________________ वसहि 1015 - अभिधानराजेन्द्रः - भाग 6 वसहि - तस्य शङ्का वक्ष्यमाणा संजायते ततश्चत्वारो गुरवः। अथ भोजिकायाभार्यायाः कथयति ततश्चतुर्लघुकाः, घाटिकोमित्रं तस्याग्रतः कथने च चतुर्गुरवः, ज्ञातीनांस्वजनानां कथने षट्लघवः, ग्रामस्य कथयतिछेदः, ग्रामबहिर्निर्गत्य कथयति मूलम्, गामसीमायां कथने अनवस्थाप्यम्, सीमानमतिक्रम्य कथयति पाराश्चिकम्। कीदृशी पुनः शङ्का भवतीत्याहकुवियं नु पसादेंती, आओ सीसेण जायए विरह। आओ तलपन्नविया, पडिच्छई उत्तिमंगेणं // 12 // नुरिति वितर्के,किमेषा संयती एवं वन्दमाना कुपितं सन्तमेनं संयतं / प्रसादयति, आहोस्वित् शीर्षणमस्तकेन रह एकान्तं याचते, उताहो तेन साधुना तलेन वण्डकादिकरणेन प्रज्ञापिता सती प्रार्थनाम् उत्तमाङ्गेन प्रतीच्छति। इइ संकाए गुरुगा, मूलं पुण होइ निव्विसंके तु। सोही वासन्नतरे, लहुगतरी गुरुगतरी इयरे // 53 // इति एवं शङ्कायां चत्वारो गुरुकाः,अथ निर्विशङ्क-कुपित-प्रसादार्थमेव वन्दनकं करोति मन्यते ततो द्वयोरपि मूलम्, भोजिकादिश्च यो यस्य संबन्धेनाऽऽसन्नतरस्तत्र शोधिलघुकतरा, इतर-स्मिन् पाटिकज्ञात्यादौ संबन्धेन दूरतरे गुरुकतरा। अथ किमिति ज्ञातीनां प्रथमं न कथयतीत्याहविस्ससइभोइमित्ता-इएसुतो नायओ भवे पच्छा। जह जह बहुजणनायं,करेइतह वड्कए सोही // 54|| भोजिकमित्रादिषु शरीरमात्रभिन्नेषु न किमपि गोपनीयमस्तीति कृत्वा यतोऽसौ विश्वसिति ततो ज्ञातीन्-स्वजनान् पश्चाज्ज्ञापयति,यथा यथा चासौ बहुजनज्ञानं करोति तथा तथा शोधिः-प्रायश्चित्तं वर्द्धते। अथासौ ज्ञाप्यमानो जनः प्रतिषेधयति ततः प्रायश्चित्तमप्युपरमते। तथा चाऽऽहपडिसेहो जम्मि पदे, पायच्छित्तं तु ठाइ पुरिमपए। निस्संकियम्मि मूलं,मिच्छत्तपसजणा सेसे // 5|| तेन पुरुषेण भोजिकाया आख्यातम्-मया संयती संयतं शीर्षप्रणामेनावभाषमाणा दृष्टा ततः सा प्रतिषेधयति न भवत्येवम् एवमसमञ्जसभाव इति, ततः प्रायश्चित्तमप्युपरतम् / अथासौ तया न प्रतिषिद्धस्ततः प्रायश्चित्तं वर्द्धते, एवं घाटिकादिष्वपि वक्तव्यम्, ततो यस्मिन् भोजिकादौ पदे प्रतिषेधस्ततः पूर्वपदे शङ्कादौ प्रायश्चित्तं तिष्ठति, नोर्ध्वं वर्द्धत। तथा कुपितप्रसादनाद्यर्थमेव करोतीति निःशङ्किते मूलम्। एवं मिथ्यात्वं शेषस्य च भोजिकादिविषयप्रायश्चित्तस्य प्रसज्जना भवति। कथं पुनर्भोजिकादयः प्रतिषेधयन्तीत्याहकिइकम्मं तीऍ कयं,मा संक असंकणिअचित्ताई। न वि भूतं न भविस्सइ, एरिसगं संजमधरेसुं // 56 // कृतिकर्म-वन्दनकं तया संयत्या कृतंमा आशङ्कअशङ्कनीयचित्ता अमूः संक्लिष्टाः नापि भूतम् / अपिशब्दान्न भवति, न च भविष्यति ईदृशं भवत्परिकल्पितं कुपितप्रसादनादिकमसमञ्जसचेष्टितं संयमधरेषुसाधुसाध्वीजनेषु / एवं विचारभूमौ गच्छतां दोषा उक्ताः। अथ भिक्षाचर्यायां तानेवाऽऽहपढमवितियातुरो वा,सइ कालतवस्सिमुच्छसंतो वा। रत्थामुहाइपविसं-निंतो व जणेण दीसिज्जा / / 57 // 'रत्थामुहाईत्ति तस्मिन्ग्रामे-रथ्यामुखे आदिशब्दादन्यत्र च तथाविधे स्थाने देवकुलं वा शून्यगृहं वा भवेत्, तत्र प्रथमपरीषहातुरःप्रथमालिकार्थम्, द्वितीयपरीषहातुरश्चद्रवपानार्थं प्रविशेत्, यद्वा-यावन्न सत्कालो भिक्षाया आदेशकालो भवति तावदत्रैवोपविष्टस्तिष्ठामि / अथवा-तपस्वीपक्षकः स विश्रामग्रहणार्थम्, यद्वा-अत्युष्णेन कस्यापि मूर्छा समुत्पन्नातस्या अपनयनार्थम्, यद्वाभिक्षाटनेन श्रान्तोऽहमतोऽत्र विश्राम गृह्णामि; एवमेंतैः कारणैस्तत्र प्रविशेत् / स च प्रविशन् ततो निर्गच्छन् वा जनेन दृश्यते, संयत्यपि तत्रैतैरेव कारणैः प्रविशेत्। साऽपि प्रविशन्ती जनेन दृष्टा स्यात्। अत्र चतुर्भङ्गीमाहसंजयों दिवो तह सं-जई य दोण्णि वि तहेव संपत्ती। रत्थामुहे व होजा, सुन्नघरे देउले वाऽवि // 18 // संयतस्तत्र जनेन दृष्टो न संयती 1, संयती दृष्टा न संयतः२, संयतः संयती च द्वावपि दृष्टौः३, तथा द्वावपि न दृष्टौ४,'तहेव संपत्ती ति यैः कारणैःप्रथमद्वितीयपरीषहाऽऽतुरतादिभिः संयतः प्रविष्टस्तैरेव संयत्या अपि तत्र संप्राप्तिरभूत्। एवमनन्तरोक्तचतुर्भङ्गया रथ्यामुखे शून्यगृहे वा देवकुले वा दर्शनं स्यात्। ततः किमित्याहवइणी पुटवपविट्ठा, जेणायं पविसते जई एत्थ। एमेव भवति संका, वइणिं दठूण पविसंतिं // 16 . संयतं तत्र प्रविशन्तं दृष्ट्वा शङ्कते नूनं व्रतिनी पूर्वप्रविष्टा वर्तते, येनाऽयं यतिस्त्र प्रविशति। एवमेव व्रतिनीं प्रविशन्तीं दृष्ट्वा शङ्का भवति,नूनं संयतः प्रविष्टोऽत्र येनेयं प्रविशति। उमयं वा दुदुवारे, दळं संगारउ तिमन्नंति।। ते पुण जइ अन्नोन्नं, पासंता तत्थ न विसंता / / 60|| द्विद्वारे वा देवकुले उभयं संयतः संयती प्रविशेत,तत्रैकेन द्वारेण संयतः प्रविष्टो द्वितीयेन तुसंयती। तौ च तथा दृष्ट्वा संगार:-संकेतोऽत्रानयोरिति मन्यमानः तौचसंयतीसंयतौयद्यन्योन्यमद्रक्ष्यताम्ततस्तत्र नावेक्ष्यतांप्रवेशं नाकरिष्यताम्। इत्थं प्रवेशे चतुर्भङ्गी दर्शिता। अथ निर्गभनेऽपि तामतिदिशन्नाह। एमेव ततो णिते,भला चत्तारि हाँति नायव्या। चरिमो तुल्लो दोसु वि, अदिहभावेण तो सत्त // 61|| एवमेव-प्रवेशवत् ततः शून्यगृहादेर्निर्गच्छतोरपि तयोश्चत्वारो भङ्गा भवन्ति-ज्ञातव्याः, तद्यथा-संयतो निर्गच्छन् दृष्टो न संयती१, संयती निर्गच्छन्ती दृष्टा न संयतः 2 संयतःसंयत्यपि द्वावपि दृष्टौ३, द्वावपि न दृष्टौ 4, अत्रच द्वयोरपि प्रवेशनिर्गमयोश्वरमः-चतुर्थो भङ्गस्तुल्यः। कुत इत्याह- अदृष्टभावेन द्वयोरपि संयतसंयत्योरदृष्टत्वेन, ततश्च द्वाभ्यामप्येक एव गण्यते / एवं सप्त भङ्गा भवन्ति। एतेषु दोषानाहएक्ककम्मिय भने, दिट्ठाईया य गहणमाईया।