________________ वसहि 1005 - अभिधानराजेन्द्रः - भाग 6 वसहि तत्र प्रथमं बलिद्वारमधिकृत्य दोषानाहसाभावियतन्नीसा-ऐं आगया भंडगं अवहरंति। नीणेमि त्ति व बाहिं, जा पविसइत्ता हरंतऽन्ने // 566 / / साधवः कदाचनापि कारणवशतः सप्राभृतिकायां शय्यायां स्थिताः। सप्राभृतिका नाम-सार्वजनिका यत्रागत्य बलिः प्रक्षिप्यते। तत्र ये बलिकारकास्ते द्विधा तत्र समागच्छेयुः। तद्यथा-स्वभावेन वा उपकरणं वा हरिष्यामीति कैतवेन वा। तत्र ये बलिकारकाः स्वाभाविका नोपकरणहरणप्रवृत्तास्ते तन्निश्रया-बलि-निश्रया आगताः सन्तो बलिं कुर्वन्तो बालमेकाकिनं दृष्ट्वा संजातहरणबुद्धयो भाण्डकमपहरन्ति / अथवाबलिना प्रक्षिप्यमाणेनोपकरणं लेपयुक्तं क्रियते,ततः स बालो वक्ति बहिर्नयाम्युपकरणम्, येन न लेपयुक्तं क्रियते / ततः स बालो यावरहर्निर्गतः प्रविशतितावदन्तरेऽपहरन्त्युपकरणमन्ये। स्वभावत इतिगतम्। कैतवमधिकृत्याऽऽहएमेव कइयवा ते, निच्छूट तं हरंति से उवहिं। बाहिं च तुमं अच्छसु, अवणेहुवहिं व जा कुणिमो // 167|| एवमेव-अनेनैव प्रकारेण कैतवात्ते समागता उपधिमपहरेयुः। तथाहिकेचन धूर्ताः उपधिं हतुकामाः कैतवात्समागत्य छुल्लकं ब्रुवते- क्षुल्लक! एष बलिः समागच्छति, ततस्त्वं बहिर्निर्गच्छ, एवं तं बनिनिष्काश्य तस्योपधिमपहरन्ति / अथ ते चैवं वदन्ति वयं बलिं करिष्यामः ततो यावद्वयं बलिं कुर्मस्तावत् त्वं बहिस्तिष्ठ, अन्यथा कूरेण खरण्टयिष्यते, एवं तं निष्काश्य तस्योपधिमपहरन्ति / यदि वा-ते एवं ब्रूयुः यावद्वयं बलिं कुर्मः तावदभ्यन्तरादात्मीयमुपधिमुपनय, सच बालस्तत्कार्यमजानन् एकवारं च सर्वमुपकरणं नेतुमशक्नुवन् स्तोकं गृहीत्वा निर्गत्य बहिः स्थापयित्वा यावदभ्यन्तरे प्रविशति तावत्तदुपकरणमभ्यन्तरस्थित धूर्तरपहियते। तदेवं बलिद्वारं गतम्। अधुना धर्मकथाद्वारमाहकितएण सभावेण व, कहापमत्ते हरंति से अने। किड्डातिसयं रिंखा, पासातिव तहेव किडुदुर्ग // 568|| केचन पुरुषाः धर्म शृणुम इति कैतवेन वा स्वभावेन वा सभागच्छेयुः, तत्र स्वभावतः आगतानां बालकमेकाकिनं दृष्ट्वा हरणबुद्धिरुपजायते,इतरे तु प्रथमत एव हरणबुद्ध्यैव समागताः। ते क्षुल्लकं ब्रुवतेकथय धर्मकथामस्माकमिति। ततः स कथां कथयितुं प्रवृत्तः, प्रबन्धेन च कथयति। कथाप्रमत्ते केचिदग्रत उपविष्टाः शृण्वन्त्यन्ये तस्योपकरणमपहरन्ति / गतं धर्मकथाद्वारम् / क्रीडा-द्वारमाह-'किड्डा' इत्यादि क्रीडायामपि द्विकं वक्तव्यम्। किमुक्तं भवति-क्रीडानिमित्तमपि केचन स्वभावत आगच्छेयुः कैतवेन वा। स्वभावतोऽप्यागतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुल्लसति / तत्र स स्वयं बाल क्रीडति गोलादिना / अथ कदाचित्स क्षुल्लको ब्रूयात्-नवर्ततेऽस्माकं क्रीडा। ततस्ते वदन्ति यद्येवं तर्हि रिखाः कुरु, कः कियतो वारान रिवति,एवं स बालो रिखाः करोति। अथब्रूते-नकल्पन्ते संयतानां रिला अपि कर्तुमिति। ततस्ते वदन्ति-यद्येवमस्मान् क्रीडतः पश्य। ततः सकौतुकेन कीडतः पश्यति। एवं स्वयं क्रीडया रिखाभिर्वा पश्यन् वा क्रीडाप्रमत्त उपजायले।सतस्तथैवान्ये तेन सह क्रीडन्त्यन्ये हरन्त्युपकरणमिति। संप्रति मार्जनद्वारमावर्षणद्वारं च युगपदाहजो चेव बलिए गमो, पमजणा वरिसणे विसो चेव। य एवं बलिद्वारे गमः स एव प्रमाजने आवर्षणे च द्रष्टव्यः। किमुक्तं भवति-प्रमार्जननिमित्तमावर्षणनिमित्तं वा केचित् स्वभावेनापरे कैतवेन समागच्छन्ति, समागत्य चबलिद्वारोक्तेन प्रकारेणोपकरणमपहरन्तीति। इदानीं प्राभृतिकाद्वारमाहपाहुडियं वा गेण्हस,परिसाडणियं च जा कुणिमो // 56 // प्राभृतिका-भिक्षाऽपि भण्यते, अर्चनिकाऽपि। तत्र उभयमप्यधिकृत्य दोषानाह-कैतवेन स्वभावेन वा केचन ब्रूयुः, क्षुल्लक ! भिक्षां गृहाण / अथवा-द्वारे निर्गच्छ, यावद्वयं परिसाटनिकामचनिकां कुर्मः, एवमुक्तः सयावत् भिक्षामाददाति बहिर्वा निर्गच्छति तावत्तस्योपकरणं हरन्तीति / गतं प्राभृतिकाद्वारम्। ___ अधुना स्कन्धावारद्वारमग्निद्वारं चाह--- खंधारभया नासति, एस व एति त्ति कइयवेणेस। अगणिभया व पलायति, नस्ससु अगणी व एसेति॥५७०।। कोऽपि स्वभावतः स्कन्धावारभयानश्यति, ब्रूते च-एषसराजकः स्कन्धावारः समागच्छति / स च तथा स्वभावतो नश्यन् बालमेकाकिनं दृष्ट्वाऽपहरेत्, कैतवेन ब्रूते-एष क्षुल्लकः! स्कन्धावारः समायाति, तस्माल्लघु पलायस्व / ततः स बालो नश्यति, इतरे उपधिमुपहरन्ति / अग्निभयादपि कोऽपि स्वभावतः पलायते, स च पलायमानो वक्ति वह्निरा गच्छति नश्यतामिति / केचित्पुनः कैतवेन ब्रूयुः-मन्दभाग्याः नश्यत नश्यताग्निः समागच्छति। ततः किमित्याहउवहीलोभभया वा, अगणिभया वाण किंचि नीणेइ। गुत्तो व सयं डज्झइ, उवहिं च विणा उजा हाणी // 571 / / उपधिलोभाद्-उपधिर्मध्ये तिष्ठति, तं मुक्त्वा कथमहं यामि मा कश्चिदपहरेदित्युपधेर्लोभतोऽग्निभयाद्वा स बालो बहिर्न निर्गच्छति, नच तत्र बहिः किञ्चिन्निष्काशयति, ततः कथमप्यग्निसमागमने स मध्ये गुप्तः सन् स्वयं दह्यते कैतवेनाग्न्यागमं कथयित्वा बालं विप्रलम्भ्योपधिपमहरन्ति / उपधिं च विना या हानिस्तां साधवः प्राप्नुवन्ति / गतं स्कन्धावारद्वारमग्निद्वारं च। सम्प्रति मालवद्वारं स्तेनद्वारं चाहमालवतेणा पडिया, इयरे वा नासती जणेण समं। नय गेण्हइ सारूवहि, तप्पडिबद्धो व हीरेला // 572 / / मालवा एव स्तेनाः, मालवग्रहणेन द्वारगाथायां सूचिताः, इतरे-अन्ये स्तेनाः स्तेनग्रहणेन ! के चित्तु कै तवेन स्वभा