________________ वसहि. 1017 - अभिधानराजेन्द्रः - भाग 6 वसहि छायां षड्गुरवः, कृच्छ्रप्राणे छेदः, कृच्छ्रोच्छासे मूलम्, समुद्धाते अनवस्थाप्याम, कालगमने पाराञ्चिकम्। एनामेव गाथा व्याख्यानयतिएसो वितत्थ वचइ, नियत्तिमो आगयंसि गच्छामो। लहुओ उ होइ मासो, परितावणमाइ जा चरिमं // 72 // एषोऽपिसंयतस्तत्र स्थण्डिले व्रजति अतो निवर्तामहे वयम्, आगते प्रतिनिवृत्ते सति गमिष्याम इति कृत्वा यदि संयत्यो निवर्तन्ते तदा लघुमासः। अथ संज्ञानिरोधनादनागाढपरितापनादिकं चरमपाराञ्चिकं यावत्प्रायश्चित्तम्। गड्डाकुडंगगहणे,गिरिदरिउजाण अपरिभोगे वा। पविसंते य पविटे, निते य इमा भवे सोही // 73|| अथतान्साधून दृष्टायदिगर्तायां कुडङ्गे वंशजालिकायां गहने-बहुवृक्षनिकुड) गिरिकन्दर्यापर्वतकन्दरायाम, उद्याने वा अपरिभोगे प्रविशेयुः, ततः प्रविशन्तीषुप्रविष्टासु निर्गच्छन्तीषु चेयं शोधिः साधूनां भवति। दूरम्मि दिढे लहुओ, अमुई अमुओ त्ति चउगुरू होति। ते चेव सत्त भङ्गा, वीयारगए कुडंगम्मि // 7 // यदि दूरे संयत्या संयतः, संयतेन वा संयती दृष्टा ततो लघुको मासः, अथ अमुका संयती अमुको वा अयं ज्येष्ठार्यः तिष्ठति तदा चतुर्गुरवो भवन्ति / तत्र च कुडङ्गे यदि कोऽपि संयतो विचारार्थं गतः पूर्व प्रविष्टो वर्ततेतदात एव सप्त भङ्गाः। तद्यथा-संयतः प्रविशन् दृष्टोन संयती 1, संयती प्रविशन्ती दृष्टान संयतः 2, द्वावपि दृष्टौ 3, द्वावपिन दृष्टौ 4 / एवं निर्गमनेऽपि चतुर्भङ्गी, नवरं चतुर्थो भङ्गः प्रवेशनिर्गमयोरुभयोरपितुल्य इति कृत्वा द्वाभ्यामप्येक एव गण्यते इति सप्त भङ्गा भवन्ति / एतेषु च प्रायश्चित्तं प्रागिव द्रष्टव्यम्। अथ तत्र ग्रामद्वारे स्थितेषु तेषु यत्तासां संयतीनां नि-- रोधो भवति तदुत्थदोषदर्शनाय दृष्टान्तमाहआभीराणं गामो, गामदारे य देउलं रम्म / आगमणभोइयस्स य, ठाइ पुणो भोइओ तहि यं / / 7 / / आभीराणां कश्चिद्ग्रामस्तस्य च ग्रामस्य द्वारे देवकुलं रम्यम्। अन्यदा च भोगिकस्य ग्रामस्वामिनस्तत्रागमनम्, ततस्तद्देवकुले भोगिकस्तिष्ठति। महिलाजणो य दुहितो, निक्खमण पवेसणं च सिं दुक्खं / सामत्थणा य तेसिं, गोमाहिससंनिरोधो य॥७६।। ततस्तेषामाभीराणां महिलाजनो दुःखितोऽभूत, निष्क्रमणं प्रवेशनं च तासां विचारादौ गच्छन्तीनां दुःखंदुष्करमभवत्। ततस्तेषां सामत्थण' त्ति पर्यालोचनमभूत, यथा-महिलाजनस्यातीव बाधा वर्तते / अथ एनं / भोगिकमुपायेनान्यत्र स्थापयाम इति ततस्तैर्गोमाहिषस्यगोमहिषीसंग्रहस्य स्ववर्त्मवियोजनस्य ग्रामादहिर्नीत्वाग्रामद्वारबन्धने रात्री संनिरोधः कृत इति। इदमेव स्फुटतरमाहविगुरुध्वियोंदीणं,खरकम्मीणं तु लज्जमाणीओ। मंजंति अणंतीओ, गोवाडपुरोहडे महिला॥७७|| इति ते गोणीहि समं, घिइमलभता उबंधिउंदारं। गामस्स विवच्छाओ, बाहिं ठावेसु गावीओ11७८|| विकुर्विता-वस्त्रादिभिरलंकृता बोन्दिः-शरीरं येषां ते विकुर्वितबोन्दयस्तेषामेवंविधानां भोगिकसंबन्धिनां खरकर्मिकाणां लज्जमानाः सत्यो महेला बहिरनिर्गच्छन्त्यो गोवाटकपुरोहडं निभञ्जन्ति; पुरीषव्युत्सर्गादिवा विनाशयन्तीत्यर्थः, इत्येवं विचार्य तेआभीराधृतिमलभमाना गोभिरात्मना सार्द्ध संचारिताभिः सह बहिर्निर्गतग्रामस्य द्वारे बडा विवत्साःवत्सरहिताः केवला एव गाः उपलक्षणत्वान्महिषीश्च ग्रामस्य बहिः स्थापितवन्तः / ताश्च तत्र स्थिताः स्ववत्सवियोजिता महता शब्देन सकलामपि रात्रिं विस्वरमारटितवत्यः, वत्सका अपि ग्रामं निःस्थिताः तथैव शब्दायितवन्तः। ततः किमभूदित्याहवच्छगगोणीसद्दे-ण असुवणं भोइए अहणि पुच्छा। सन्मावे परिकहिए, अन्नम्मि ठिओ निरुवरोहे ||7|| तेषां वत्सकानां गवां च यः शब्दो विस्वरारटनलक्षणस्तेन भोगिकस्यास्वपनं-निद्रान संयातेत्यर्थः / ततः अहनि-दिवसे उगते सति तेन पृच्छा कृता।यथा-किमेवं रात्रौ गोमहिषं विस्वरसमारटत्। तैराभीरैस्ततः सर्वोऽपि सद्भावः परिकथितः / ततोऽसौ भोगिकोऽन्यस्मिन् देवकुले निरुपरोधेनियाघाते गत्वा स्थित इति। अत्रोपनयमाहएवं चिय निरवेक्खा, वइणीण ठिया निओगपमुहम्मि। जातासि विराधणया, निरोधमादीतमावज्जे ||8|| एवमेव भोगिकवत्केचिन्निरपेक्षाः-संयतातिना सम्बन्धी यो नियोगो ग्रामः क्षेत्रमित्यर्थः, तस्य प्रमुख निर्गमप्रवेशद्वारे स्थितास्तैर्या तासां निरोधादिका विराधना आदिशब्दादनागाढपरितापनादिका तामापद्यते तन्निष्पन्नं तेषां प्रायश्चित्तं भवतीति भावः।। अहवण थेरा पत्ता, दलृ निकारणट्ठियं तं तु। भोइयनायं काउं, आउट्टविसोहिनिच्छुमणा // 1 // 'अहवण' त्ति अखण्डमव्ययपदमथवेत्यस्यार्थे। अथवा-स्थविराःकुलस्थविरादयस्तत्र क्षेत्रे प्राप्तमाचार्यादिकं ग्रामद्वार एव स्थितं दृष्ट्वा पृच्छन्ति, आर्य! किमत्र संयतीक्षेत्रे च भवानीदृशे प्रदेशे स्थितः? इति। ततो निर्वचने प्रदत्ते यदि निष्कारणिकस्ततो भोगिकज्ञानमन्तरोक्तं कुर्वन्ति। यथा--तेन महिलाजनेन महान् क्लेशराशिरनुबभूवे एवमेतामिरपि संयतीभिर्वा भवता अत्र स्थितेन महद् दुःखमनुभवनीयम्। एवमुक्ते यद्यावृत्तः प्रतिनिवृत्तस्ततो विशोधिं प्रायश्चित्तं देशतः क्षेत्रान्निष्काशना कर्तव्या। एवं ता दप्पेणं,पुट्ठो व भणिज्ज कारणठिओऽमि। तह यं तु इमा जयणा, किं कर्ज का य जयणा उ॥२॥ एवं तावद्दर्पणाकुट्टिकया स्थितानां दोषा उक्ताः / अथ कुलादिस्थविरैः पृष्टो भणेत्-कारणे स्थितोऽस्म्यहम्, ततः पुष्टकारणसद्भावेन प्रायश्चित्तम्, ननिष्काशना। तत्रतुकारणे स्थितानाभियंवक्ष्यमाणायतना।