पूर्व क्षपणं न कृतं ततो यदि सुभिक्षं वर्तते प्रचुरं च प्राप्यते ततः संयत्यःक्षपणं कुर्वन्तु। अपिच-यद्यपिताभ्यां साधुभ्यो भक्तपानं प्रदत्तुं न कल्पते तथाऽप्येवं कुर्वन्तीति ताभिः प्राधूयं कृतं भवति / अथ न शक्नुवन्ति क्षपणं कर्तुं ततः संयत्यः प्रागेव पर्यटन्त्यो दोषान्नं गृह्णन्ति, संयता भिक्षाया देशकाले पर्यटन्त उष्णं गृह्णन्तिा अथ संयतीनांदोषान्नमकारकं ततः संयता दोषान्नमितराः पुनरुष्णं गृह्णन्ति। उमयस्स अकारत-म्मिदोसिणे अहव तस्स असईए। संथरि भणंति तुम्हे, अडिएसु वयं अडीहामो ||6|| उभयस्य-संयतीसंयतवर्गस्य दोषान्ने अकारके, अथवा-तस्य दोषान्नस्यासत्यभावे संस्तरणे सति संयत्यो भणन्तियूयं तावदटत, ततो युष्मासु अटितेषु वयमटिष्यामः! अथैकएव तत्र देशकालस्ततः क्रमेण पर्यटने वेलाया अतिक्रमो भवति; ततः किं कर्तव्यमित्याहतुज्झे गिण्हह मिक्खं, इमम्मि पउरण्णपाणगामद्धे / वागडसाहीएवा, अम्हे सेसेसु घेच्छामो ||1|| संयत्यो ब्रुवते यूयं गृह्णीत भिक्षामस्मिन् प्रचुरान्नपानस्य ग्रामस्थाढ़े, अस्मिस्तु ग्रामार्द्ध वयं ग्रहीष्यामः। यदि वा–अस्मिन् पाटकेऽस्यां वा साहिकायां यूयं गृहीत, वयं शेषेषु ग्रहीष्याम इति।