________________ वसहि १००८-अभिधानराजेन्द्रः - भाग 6 वसहि बिइय पदं च गिलाणे, वसही भिक्खं च जयणाए॥१२११॥ मासस्योपलक्षणत्वाचतुर्णां वा मासानामुपरि यदिवसति तदा प्रायश्चित्तं दोषाश्च भवन्ति। द्वितीयपदंचग्लाने ग्लानार्थम्, उपलक्षणत्वादशिवादिभिश्च कारणैर्मासस्योर्ध्वमप्यवस्थानलक्षणं भवति। तत्रच वसतिभैक्षं च यतनया ग्रहीतकम्। अथैनामेव विवरीषुः प्रायश्चितापत्तिस्थानानितावदाहपरिसाडिमपरिसाडी, संथाराहारदुविहउवहिम्मि। डगलगसरक्खमलग-मत्तगमादीण पच्छित्तं // 1212 // ओगासे संथारे, वीयारुचारवसहिगामे य। मास चउम्मासाधिग-वसमाणे होइमा सोही॥१२१३।। संस्तारको द्विधा-परिसाटी, अपरिसाटी चा परिसाटीफलकादिरूपः / एवं द्विविधमपि संस्तारकं यत्र मासकल्पं वासंवा कृतवान् तत्रैव ग्रामादौ गृह्णतः, एवमाहारमपितेष्वेव कुलेषु गृह्णतः औधिकौपग्रहिकभेदात् द्विविधो य उपधिस्तस्मिश्च तत्रैव गृह्यमाणे, डगलकानि-पुनः प्रोञ्छनलेष्टुकः सरजस्कः क्षारः मल्लकमात्रे प्रतीते तेषामादिशब्दात्-काष्ठकिलिञ्चादीनां च तत्रैव ग्रहणे प्रायश्चित्तं भवति / तथा अवकाशः-प्रतिश्रयैकदेशः संस्तारः-संस्तारभूमिः एतैः पूर्वपरिभुक्तां चैव परिभुक्ते, विचारःप्रश्रवणम् उच्चारः-संज्ञा एतौ तत्रैव स्थण्डिलमाचरति वसतिं प्राक परिभुक्तां परिभुङ्क्ते ग्रामस्योपरि ममत्वं करोति। यद्वा-अवकाशादिषु सर्वेष्वपि ममत्वं करोति, यथा-ऋतुबद्ध मासाधिकम्, वर्षामासे चतुर्मासाधिकं वसति। एतेषु स्थानेष्वियं वक्ष्यमाणा शोधिः। तामेवाऽऽहउक्कोसोवहिफलए, वासातीए य होति चउलहुगा। डगलगसरक्खमल्लग-पणगं सेसेसु लहुओ उ॥१२१४|| उत्कृष्ट वर्षाकल्पादौ फलके च-तत्रैव गृह्यमाणे वर्षाकाले च चत्वारो लघवः, डगलकसरजस्कमल्लकेषु उपलक्षणत्वात् काष्ठकिलिचादौ च रात्रिंदिवपञ्चकम्, शेषेषुपरिसाटीसंस्तारकादिषु सर्वेष्वपि लघुको मासः। ___ अथ मासाद्युपरि तिष्ठतो दोषानाहसंवासें इत्थिदोसा, उम्गमदोसा व नेह तो कुल्ला। चमढण गिलाण दुल्लम-वारत्तिसिभासियाऽऽहरणं // 1215 / / ऋतुबद्धेवर्षावासे वा यथोक्तकालावधेरुपरिसंवासे-एकत्राव-स्थाने संदर्शनसंभाषणादिना स्त्रीविषया आत्मपरोभयसमुत्था दोषा भवेयुः। प्रभूतकालावस्थानतश्च साधूनामुपरि भद्रकगृहिणां गाढतरः स्नेह उपजायते / ततश्च ते स्नेहत उद्गमदोषान् आधाकादीन् कुर्युः / ये तु प्रान्ताः गृहपतयस्ते ब्रूयुः कियचिरमस्माभिरमीषामद्यापि दातव्यं तिष्ठतीति अतिचमढणया च क्षेत्रं नीरसं भवति, ततो ग्लानस्य उपलक्षणत्वादाचार्यादीनां च प्रायोग्यं दुर्लभं भवेत्। अत्र च वारत्तकमहर्षेः कृतस्वल्पमात्रगृहं संगम्य प्रद्योतनृपेणोपहसि-तस्योदाहरणम्। अत एव तेन भगवता ऋषिमाषितेषु यत्सप्तविंश-मध्ययनं विरचितं तत्रादावेवेद मुपदेशसूत्रमभाणि-''न चिरंजॅण संवसे मुणी, संवासेण सिणेहु वडई। भिक्खुस्स अणिचचारिणो, आयटे कम्मा दुहायई / / 1 / / " इति गतमुपरिदोषा इति द्वारम्। अथ द्वितीयपदं भावयतिबहुदोसे वतिरित्तं, जइलब्मइ वेज ओसहाणि जहिं। चउभागतिभागत्ते, जयंतणिजे अलंभे वा / / 1216 / / ग्लाननिमित्तमतिरिक्तमपि कालं वसेत् / अथोद्गमादिभिर्दोषैर्बहुदोष तत्क्षेत्रंतत उत्पाट्यग्लानं बहिर्गन्तव्यम्, यदि वैद्यौषधानितत्र लभ्यन्ते। अथ ग्लानो बहिर्गन्तुं नेच्छति, वैद्यौषधानि वा बहिर्न लभ्यन्ते ततोऽनिच्छति अलाभे वा तत्रैव ग्रामे चतुर्भागीकृते त्रिभागीकृतेऽर्कीकृते वा वसतौ भिक्षायां च यतन्ते / इह च यद्यत्युत्सर्गतस्तं ग्राममष्टौ भागान् कृत्वा जायन्ते तथा चात्र संस्तरन्ति, ततः सप्त भागान् एवं यावदेकं भागमपि कृत्वा यतन्ते इति पुरस्ताद्वक्ष्यते / तथापि चतुर्भागत्रिभागार्द्धग्रहणं तुलादण्डमध्यग्रहणन्यायेनाष्टभागादीनामपि ग्रहणार्थम्। प्रकारान्तरेण द्वितीयपदमाह-- ओमाऽसिवदुहेसुं, चउभागान करिति अच्छंता। पोरुसिमाई वुड्डी, करिति तवसो असंथरणे // 1217 / / अवमाऽशिवयराजद्विष्टेषु बहिः संजातेषु तत्रैवातिरिक्तमपि कालं तिष्ठन्ति यावद्भहिः सुभिक्षादीनि न जायन्ते / तच क्षेत्रं यदि लघुतरं ततस्तत्र तिष्ठन्तोऽसंस्तरणे सति चतुर्भागादिरचनां न कुर्वन्ति, किंतुतत्र पौरुष्यादितपसो वृद्धिं कुर्वन्ति / तद्यथा-ये पौरुषीप्रत्याख्यानिनस्ते पूर्वार्द्ध प्रत्याचक्षते, ये पूर्वार्द्धप्रत्याख्यातारस्ते एकाशनं प्रत्याख्यान्तीत्यादि। अथ एनामेव स्पष्टयतिमासे मासे वसही, तणडगलादी य अन्ने गिण्हंति। भिक्खायरियवियारा, जहिट्ठिया तत्थ नऽन्नासु॥१२१८|| मासे मासे वसतिरन्या, तृणडगलादीनि च पूर्वपरिभुक्तानि परित्यज्याऽन्यानि गृह्णाति, यस्मिश्च भागेमासकल्पं स्थितास्तत्रैव भागे तस्मिन्मासे भिक्षाचर्या विचारभूमिं च गच्छन्ति, नान्यासुभिक्षाविचारभूमिषु / अथ भागकरणस्यैव विधिमाहअट्ठाइजाव इकं, करिति भागं असंथरे गाम। अट्ठा इच्चिय वसही, जयंतिजामूलवसही उ॥१२१६॥ कदाचिदष्टौ ऋतुबद्धमासान्ग्लानकार्येण स्थातव्यं भवेत्, अतो ग्राममष्टौ भागान् कुर्वन्ति ततः प्रथमेऽष्टभागे वसतितृणडगलादीनि च गृह्णन्ति,मास च यावत्प्रथम एवाष्टभागे भिक्षाचयाँ विचारभूमिगमनं च कुर्वन्ति / ततो यदि मध्ये मासे सम्पूर्णे ग्लानः प्रगुणीभूतस्तदैव निर्गन्तव्यम् / अथ न प्रगुणीभूतस्ततः पूणे मासे द्वितीयेऽष्टभागे तिष्ठन्ति, तत्राप्येष एव विधिमन्तव्यः। एवं तृतीयमष्टभागभादौ कृत्वा अष्टभागं यावत् द्रष्टव्यम्। अथाष्टभिर्भागैर्विभक्ते ग्रामं न संस्तरति ततः सप्त भागान् कृत्वा यथैव यतन्ते। एवमप्यसंस्तरणे षट्भागानादौ कृत्वा यावदेकमपि भागं कुर्वन्ति