________________ वसहि 1014 - अभिधानराजेन्द्रः - भाग 6 वसहि चूयफलदोसदरिसी, चूयच्छायं पि वजेइ // 4 // भवेद्वान वा दोषायतनेषु-ब्रह्मविराधनादिदोषस्थानेषु वर्तमानस्य मनो निरोद्धं प्रभुत्वं-सामर्थ्य तथापि दोषायतनानि दूरतः परिहरणीयानि। दृष्टान्तश्चात्र चूतफलदोषदर्शीचूतच्छायामपि वर्जयति / "जहा एगो रायपुत्तो अंबगपित्तस्स अंबगेहिं अइखइएहिं वाही उढिओ / सो वेजेहिं जाप्पकतो अंबगा य पडिसिद्धा। सो अन्नया पारद्धिं गओ, अंबच्छायाए वीसमइ। अमचेणं पुण पडिसिद्धो, तह वि ठाइ, ताहे तेण वारिजंतेण वि तं फलं गहियं / भणइ अमचं--न खाइज्जं को दोसो गहिए त्ति / तेण पसंगदोसेण खइयं, विणट्ठो य। एस दिट्ठतो। अयमत्थोवणओ-जहा तस्स रायपुत्तस्स विजेहिं अंबगा अपत्थ त्ति काउंपडिसिद्धा तहा भगवया वि साहूणं अचंत-पडिसेवा इह परत्थ य अपत्थ त्ति काउं पडिसिद्धा तप्परिहरणो वाओ य इत्थीपसुपंडगसंसत्ताए वसहीए संजईखेत्ते यन ठायव्यं, इचाइ उवइट्ठो।जो तेसुठाइ सो नियमा पसङ्गदोसेण विणस्सइ, चरित्तरजस्स य अणभोगी भवइ, जहा सो रायपुत्तो / अन्नो पसत्थो रायपुत्तो सो चूतफलदोसदरिसी चूयच्छायं पि परिहरतो इह लोइयाणं कामभोगाणं भोगी जातो। एवं जो साहू तित्थयरपडि-सेवादोसदरिसी इत्थिसंसत्ताओ वसहीओसंजईखेत्तं च परिहरइसो नियमा इह परत्थय सव्वसुक्खाणं आभोगी भवइ त्ति"। अथ 'दूरेण संजईओ' इत्यादि यत्परेणाक्षिप्त तदेतत्परिजिहीर्षुराहइत्थीणं परिवाडी, कायव्वा होइ आणुपुष्वीए। परिवाडीए गमणं,दोसाय सपक्खमुप्पन्ना ||3|| स्त्रीणाम्-एकखुरादीनां परिपाटी--पद्धतिरानुपूर्व्या कर्तव्या भवतिप्ररूपणीयेत्यर्थः / ततः परिपाट्या यथा तासु गमनं भवतीति तथा वाच्यम्, दोषाश्च स्वपक्ष उत्पन्ना भवन्ति वक्तव्यमिति नियुक्तिगाथासंक्षेपार्थः। अथैनामेव गाथां व्याख्यानयतिएगखुरदुखुरगंडी,सणक्खइत्थीस चैव परिवाडी। बद्धाण चरतीणं, जत्थ भवे वग्गवग्गेसु // 4|| तत्थऽन्नतरो मुक्को-सजाइमेव परिधावई पुरिसो। पासगए वि विवक्खे, चरइ सपक्खं अवेक्खंतो ||4|| एकखुरा-वडवादयः द्विखुरा-गोमहिष्यादयः गण्डपदाहस्तिन्यादयः सनखपदाः--शुनीप्रभृतयः एतासुषष्ठीसप्तम्योरर्थ प्रत्यभेदादेतासां स्त्रीणां वर्गे वर्गे पृथक् सजातीयसमूहरूपेषु बद्धानां वा चरन्तीनां वा यत्र क्वापिकुटीवाटकादौ परिपाटी भवेत्, तत्राश्व-गोहस्तिशुनकादीनामन्यतमः पुरुषो युक्तःसन्दूरस्थितामपि स्वजातीयामेव बडवादिकां परिधावति। विपक्षे तु विजातीये-गवादिपक्षे पार्श्वगतेऽपि प्रत्यासन्नस्थितेऽपि स्वपक्षमप्रेक्षमाणश्च रति,नपुनर्विपक्षमनुधावतीति भावः। एवं श्रमणोऽपि स्वपक्ष इति कृत्वा विश्वस्तमनाः संयतीभिः सह सङ्गं करोति। यतःआगंतुयदव्वविभू-सियं च ओरालियं सरीरंतु। असमंजसो उतम्हा, गारिस्थिसमागमो जइणो॥४६|| आगन्तुकद्रव्यैर्वस्त्राभरणादिभिर्विभूषितमलंकृतं चशब्दादुद्वर्त्तनस्नानादिपरिकर्मयुक्तं च यस्मादगारस्त्रीणामौदारिकं शरीरमन्यादृशमिव प्रतिभाति, तस्मादसमञ्जसो-विसदृशस्ताभिः सह यतेः-- साधोर्मलीमसशरीरस्य समागमोमीलकः / अपिचअविभूसिओ तवस्सी, निकामोऽकिंचणो मयसमाणो। इय गारीणं समणे, लज्जा भयसंथवो न रहो।।४७|| अविभूषितो-विभूषारहितः एष तथा तपस्वी-तपः क्षीणदेहो निष्कामःशुभरसगन्धाधुपभोगरहितः,अकिञ्चनो-निष्परिग्रहः, ततो मृतसमानः शवकल्प एष इत्येवं सागारीणां श्रमणे अवज्ञा भवति / श्रमणस्य पुनरगारीभिः सह विपक्षतया लज्जा / यचागारीभ्यो भयं तेन ताभिः सह न संस्तवः परिचयो नवा रह एकान्त इति! स्वपक्षे तुकथमित्याहनिब्मयता य सिणेहो, वीसत्थत्तं परोप्परनिरोहो। दाणकरणं पि जुज्जइ, लग्गइ तत्तं च तत्तं च // 58| संयतस्य संयत्यां निर्भयता; न भयमुत्पद्यते, स्नेहश्चोभयोरपि भवति स्वपक्षत्वात्, विश्वस्तत्वं च विश्वासः परस्परगुह्यगोपन-विषयःप्रत्यय इत्यर्थः, परस्परमुभयोरपि निरोधोवस्तिनिग्रहात्मकः, तथा दानकरणमपिवस्वपात्रादिलक्षणं संयती प्रति तस्य युज्यते; संभवतीत्यर्थः। ततो यथा तप्तं च तं लोहं लगति-संबध्यते तथा संयतीसंयतौ द्वावपि निरोधसंतप्तौ रहो लब्ध्वा लगत इति / आह-दृष्टास्तावत्स्वपक्षपरपक्षसमुत्था दोषाः परमेते कुत्र भवन्तीति निरूप्यताम् / उच्यतेवीयार भिक्खचरिया, विहारजइचेइवंदणादीसुं। कजेसु संपरित्ता,ण हॉति दोसा इमे दिस्स||४|| एकवगडे-एकद्वारे च ग्रामादौ विचारभूमिभिक्षाचर्याविहारभूमियतिचैत्यवन्दनादिषु कार्येषु प्रतिश्रयान्निर्गतानां रथ्यादौ सम्पतितानां मिलितानाम् अन्योन्यं दृष्ट्वा एते दोषा भवन्ति। दूरम्मि दिहि लहुओ,अमुगो अमुगि तिचउलहू हॉति। किइकम्मम्मि य गुरुगा, मिच्छत्तपसजणा सेसे // 50 // यदि दूरेऽपि संयतः संयत्या दृष्टः, संयती वा संयतेन यदि दृष्टा तदा लघुको मासः, प्रत्यासन्नप्रदेशे समायातं संयतस्य सम्यगुपलक्ष्यते संयती यद्यस्तुकोऽयं ज्येष्ठार्य! ब्रूते, संयतोवासंयतीमुपलक्ष्य अमुका संयतीति ब्रवीति तदा चत्वारोलघवः। अथ सा कृतिकर्मवन्दनं करोति तदा चत्वारो गुरुकाः, ये चाभिनवधर्माणस्ते तथा वन्दमानामुपलभ्यमिथ्यात्वं गच्छेयुः / शेषेभोजिकाघाटिकादौ शङ्कां कुर्वाणे सति प्रसज्जनाप्रायश्चित्तस्य वृद्धिर्द्रष्टव्या। तामेवाहदिढे संका भोइय, घाडियणाईयगामबहिया य। चत्तारि छच लहुगुरु, छेदो मूलं तह दुगं च // 51 // संयतस्य संयत्या कृतिकर्म क्रियमाणं केनचिद् दृष्टं दृष्टे सति