________________ वसहि १००३-अभिधानराजेन्द्रः - भाग 6 वसहि सागॉरियसंजयाणं, निच्छूढा तेण अगणिमाईहिं। जं काहिंति पदुट्ठा, उभयस्स वि ते तमावजे // 560 // शून्या वसतिं दृष्ट्वा वटुकाश्च सागारिकमवभाषन्ते याचन्ते अस्माकमुपाश्रयं प्रयच्छत। शय्यातरो ब्रूते-तत्र श्रमणास्तिष्ठन्ति। वटुकैरुक्तम्गतास्ते। शय्यातरःप्राह-तर्हि तिष्ठत यूयं यदि गताः श्रमणाः। ते स्थिताः, आगताः साधवः / प्रवेष्टुं प्रवृत्ता वसतौ. वटुकैर्निवारिताः, मात्र प्रविशथ, वयमग्रे तिष्ठामः। ततोऽसंखडं कलहः परस्परमुपजायते। वटुका बुवते वसतिरस्माकं स्वामिना दत्ता, किमत्र युष्माकम्, इतरेऽपि वदन्ति-- स्वामिनैवास्माकमपि वसतिरदायि / ततःसाधवः शय्यातरसकाश गच्छन्ति। स ब्रूते-यूयमनापृच्छ्य शून्यं कृत्वा गताः, मया ज्ञातंगता यूयं येन शून्या कृता दृश्यते वसतिः, अतो मया द्विजानां वटुकानां दत्ता वसति-रिति। तस्मात् संवृत्येन परस्परं संचिन्त्य यूयं वटुकाश्चैकत्र स्थाने तिष्ठत नाहमात्मानमलीकं करोमि। तत्र यदि संवृत्येन तिष्ठन्ति तत्र पठतां प्रतिलेखनां च कुर्वतां संयतभाषाभिश्च उड्डुञ्चकान्-देशीपदमेतत् उपहासान कुर्युस्ततोऽधिकरणमसंखडम्। अथवा शय्यातरो भद्रकस्ततस्तान वटुकान् निष्काशयेत्, तथा च सत्यधिकरणं संयतप्रयोगेण वयं निष्कासितास्तस्मात् ज्ञातव्यं संयतानाम् / अथवा-निच्छूढानिष्काशिताः सन्त उभयेषामपि सागारिकस्य संयतानां चोपरि प्रद्वेष गच्छेयुः,ततस्ते एवं निक्षिप्ता-निष्काशिताः सन्तः प्रद्विष्टास्तेन प्रयोगतोऽग्न्यादिप्रक्षेपश्चोभयस्यापि सागारिकस्य संयतानां च यदनर्थजातं करिष्यन्ति तदपि-तन्निष्पन्नमपि प्रायश्चित्तं ते--संयताः शून्यवसतिकारिण आपद्यन्ते। गतं वटुकद्वारम्। इदानीं चारणद्वार-भाटद्वारं चाहएमेव चारणभडे, चारणउडुचगा उ अहिगतरा। निच्छूढाच पदोसं, तेणाऽगणिमाइ जह वडुया // 561|| एवमेव-वटुकगतेनैव प्रकारेण चारणे, भाटेच दोषा वक्तत्र्याः, किमुक्तं भवति-ये वटुकेषु दोषा उक्तास्ते चारणे भाटे च प्रत्येकमवसातव्याः। नवरं चारणा वटुकेभ्योऽधिकतराः, यतस्ते उड्डुञ्चका याचकाः / इयमत्र भावना-ते चारणाःप्रपञ्चबहुलास्ततः संयतान् प्रपञ्च्य तेभ्यो याचन्ते, ततस्तैः सहै कनिवासेऽधिकतरा दोषा तथा चारणा भाटाश्च निष्काशिताः प्रद्वेषमापन्नास्तेनाग्न्यादिभिरुभयेषामप्यनर्थ कुर्युः, यथा वटुका इति। इदानी तिर्यग्मरणद्वारं मनुष्यमरणद्वारमादेशद्वारं-- चाऽऽहछडुणिका उड्डाहो, घाणारिस सुत्तअत्थवोच्छेदे। इति उभयमरणदोसा, आएस जहा वडुगमाई / / 562 / / शून्यां वसतिं दृष्ट्वा गवादिस्तिर्यङ् अनाथमनुष्यो वा प्रविश्या-नियेत, तंयदिगृहस्थैरसंयतैः परिष्ठापयन्तितदाछदने-परिष्ठापनेषण्णांकायानां पृथिव्यादीनां विराधना / अथात्मना परिष्ठा-पयन्ति तदा प्रवचनस्योड्डाहः उचिता एतेऽस्य कर्मण इति। अथवा–कोऽप्येवं शङ्केत यथा / एतैरेवायं मारितः। अथवा-जुगुप्सा भवेत् अशुवयोऽमी यतो मृतमाकर्षयन्ति / अथैतदोषभयान्न ते स्वयं परिष्ठापयन्ति नाप्यन्यैस्त्याजयन्ति, तर्हि मृतकगन्धेन संयतानां नासाांसि जायेरन्।तथा अस्वाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुर्वन्ति मासलघु / अर्थपौरुषीं न कुर्वन्ति मासगुरु। सूत्रपौरुषीमर्थपौरुषीमकुर्वतां यदि सूत्रं नश्यति तदा चतुर्लधु, अर्थो नश्यति चतुर्गुरु।अवर्णश्च लोकेषूपजायते-ग्राममध्येऽपि वसन्तः श्मशाने तिष्ठनि / इतिः-उपप्रदर्शने / एवमुभयस्य तिरश्चो मनुष्यस्य वामरणदोषागतं तिर्यग्मनुष्यमरणम्, अधुना आदेशद्वारमाह'आदेस जहा वडुगमादीय' आदेशाः प्राघूर्णकास्ते केचनशय्या-तरस्य समागताः, शून्या च वसतिं दृष्ट्वा शय्यातरेण तत्र मुक्ताः , ततो वटुकचारणभटेषु ये दोषास्ते अत्रापि योजनीयाः / गतमादेशद्वारम् / अधुना व्यालद्वारं निकेतनद्वारं चाहअहिगरणमारणाणी, णियम्मि अच्छंतें बालियातवहो। तिरितीय जहा बाले, सूतिमणुस्सीऍ उड्डाहो // 563 / / व्यालो नाम-सर्पः शून्यं दृष्ट्वा वसतौ प्रविशेत् / तप्तः आगताः सन्तः श्रमणा यदि तं निष्काशयन्ति तदाऽधिकरणं हरितकायादीनां मध्येन तस्य गमनात् / अथवा-स निष्काश्यमानः प्रद्वेषगमनतो दशेत, ततो मरणम्। अथवा-निष्काशने जनसंमी-लनतः ससर्पो लोकेन मार्येत। अथैतद्दोषभीता नतं सर्प निष्काशयन्ति ततस्तस्मिन् व्याले तिष्ठति आत्मविराधना तेन भक्षणात्, एतेच व्यालेदोषाः। अथ निकेतने तानाह 'तिरतीय' इत्यादि, यदि तिर्यकत्री प्रसूता निष्काश्यते ततः सा यथा व्यालस्तथैव नियमत इतस्ततो गच्छन्ती हरितकायादीन् व्यापादयेत्। बालकानां च तत्संबन्धिनां तां विना, तया वाऽऽनीयमानानां मरणसंभवः / अथैतद्दोषभयात्सा न निष्काश्यते, तदा सा तिष्ठन्तीयदा तदा वा साधूनामनर्थ कुर्यात्, तत आत्मविराधना / अथ प्रसूता मानुषी निष्काश्यते, तथा एतेषामियमिति प्रवचनोड्डाहः। साऽपि च निष्काश्यमाना कायान् विराधयेत् / लोको वा ब्रूयात्-निरनुकम्पा एते, यद् बालसहितामिमां निष्काशयन्ति / सा च निष्काश्यमाना प्रद्वेषतः साधूनांमालं (कलस्) दद्यात्, चेटरूपं वा मारयेत्। छडे व जइ गया, उज्झमणुज्झंति हाँति दोसा उ। एवं ता सुन्नाए, बाले ठविते इमे दोसा / / 56|| अथवा-सा तत्र प्रसूता सतीतंचेटरूपं त्यक्त्वा गच्छेत्, ततस्तं यदि उज्झन्ति--परित्यजन्ति तदा निरनुकम्पतादोषः। अथ नोज्झन्ति तदा उड्डाहः / एवमेते तावत्शून्यायां वसतौ दोषाः। बाले स्थाप्यमाने पुनरिमेबलिधम्मकहा किड्डा,पमज्जणा वरिसणा य पाहुडिया। खंधार अगणिभने, मालवतेणा य नाती य॥१६५।। बलिद्वारं धर्मकथाद्वारं क्रीडाद्वारं प्रमार्जनाद्वारम् आवर्षणाद्वारं प्राभृतिकाद्वारं स्कन्धावारे यद् द्वारमग्निद्वारं मङ्गद्वारं मालवस्तेनद्वारं ज्ञातिद्वारञ्च एतैदरिबोल रक्षके स्थाप्यमाने दोषा वक्तव्याः /