________________ वसहि 1012- अभिधानराजेन्द्रः - भाग 6 वसहि मा परमएगोऽत्थ नवरि दोसो, संपइ सो वियन बाहए किंचि। नयसो भावो विनइ, अदोसवं जो अनिययस्स ||14|| नवरमेक एवात्र दोषो विद्यते,परं सोऽपि मां प्रति मदीयेनाभिप्रायेण न किञ्चिद्राधते, न चाऽसौ भावः पदार्थो जगति विद्यते योऽनियतस्यअनिश्चितस्यानुद्यमवतो पुरुषस्य अदोषवान् भवति, किं तु--सर्वोऽपि दोषवान् इति भावः। अहव ण किं सिटेणं,सिट्टे काहिहें न वा वि एवं ति। खुडमुहा संति इहं,जे कोविजा जिणवयं पि॥१५॥ अथवा-किमस्माकमनेनार्थेन शिष्टेन-कथितेन कार्य; न किञ्चिदित्यर्थः, यतो यूयं शिष्ट सति करिष्यथ वा न वा एनमस्मदभिप्रेतमर्थमिति वयं न विद्मः / कुत इत्याह- क्षौद्रमुखामधुमुखा; मधुरभाषिण इत्यर्थः,सन्ति-विद्यन्ते इह-अस्मिन्नर्थे भवतां वल्लभेश्वराः, ये जिनवाचमपि कोपयेयुः-अन्यथा कुर्युः / आस्तां तावदस्मदादिवचनमित्यपिशब्दार्थः। इह सपरिहास निबंध पुच्छिओ वेइ तत्थ समणीओ। बलियपरिगहियाओ,होह दढा तत्थ य वयामो॥१६॥ इत्येवं सपरिहासे तेनोक्ते आचार्यो महता निबन्धेन पृष्टः / कथय भद्र! कीदृशस्तत्र दोषो विद्यते, ततःसब्रवीति-तत्र श्रमण्यो बलिना बलवता आचार्यादिना परिगृहीता विद्यन्ते, परंतथापि वयं दृढा भवन्तः, कामपि शङ्कां कुरुध्वम्। अत्रार्थे सर्वमप्यहं भणिष्यामि, अतस्तत्र व्रजामो वयम्। एवं भणतः प्रायश्चित्तमाहभिक्खू साहइ सोउं, व भणइ जइ वावि तहिं मासो। लहुगा गुरुगा वसमे, गणिस्स एमेव वेहाए।।१७।। यदि भिक्षुरनन्तरोक्तवचनं कथयति, श्रुत्वा वा भिक्षुरेवं भणति वाढं व्रजामः तत्र वयम्, ततो मासलघु प्रायश्चित्तम् / अथ वृषभ उपाध्यायम् एवं ब्रवीति,प्रतिशृणोति वा ततस्तस्य चत्वारो लघवः। गणिन आचार्यस्य इत्थं भणतः प्रतिशृण्वतो वा चत्वारो गुरुकाः / एवमेवोपेक्षायामपि द्रष्टव्यम् / किमुक्तं भवति-इत्थं तेनोक्ते व्रजामो वयमिति वा प्रतिश्रुते यदि भिक्षुरुपेक्षां करोति तदा तस्य लघुमासिकम्। वृषभस्योपेक्षमाणस्य चतुर्लघु। आचार्यस्योपेक्षां कुर्वाणस्य चतुर्गुरु! अथवासामत्थण परिवत्थो, गहणे पयभेदपंथसीमाए। गामे वसहिपवेसे, मासादी भिक्खुणो मूलं ||18|| भिक्षुस्तत्र गन्तव्यं न वेति 'सामत्थणं' पर्यालोचनं करोति मासलघु 'परिवत्थि' त्ति देशीशब्दोऽयं निर्णये वर्तते / ततो गन्तव्य मेव तत्रेति निर्णय करोतिमासगुरु, 'गहणे' ति निर्णीय यदुपधिंगृह्णातिततश्चतुर्लघु, पदभेदं कुर्वतश्चतुर्गुरुकम्, पथि व्रजतः षड्-लघुकम्, ग्रामसीमायां मासच्छेदः, वसतौ प्रवेशं कुर्वतो मूलम्। एवं भिक्षोलघुमासादारभ्य मूलं यावत्प्रायश्चित्तमुक्तम्। गणिआयरिए सपदं,अहवा अविसेसिया भवे गुरुगा। भिक्खूमाइ चउण्हं,जइ पुच्छसि तो सुणसु दोसे // 19 // गणिन उपाध्यायस्य मासगुरुकादारभ्य स्वपदमनवस्थाप्यं यावत्, आचार्यस्य चतुर्लघुकादारभ्य स्वपदं पाराञ्चिकं यावत्प्रायश्चित्तं मन्तव्यम् / अथवा-भिक्षुवृषभोपाध्यायाचार्याणां चतुर्णामपि तपःकालविशेषिताश्चतुर्गुरुकाः। तद्यथा-भिक्षोभ्यामपि लघवः तपसा कालेन, वृषभस्य कालेन गुरवस्तपसा लघवः, उपाध्यायस्य तपसा गुरवः कालेन लघवः, आचार्यस्य तपसा कालेन च द्वाभ्यामपि गुरवः। अथ केषां तत्र तिष्ठतांदोषा इति यदि पृच्छसि ततः शृणुनिशमय दोषान् मयाऽभिधीयमानान्। तानेवाभिधित्सुराहअन्नतरस्स निओगा, सवेसि अणुप्पिएण वातेतु। देउले सभासुन्ने, निओयपमुहे ठिया गंतुं // 20 // अन्यतरस्य भिक्षोः भिक्षुभावे नियोगान् सर्वेषां-साधूनामनुप्रियेण अनुपात्यते आचार्यास्तत्र गत्वा देवकुले वा सभायां वा शून्यगृहे वा नियोगस्य मुखे प्रवेशे एव स्थिताः, ततो निर्ग्रन्थानां निर्ग्रन्थीनां चोभयेषां परस्परदर्शनेन बहवो दोषा भवन्ति। (अत्र चाग्निदृष्टान्तः सूरिभिर्वर्णितः सच अग्गि' शब्दे प्रथमभागे 175 पृष्ठे गतः।) अथ 'किं पुण तासिं तयं नऽत्थि' त्ति पदं भावयन् शिष्येण प्रश्नं कारयतिलुक्खमरसुण्हमनिका-मभोयिणं देहभूसविरयाणं / सज्झायपेहमादिसु, वावारेसुं कओ मोहो॥३१॥ रूक्षम-निःस्नेहम् 'अरसुण्ह' त्तिनञ् प्रत्येकमभिसंबध्यते अरसम्हिङ्ग्वादिभिरसंस्कृतम् अनुष्ण-शीतलम् अनिकामपरिमितं भक्तं भोक्तुं शीलमेषां ते रूक्षाऽरसाऽनुष्णाऽनिकामभोजिनस्तेषाम्, मकारावलाक्षणिकौ / तथा देहभूषायाः-स्नानादिरूपायाः विरतानांप्रतिनिवृत्तानां स्वाध्यायः-पठनादिरूपः प्रेक्षा प्रतयुपेक्षणा तयोरादिशब्दाद्वैयावृत्त्यादिषु च व्यापारेषु व्यापृतानां साधुसाध्वीजनानां कुतो मोहःपुरुषवेदाधुदयरूपः संभवति। अथ प्रतिवचनमाहनियणाइ लूणमहण, वावारे बहुविहे दिया काउं। सुक्खसुढिया विरतिं, किसीबला किं न मोहंति॥३१॥ "नियणं' ति निदानं निद्राणमित्यर्थः / आदिशब्द उत्तरत्र योक्ष्यते / लवनं मर्दनं च प्रतीतम्, एवमादीन् बहुविधान् व्यापारान् दिवा कृत्वा शुष्काः स्नानाद्यभावेन शीतोष्णादिभिश्वपरिम्लानाः 'सुदिआ'-श्रान्ता एवंविधा अपि कृषीवलाः, किमिति--परिप्रश्ने, भवानेवात्र पृच्छ्यते, कथय--किं ते रात्रौ न मुह्यन्ति? नमोहमुपगच्छन्ति; मुह्यन्त्येवेति भावः। जइ ताव तेसि मोहो, उप्पजइ पेसणेहि सहियाणं / अव्वावासुहीणं,न भविस्सइ किह णु विरयाणं // 32 // यदि च तेषां-कृषीवलानां प्रेषणैः व्यापारैः सहितानां मोह उत्पद्यते ततो विरतानां संयतानामव्यापारसुखिनां तथाविधव्यापारहिततया सुखिना कथं नुनाम न मोहोदयो भविष्यति।