________________ वसहि 1006 - अभिधानराजेन्द्रः - भाग 6 वसहि एवं वसतीरपि प्रथमतः पृथक् पृथक् मासकल्पप्रायोग्या अष्टौ गृह्णाति, तदभावे सप्त षट् पञ्चादिक्रमेण यतन्तेयावत्तस्यामेवमूलवसतौ तिष्ठन्ति। अथात्रैव भङ्गकानाहइत्थं पुण संजोगा, एकिक्कस्स उ अलंभे लंभे य। णेगविहाणं गुणिया, तुल्लातुल्लेसु ठाणेसु // 1220 / / अत्र पुनः प्रक्रमेण एकैकस्य वसतिभागस्य वा अलाभे लाभे च यानि तुल्यानि तुल्यानि समानसंख्याकानि तेषु विधानेनचारिकाविधिना गुणिताः सन्तोऽनेके बहवः संयोगाभङ्गका भवन्ति / चारणिकाक्रमश्वायम्-अष्टौ व सतयोऽष्टौ भिक्षाचर्याः 1, अष्टौ वसतयः सप्त भिक्षाचर्याः 2. एवं षट् भिक्षाचर्याः 3, पञ्च भिक्षाचर्याः 4, चतस्रो भिक्षाचर्याः 5, तिस्रो भिक्षाचर्याः 6, द्वे भिक्षाचर्ये 7, एका भिक्षाचर्या 8, एवं सप्त वसतयोऽष्टौ भिक्षाचर्याः१, सप्त वसतयः सप्त भिक्षाचर्याः 2, इत्यादि चारणिकया सप्तादि-संख्यास्वपि वसतिविषयासु प्रत्येकमष्टावष्टौ भङ्गकाः प्राप्यन्ते। सर्वसंख्यया लब्धा भङ्गकानां चतुःषष्टिरिति / अर्थतेष्वेव भङ्गकेषु विधिमाहएक्काइ वि वसहीए, ठिया उभिक्खाचरिया, पतंति। वसहीसु विजयणेवं, अवि एक्काए विचरियाए॥१२२१।। येषु भङ्गकेष्वेकैव वसतिः प्राप्यते तेष्वेकस्यामपि वसतौ स्थिता भिक्षाचर्यायां प्रयतन्ते। प्रथममष्टौ भागान् ग्रामं विभज्य भिक्षां पर्यटन्ति, असंस्तरणे यावदेकमपि भागंकृत्वेति भावः अपिशब्दोद्वयादिसंख्यकासु वसतिषु तिष्ठन्तः सुतरां भिक्षाचर्यायांप्रयतन्ते इति सूचनार्थः। यत्रत्वकैव भिक्षाचर्या प्राप्यते तत्रैकस्यामपि भिक्षाचर्यायां पर्यटन्ते / एवमेव वसतिष्वपि यतना कर्तव्या। बृ०१ उ०२ प्रक०। (22) हेमन्तग्रीष्मयोः मासौ वस्तुंकल्पते--- से गामंसि वा०जाव रायहाणिसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गन्थाणं हेमंतगिम्हासु दो मासे वत्थए, अंतो इक मासं बाहिं एगं मासं। अंतो वसमाणाणं अंतो भिक्खायरिया बाहिं, वसमाणाणं बाहिं भिक्खायरिया||७|| अस्य संबन्धो, व्याख्या च प्राग्वत्। नवरं सबाहिरिके प्राकारबहि-- वतिगृहपद्धतिरूपया बाहिरिकया सहिते कल्पते निर्ग्रन्थानां हेमन्तग्रीष्मेषु द्वौ मासौ वस्तुम् / कथमित्याह- अन्तः-प्राकाराभ्यन्तेर एक मासम्, बहिर्बाहिरिकायामप्येकं मासम्, अन्तर्वसतामन्तर्भिक्षाचर्या, बहिर्वसतां बहिर्भिक्षाचर्येति। अथ भाष्यविस्तरःएसेव कमो नियमा, सपरिक्खेवे यसबाहिरियम्मि। नवरं पुण नाणत्तं, अंतो मासो बहिं मासो॥१२२२।। एष एव-प्रथमसूत्रोक्तः क्रमः सपरिक्षेपे-सबाहिरिकेऽपि ग्रामादौ नियमाद्वक्तव्यः, नवरं पुनः नानात्वविशेषोऽयम् अन्तः-प्रकाराभ्यन्तरे मासो बहिरपि मासः, इत्येवं मासयमृतुबद्धे स्थातव्यम्। पुण्णम्मि अंतों मासे, बहिया संकमण तं पि तह चेव / नवरं पुण नाणत्तं, तणेसु तह चेव फलएसु॥१२२३।। अभ्यन्तरे मासकल्पे पूर्ण बाहिरिकायां संक्रमणं कर्तव्यम् / तदपि संक्रमणं तथैव-पूर्वसूत्रवत् द्रष्टव्यम्, नवरं पुनरत्र नानात्वं तृणेषु तथा फलकेषु / तत्र यदि बाहिरिकायामेव तृणफलकानि प्राप्यन्ते ततस्तत्रैव ग्रहीतव्यानि / अथ तत्र तानि न लभ्यन्ते ततोऽन्यं ग्रामं व्रजन्तु। अथ तत्राशिवादीनि कारणानि ततो अभ्यन्तराण्येव तृणफलकानि बाहिरि.. कायां नेतव्यानि। तत्र विधिमाहअन्नउवस्सयगमणे, अणॉपुच्छा नउत्थि किंचि नेयव्यं / जइ नेइ अणापुच्छा, तत्थ उदोसा इमे हॉति / / 1225|| द्वितीये मासकल्पेबाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनापृच्छया नास्ति किञ्चित्तृणफलकादि नेतव्यम् / यद्यनापृच्छया नयति ततस्त्विमे दोषा भवन्ति। ताईतणफलगाई,तेणाहडगाई अप्पणो वाऽवि। निजत्तयगहियाई, सिट्ठाइं तह असिहाई।।१२२५।। तृणफलकानि येन साधूनां दत्तानि तस्य स्तेनाहृतानि वाभवेयुः, आत्मसंबन्धीनि वा भाति च प्रतिश्रयान्तरं नियमानि प्राप्यमाणानि गृहीतानि वा नीतानि सन्ति निशिष्टानि वा भवेयुः। शिष्टाशिष्टपदं व्याख्यानयतिकस्सेते तणफलगा,सिहे अमुगस्स तस्स गहणादी। गिण्डहवा सो भीओ, पचंगिरलोगमुडाहो // 1226|| स्तेनाहृतानि तृणफलकान्यनापृच्छय नीयमानानि पूर्वस्वामिना राजपुरुषैर्वा दृष्टानि। ततः साधुः पृष्टः कस्यैतानि? साधुः प्राह-अमुकस्य गृहपतेरिति,शिष्टे-कथिते सति तस्य ग्रहणाकर्षणादयो दोषा भवन्ति। तथाऽसौ साधुर्भातः सन् निनुते-अपलपति; न कथयतीत्यर्थः , ततोऽशिष्टे साधोःप्रत्यङ्गिरादोषो भवति- तृण-फलकदायकगृहपतेः संबन्धी चौर्यकरणलक्षणो दोषः स परकीयोऽप्यात्मनि लगतीत्यर्थः / लोके चोड्डाहो भवति-अहो साधवोऽपि परद्रव्यमपहरन्ति। अत्र अत्रैव प्रायश्चित्तमाहनयणे दिटे सिट्टे, गिहण ववहारमेव ववहरिए। लहुगा लहुया गुरुगा, छम्मासा छेय मूल दुर्ग / / 1227 / / स्तेनाहततृणानामपृच्छया बाहिरिकायां नयनं करोति लघुको मासः। अथ तानि नीयमानानि राजपुरुषैर्दृष्टानि ततश्चत्वारो लघुकाः। तैः पृष्ट साधुना शिष्ट-कथितं यथाऽमुकस्यैते ततश्चत्वारो गुरुकाः। अथ गृही राजपुरुषैर्गृहीतस्तथाऽपि चत्वारो गुरुकाः। अथासौ तै राजकुलाभिमुखमाकर्षितस्ततः षण्मासा लघवः। अथ राजकुलाभिमुखमाकर्षितस्तान् स गृहस्थः प्रतिलोममाकर्षति ततः षड् गुरुकाः। अथ राजकुलं नीत्वा व्यवहारं कारितस्ततः छेदः। व्यवहते सति यदि स गृहस्थः पश्चात्कृतस्ततो मूलम्। बहुलोकसमक्षमुद्दग्धे,हस्तपादाद्यवयवं व्यङ्गितेवा कृते