________________ वसहि 1013- अभिधानराजेन्द्रः - भाग 6 वसहि अथाऽत्रैव पराभिप्रायमाशक्य परिहरतिकोई तत्थ भणिज्जा, उप्पन्ने रंभिउं समत्थो त्ति। सो य प न वि होई, पुरिसो व घरं पलीवेंतो // 33 // कश्चित्तत्रानन्तरोक्तेऽर्थे ब्रूयात् यद्यपि मोह उत्पद्यते तथाऽप्यहमुत्पश्रेऽपि मोहे आत्मानं निरोर्बुसमर्थ इति। गुरुराह-सपुनरेवं वक्तातादृशे अक्सरे न निरोढुं प्रभुः-समर्थो भवति, पुरुष इवगृहं प्रदीपयत्। अथैनामेव नियुक्तिगाथा व्याख्यानयतिकामं अखीणवेदा, ण होइ उदओ जहा वदह तुम्झे। तं पुण जिणासु उदयं, मावणतवणाणवावारा॥३४॥ उप्पत्तिकारणाणं, सब्भावं वी जहा कसायाणं / ण हु णिग्गहो णिसेओ, एमेव इमं पिपासामो॥३५।। वयं भावनातपोज्ञानव्यापारान्-भावनास्तु कलेवरश्वेतच्छत्रचिन्तनादिकाः,तपश्चतुर्थादिकं ज्ञानव्यापारः सूत्रार्थचिन्तनात्मकः। अपि च"चउहिं ठाणेहिं कोहुप्पत्ती सिया, तं जहा-खेत्तं पडुच, वत्थु पडुच, सरीरंपडुच, उवहिं पडुच्च।" इत्यादिना स्थानाङ्गादौ प्रज्ञप्तानां कषायोत्पत्तिकारणानां क्षेत्रवस्त्वादीनां सद्भावेऽपि यथा कषायाणां निग्रहो न श्रेयान्? अपि तु श्रेयानेव एवमेव इदमपि प्रस्तुतं पश्यामः, मोहोदयकारणानां सद्भावेऽपि तन्निग्रहं करिष्याम इति भावः। अत्र सूरिः परिहारमाहपहरणजाणसमग्गो, सावरणो वि हु छलिज्जई जोहो। बालेन य न छलिज्जइ, ओसहहत्थो न किं गाहो // 36|| प्रहरणं--खङ्गादि यानं-हस्त्यादि ताभ्यां समग्रः-सम्पूर्णः, तथा सावरणः-सन्नाहसहितः, अपिशब्दाद्-युद्धकौशलादिगुण-युक्तोऽपि, यथा योधः समरशिरसि प्रविष्टः प्रयत्नं कुर्वाणोऽपियोधान्तरेण छल्यते; छल लब्ध्वा हन्यते इत्यर्थः। यद्वा-ग्राह:-सर्पग्राहको गारुडिकादिरौषधहस्तोऽपि किं व्यालेन-दुष्टसर्पण न छल्यते-छल्यत एव, एवं यद्यपि भवान् भावनातपोज्ञानव्यापारयुक्तस्तथाऽपि स्त्रीणां संदर्शनादिकं कुर्वन् मोहोदयेन छल्यत एवेति! अपिचउदयघडे विकरगए, किमोगमादीवितं न उज्जलई। अइइद्धो विन सक्का, विनिव्ववेउं कुडजलेणं // 37 / / उदकघटे करतलेऽपि-हस्तस्थितेऽपि ओको-गृहम् आदीपितम्प्रज्वलितं सन्नोज्ज्वलति-न दीप्यते / अथासावतीद्धोऽविदितोऽग्निस्ततः कुटजलेन प्रक्षिप्तेनापि नासौ निर्वापयितुं शक्यते, एवं यद्यपि व्यापारादिकं जलघटकल्पं स्वाधीनं तथापि मोहोदयाग्निना प्रज्वलितं चारित्रगृहं न प्रदीप्यते, अतिप्रबलो वा मोहो यत्प्रदीप्यते ततो घटजलकल्पेन बहुनाऽपि ज्ञानव्यापारादिना नासौ विध्मापयितुं शक्य इति। किंचरीढा संपत्ती वि हु, न खमा संदेहियम्मि अत्थम्मि। नायकए पुण अत्थे, जावि विवत्तीस निहोसा॥३५|| संयतीक्षेत्रे गतानां मोहोदयनिरोधादिको यः संदेहितः-संशया स्पदीभूतोऽर्थस्तस्मिन्नीढया यदृच्छया घुणाक्षरन्यायेन संपत्तिरपि न क्षमा-नश्रेयसी,यःपुनःसाध्वीरहितक्षेत्रगतसनादिकोऽर्थः पूर्वं ज्ञातोनिर्दोषत्वेन निण्णीतस्ततः कृतः कर्तुमारब्धो ज्ञातकृत-स्तस्मिन्नेवंविधे अर्थेऽपि कुतोऽपि वैगुण्यतो विपत्तिर्भवति साऽपि निर्दोषा मन्तव्या। अथ परः प्राहदूरेण संजईओ, असंजईआहि उवहिमाहारो। जइ मेलणाए दोसो, तम्हा रत्तम्मि वसियव्वं // 39 // संयत्यो दूरेण पृथक्क्षेत्रादौ वसन्त्यः परिहर्तुशक्यन्तेयास्तुअसंयत्यःअविरतिकास्ताः परिहर्तुमशक्याः, यतस्ताम्य उपधि-राहारश्च लभ्यते, ततो यदि मीलनायाः संसर्गस्य दोषः संयतिक्षेत्रे तिष्ठतां भवति ततः साधुभिररण्ये गत्वा वस्तव्यम्। सूरिराहरण्णे वितिरिक्खीतो, परिन्नदोसा असंततीयाऽवि। लज्जाय कूलबालो गुणमगुणं किं च सगडाली।।४०।। अरण्येऽपि वसन् तिरश्च्यः स्त्रियो-हरिणीप्रभृतयो दोषानुपजनयन्ति, तथा परिज्ञाभक्तप्रत्याख्यानं तद्दोषश्च भवति तथाहि-तत्राहाराद्यभावत्परिज्ञा भक्तप्रत्याख्यानं कर्त्तव्यम् / तत्र प्रथमत एव कर्तुं न युज्यते विरतिसहितस्य जीवितस्य दुष्प्राप्यत्वात्, न च तदानीं कर्तुं शक्यते, कुर्वतामप्यार्त्तध्यानसंभवात्कुदेवगमनप्रत्यबोधिदुर्लभत्वादयो दोषाः, असंततिश्च-प्रज्ञानाद्यभावान्न शिष्यप्रशिष्यादिसंतान उपजायते, यद्वा'असंतइए' ति सर्वथैव स्त्रीणां ममतायां वनवासमङ्गीकृत्य यत्किल ब्रह्मचर्य धार्यते तन्न बहुफलं भवति। 'थंभा कोहो अणाभोगा, अणापुच्छा असंतई' इति वचनप्रामाण्येन सदोषत्वात् / नचात्रारण्य, जनाकुलं वा प्रमाणम्, यतः कूलबालकोऽटव्यामपि वसन् के गुणं लब्धवान, साकटालिः-स्थूलभद्रः स्वामी जनमध्ये गणिकायाः गृहेऽपि तिष्ठन् कम् अगुणं लब्धवान्; न कमपीति भावः। किंचकस्सइ विवित्तवासो, विराहणा दुग्मए अभेदो वा। जह सगडालिमणो वा, तह बितिओ किं न रंभिंसु // 41 // कस्यचिद्विविक्ते-पशुपण्डकविरहितेऽपि वासे वसतः प्रबलवेदोदयाद्विराधना ब्रह्मचर्यस्य भवति / कस्यापि पुनर्दुर्भये स्त्र्यादिसंशक्तप्रतिश्रयवासेऽपि वेदनीयमोहनीयक्षयोपशमप्रबलत्वेनाभेदो-न ब्रह्मचर्यविलोपो भवति। वाशब्दः प्रकारान्तरद्योतनार्थः / आह यद्येवं तर्हि कर्मोदयक्षयक्षयोपशमादिरेव प्रमाणं न स्त्रीसंसर्गादि, नैवम्कर्मणामुदयक्षयक्षयोपशमादयोऽपि प्रायस्तथाविधद्रव्यक्षेत्रादिसहकारिकारणसाचिव्यादेव तथा तथा समुपजायन्ते नान्यथा यथा वा शाकटालिः-स्थूलभद्रस्वामी स्वकीयं मनः स्त्रीसंसर्गेऽपि निरुद्धवार तथा द्वितीयः सिंहगुहावासी किं न निरुद्धवान्, येन स्त्रीसंसर्गार मप्रमाणं गीयते। यतश्चैवमतःहोजन वावि पभुत्तं, दोसायतणेसु वट्टमाणस्स