________________ वसहि १००६-अभिधानराजेन्द्रः - भाग 6 वसहि तेकथमपहरणं कर्तुकामा ज्ञातव्याः? उच्यते-अपूर्वान् दृष्ट्वा ये स्वाभाविकास्ते प्रतिदिवसमागच्छन्तः परिचिताः, ये त्वपूर्वास्ते हर्तुकामा विज्ञेयाः। ये वा अतिथौ-विशिष्टतिथ्यभावे बलिकरणाय समागतास्तेऽपि हतुकामा द्रष्टव्यास्तेऽपि यदि ब्रूयुर्निर्गच्छत, वयं बलिं करिष्यामस्तदा गाथा वक्तव्या। "न विलोणं लोणिजइ, न वि तुप्पिज्जइघयं च तेल्लं च / किह नाम लोडगं भे, धम्मम्मि ठविजए वट्टो॥१॥ अन्नं भंडेहि चणं, चणकुट्टा जत्थ ते वहइचंचू। भंगुरचणवुग्गहिते, मे खदिरा वइरसारा य॥२॥" ततो जानते अयं प्रत्यभिज्ञाता इति। अथवा वक्तव्यंयेषामेत-दुपकरणं ते भैक्षस्यानयनाय गताः वयं त्वन्यभाण्डकमन्येषामुप-करणं नस्पृशामः ततो यदि न तिष्ठन्ति तदा भूयो भणति-शृणुत अस्माभिर्वारिता यूयं न तिष्ठथ ततो यदव नश्यतितत् युष्माकमुपरि, एवमुक्ते ते तिष्ठन्ति। कारणे सपाहुडियाए, वासा वि करिति एगमायोग। सन्नाविय दिहावा, भणाइ जा सारवेमुवहिं / / 580 // कारणे सप्राभृतिकायां वसतौ स्थिता वर्षास्वपि समस्तस्यापि भाण्डकस्यैकमायोगं कुर्वन्ति, ततो न किञ्चित्पलायते। तत्र ये कैतवेन बलिकारकाः समागच्छन्ति तेषु यतनाविधिरुक्तः। सम्प्रति स्वाभाविकेष्वाह-'सन्नाविये' त्यादि, ये शय्यातरेणान्येन वा बलिकाराः संज्ञापिता दृष्टा वा स्वयमन्यदा बलिं कुर्वाणास्तान् प्रति भणति-वसतिपालास्तावत् प्रतीक्षध्वं यावदुपछि सारयामिएव-मुक्ते प्रतीक्षन्ते।। अपवरए कोणे वा, काऊण भणाति मा हुलेवाडे / बहुपेलणसारविए, तहेवजं नासती तुज्झं // 581|| ततो वसतिपालो यदि कश्चिदस्त्यपवरकस्तत्र तदुपकरणं प्रक्षिपति। अथ नास्त्यपवरकस्ततः एकस्मिन् कोणे सर्वमुपकरणं स्थिरीकरोति, भणति च। शनैलिविधानं कुरुतमा उपकरणं कूरसिक्थैः खरण्टयथा अथ ते बहवोऽगाराः उन्मत्तकाः सहसैव प्रविष्टा नैव सार्यमाणमुपछि प्रतीक्षन्ते ततस्तथैव वक्तव्यं यथोक्तं प्राक्, यथा-यदत्र नश्यति तद् युष्माकमुपरीति। धर्मकथाद्वारयतनामाहनऽत्थि कहालद्धी मे, पुष्वं दिट्ठो व वेति गेलण्णं / दाणादि असंकाण व, आउज्जंतो परिकहेइ॥५८२२॥ यदि ते कैतवेन स्वभावेन वा समागत्य धर्मकथामापृच्छन्ति, तदा वक्तव्यम्-नास्ति मे कथालब्धिः। अथधर्म कथयन् स पूर्व दृष्टः, ततो वदति लानत्वं शिरो मे दुःखयति, गलको वेति। अथ ते धर्मकथाप्रष्टारो दानश्रद्धाः, आदिशब्दादभिगमश्च सम्यक्त्वादयश्च, सम्यग ज्ञातारो वर्तन्ते; ततस्तेषां दानादिश्रावकाणामशङ्कानां-शङ्काया अविषयाणां द्वारमूले स्थित्वा आयोजयन् भाण्डकविषयमुपयोगंददानः परिकथयति, मा कथाप्रमत्ते मयि कोऽपि हरेदिति हेतोः। सम्प्रति क्रीडाद्वारयतनामाह दलृ पिणेनें लभामो, मा किडह मा हरिजिहं को वि। . संमजणा वरिसणे, पाहुडिया चेव बलिसरिसा // 583|| यदि केचित्तत्र कैतवेन स्वभावेन वाऽऽगत्य क्रीडन्ति तदा तान् प्रति वक्तव्यम्-वयमाचार्यादिपार्श्वतोद्रष्टुमपि क्रीडतो नलभामहे, तस्मादत्र मा क्रीडत एव। तच्चैवमुच्यते मा कश्चिद्धरेदिति कृत्वा प्रमार्जने आवर्षणे प्राभृतिकायां च यथा बलिद्वारे तथा यतना कर्तव्या। खमणं निमंति ते उ, खंधारे कइयवे इमं भणति। किण्णे निरागसाणं, गुत्तिकरा काहिई राया ||15|| भिक्षां यदि कोऽपि निमन्त्रयति तदा वक्तव्यम्-ममाद्य क्षपणमिति / कैतवे च स्कन्धावारे इदं भणति- किं नः--अस्माकं निरागसाम्निरपराधानां गुप्तिकरो-रक्षाकरो राजा करिष्यति। यत्र तु स्वाभाविकः स्कन्धावारः समागच्छति। तत्रेयं भावनापमुऽणुप्पभुं निवेयण, देंति व पेल्लंति जाव नाणेमि / तह विय अठायमाणे, पासे जं वा तरति नेउं / / 5 / / प्रभुः नाम-राजा अनुप्रभुः-सेनाधिपतिप्रभृतिकस्तं गत्या धर्म लाभयति, विविक्तमस्माकमुपाश्रयं कुरुत / ततः स मनुष्यान् ददाति प्रेरयति समस्तानपि लोकानुपाश्रयप्रविष्टानिति / अथ स्कन्धावारो न व्रजति, किंतु-तथैव स्थितवान्, तत्र यदि कोऽपि वसति स्थाननिमित्तं प्रेरयेद्, अत्रापि प्रभोरनुप्रभोर्वा निवेदनं कर्त्तव्यं येन स वारयति / अथ प्रभुरनुप्रभुर्वा न वारयति अस्त्राधीना वा तेपुरुषास्ततो ब्रूतेयावदुपकरणं नयामि तावत्प्रतीक्षस्व / ततः कल्पं विस्तार्य सर्वमुपकरणं तत्र प्रक्षिप्योपरि बध्वा निष्काशयति / अथ प्रभूतमुपकरणं न शक्नोति सर्वमेकवारं नेतुं तदा त्रिषु चतुर्पु वा कल्पेषु बवा कोल्लुकपरंपरकेण महाराष्ट्रप्रसिद्धकोल्लुकचक्रपरं-परन्यायेन निष्काशयति / अथ ते हरन्त्युपकरणं ततो यत्पाचे सारं भाण्डमक्षादि, यद्वा-नेतुं शक्नोति तन्नयति। सम्प्रति स्वाभाविकोऽग्नौ यतनामाहकोल्लुपरंपरसंकलि, आगासं नेइ वायपडिलोमं / अच्छुल्लूढा जलणे, अक्खाई सारभंडं तु // 186|| चलने प्रवर्द्धमाने सर्वमुपकरणमेकवारमशक्नुवन् कल्पेषु चतुषु पञ्चसु वा बध्नाति, बवा च कोल्लुकचक्रन्यायेन परंपरया 'संकलि' त्ति तान् पोट्टलकान्दवरकेण संकलय्य यत्र न तृणादिसंभवस्तत आकाशं तदपि वा प्रतिलोमं तत्र नयति / अथ ज्वलनेनातिप्रसरता ते अच्छुल्लूढाः स्वस्थानं त्याजितास्ततो यत्सारं भाण्डमक्षादि तनिष्काशयति / मालवस्तेनेषु यतनामाहअसरीरतेण भंगे, पवलाए जणे उजं तरति नेउं। न वि धूमो न वि बोलो, न दवति जणो कइयवेसं // 587 // अशरीरस्ते नभने ये शरीरं नापहरन्ति तैः स्तेनैर्भङ्गे प्रपलायमाने जने यन्नेतुं शक्नोति तन्नयति, यदि पुनः कैतवेन