________________ वसहि १००७-अभिधानराजेन्द्रः - भाग 6 वसहि केचन युवते-अग्निः समुच्छलितः, स्तेना वा द्विविधाः समापतिताः, तदा ते वक्तव्याः-नवैधूमो दृश्यते, 'न वि बोलो' त्ति नापि जनस्य प्रपलायमानस्य बोलस्तस्मान्न द्रवति जनो दग्धः कैत-वेष्विति। स्वज्ञातिद्वारे यतनामाहअण्णकुलगोत्तकहणं, पत्तेसु विभीयपरिसों पेल्लेइ / पुव्वं अभीइपरिसे, भणाति लज्जाएँ न भणामि।।५५८|| जा ताव ठवेमि वए, पत्ते कुड्डादिछेयसंगारो। मासिं हीरे उवहिं, अच्छह जासिं निवेएमि॥१८६|| यदि केचन स्वज्ञातय आगता वर्तन्ते, न च ते तं प्रत्यभिजानते तदा अन्यकुलगोत्रकथनं कर्तव्यम्, अन्यत् कुलमन्यच्च गोत्रमात्मनः कथयति, अथ ते सम्यग्ज्ञातारः समागतास्तत्र यदि ते भीतपर्षदस्तदा तान् प्रेरयति-ईदृशास्तादृशा यूयं बन्धयामि युष्मान् राजकुलेनेति। अथैवमुक्तास्तेन विभ्यति तर्हि तान् अभीतपर्षदोवक्ति ममाप्येतत् अभिप्रेतमुन्निष्क्रमणं परं लज्जया न भणामि युष्मान, यथाऽहमुन्निष्क्रमामीति, न वाशक्नोमि लज्जया युष्माकं समीपमागन्तुम्, तद्भव्यं कृतयद्यूयमागताः किंतु तिष्ठत क्षणमात्रं यावदागच्छन्ति साधवः। ततस्तेषां समीपे व्रतानि निक्षिपामि,मा वा तेषां भट्टारकाणामुपकरणं शून्ये उपाश्रये केनापि ह्रियते / यावच तेषां निवेदयामि यथाऽहं गमिष्यामीति; तावत्तिष्ठत / एवं केनोपा-येन तावत्तिष्ठन्ति यावत् साधवः प्राप्ता भवन्ति, ततः उपाश्रयकुज्यस्य छिद्रंपातयित्वा नश्यति,सङ्केतंच करोति-अमुकस्थाने मां गवेषयत आगत्य वा मम मिलितव्यमिति।। खंधारादी णाउं, इयरेऽवि तर्हि दुयं सममिएंति। अप्पाहेइ व तेसिं, अमुगं कजं दुयं एध / / 560 // इतरेऽपि भिक्षार्थमटन्तः साधवः स्कन्धावारमग्निमाभवस्तेनपतनं वा / ज्ञात्वा द्रुतम्-सत्वरं समभियान्ति-समागच्छन्ति, स वा वसतिपालो भिक्षार्थ गतानां सदृशं कथयति, यथा-अमुकं कार्यमापतितमिति हरत मा गच्छत। गतं रक्षणद्वारम्। इदानीं ग्रहणकल्पिकमाहदुविहकरणोवघाया, संसत्तापच्चवायसिज्जविही। जो जाणति परिहरिलं, सो गहणे कप्पितो होति / / 591|| क्सतेर्द्विविधं करणम्-मूलकरणमुत्तरकरणं च / तेन द्विविधन करणेनोपघातो यस्याः सा द्विविधकरणोपघाता; मूलकरणोपहता, उत्तरकरणोपहता चेत्यर्थः / तथा पृथिव्युदकतेजोहरितत्रसप्राणसागारिकसंयुक्ता- संसक्ता ब्रह्मव्रतादिविराधनाकारिणी प्रत्यवाया, तथा विधिविधानं भेदः प्रकार इत्यनर्थान्तरम्,शय्याया विधिर्वक्ष्यमाणेन च शय्याया भेदः एतैर्मूलकरणादिदोषैर्यः सम्यक् परिहत्तुं जानाति स शय्याग्रहणे कल्पिको भवति / बृ०१ उ०१ प्रक०। नि० चू०। (परचक्रवेष्टितग्रामे वसतिद्वारम् उवरोह' शब्दे द्वितीय-भागे 108 पृष्ठे गतम्।) का कियन्तं कालं वसेदित्याह-ऋतुबद्ध एकं मासम् से गामंसिवानगरंसि वाखेडंसिवा कव्वडंसिवा मडंबंसिवा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा रायहाणिंसि वा आसमंसि वा संनिवेसंसिवा संवाहंसि वाघोसंसि वा अंसियंसि वा पुडभेयणंसि वा सपरिक्खेवंसि वा अबाहिरियंसिवा कप्पइ निग्गंथाणं हेमंतगिम्हासु एगं मासं वत्थए।।६ एवमग्रेतनमपि सूत्रत्रयमुच्चारणीयं तच्च यथास्थान-मेवोच्चारयिष्यते। अथास्य सूत्रचतुष्टयस्य कः संबन्ध इत्याहवुत्तो खलु आहारो, इयाणि वसहीविहिं तु वन्नेइ। सो व कत्थुवभुजइ, आहारो एस संबंधो // 28 // उक्तः खल्वनन्तरसूत्रे आहारः, इदानीं त्वस्मिन् सूत्रे वसतेर्विधिं भगवान् भद्रबाहुस्वामी वर्णयति / यथा स आहारो गृहीतः सन् क ग्रामादौ उपभुज्यते इति निरूपणार्थमिदमारभ्यते, एष द्वितीयप्रकारेण संबन्धः। भूयोऽपि संबन्धमाहतेसु सपरिग्गहेसुं,खेत्तेसुं साहुविरहिएK वा। किचिरकालं कप्पड़, वसिउं अहवा विकप्पो उ॥२८२|| तेषु-क्षेत्रेषु सपरिग्रहेषु-साधुपरिगृहीतेषु साधुविरहितेषुवा कियन्तंकालं निर्ग्रन्थानां वा निर्गन्थीनां वा वस्तुं कल्पते इत्यस्मिन् सूत्रे चिन्त्यते। अयं सम्बन्धस्याऽपरो विकल्प इत्यमीभिः संबन्धै-रायातस्यास्य(६) व्याख्या-अत्र च-संहितादिक्रमेण प्रतिसूत्रं व्याख्याने महद्ग्रन्थगौरवमिति कृत्वा पदार्थादिमात्रमेवाभिधास्यते ! संहितादिर्वस्तु पूर्ववत् वक्तव्य इति। 'से' शब्दो मागधदेशीयप्रसिद्धः; अथशब्दार्थे , 'अथ' शब्दश्च प्रक्रियादिष्वर्थेषु वर्तते, यत उक्तम्-अथ प्रक्रियाप्रश्रानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्विति इहोपन्यासार्थे द्रष्टव्यः। ततश्च यथा साधूनामेकत्र क्षेत्रे वस्तुंकल्पते; तथा उपन्यस्यते इत्यर्थः / ग्रामे वा नगरे वा खेटे वा खवटे वा मडम्बे वा पत्तने वा आकरे वा द्रोणमुखे वा निगमे वा राजधान्यां वा आश्रमे वा संनिवेशे वा संवाधे वा घोषे वा अंशिकायां वा पुटभेदेन वा सपरिक्षेपेवृत्त्यादिरूपपरिक्षेपयुक्ते अबाहिरिके-बहिवा बाहिरिका 'अध्यात्मादिभ्यः इकणि' ति इकण् प्रत्ययः, प्राकारबहिवर्तिनी गृहपद्धतिरित्यर्थः / न विद्यते बाहिरिका यत्र तदबाहिरिकं तस्मिन्, कल्पते निर्ग्रन्थानां हेमन्तग्रीष्मेषु ऋतुबद्धकालसंबन्धिषु अष्टसु मासेष्वित्यर्थः,एकं मास वस्तुमनवस्थातुम् / वाशब्दाः सर्वेऽपि विकल्पार्थाः स्वगतानेकभेदसूचका वा द्रष्टव्याः। इति सूत्रसमासार्थः / वृ०१३०२ प्रक०। (त्रिंशदहोरात्रमानमेकमृतुमासं कल्पते वस्तुमिति 'मासकप्प' शब्देऽस्मिन्नेव भागे 267 पृष्ठे गतम्।) (अयं हि ऋतुबद्धविहारोमासकल्प इत्युच्यते, सच जिनकल्पिकानां जिणकप्पिय' शब्दे चतुर्थभागे 1463 पृष्ठे गतम्।) (गच्छवासिनां स्थविरकल्पिकानां वसतिद्वारम् 'जिण-कप्प' शब्दे चतुर्थभागे 1474 पृष्ठे गतम्।) मासस्योपरिन वस्तव्यम्। अथोपरि दोषा अपवादश्चेति द्वारद्वयमाहमासस्सुवरि वसति, प्पायच्छित्तं च हों ति दोसाय।