________________ वसहि 1002 - अभिधानराजेन्द्रः - भाग 6 वसहि अह नेवाऽऽणे ताहे, वसहीएऽऽलोगहिंड था॥६३|| यदि संघाटः-साधुयुग्मंत्रयाणामपिआत्मद्विकस्यगुरोश्चेत्यर्थः, पर्याप्तपरिपूर्णमानयति ततो गुरुर्भिक्षार्थन नीति' त्ति निर्गच्छति। अथ नैव त्रयाणां पर्याप्तमानयत्यलाभादशक्तेर्वा तदा वसतेरालोको यथा भवत्येवमाचार्यस्य प्रत्यासन्नेषु गृहेषु हिण्डनम्। किंयत्पुनस्तत्र गृह्णातीति चेदत आहआसण्णेसु गेण्हइ, जत्तियमेत्तेण होइ पज्जत्तं / जावइएण य ऊणं, इयराणीयं तु तं गेण्हे // 64|| तस्मिन्नेव वाटके प्रत्यासन्नेषु गृहेषु गृह्णाति। तावन्मानं यावन्मात्रेण पर्याप्त भुञ्जते, किं त्वल्पम् / तथा च सर्वेषां परिपूर्णं भवति / अथ तावन्न लभ्यते तर्हि यावता ऊनं तत् इतराभ्यामानीतं गृह्णाति। ते नच त्रयोऽपि परिपूर्णं भुञ्जते, किं त्वल्पम्। तथा चाहसवे अप्पाहारा, भवंति गेल्लण्णमादिदोसभया। एवं जयंति तहियं, वासावासे वंसताउ॥६॥ म्लानादिदोषभयात्सर्वेऽपि तेऽल्पाहारा भवन्ति, एवं तत्र वर्षावासेवर्षायोग्ये क्षेत्रे वसन्तो यतन्ते। व्य०४ उ०। सम्प्रति शय्याकल्पिकमाहदुविहा हवंति सेज्जा, दव्वे भावे यदव्वखातादी। साहूहिँ परिग्गहिया, सच्चेव य भावओ सेना // 552 / द्विविधा भवति शय्या-द्रव्यतो भावतच, तत्र द्रव्य तः खातादयः, खातमुच्छ्रितं च। एताः द्रव्यशय्याः साधुभिः परिगृहीताः भावतः शय्या भवन्ति। रक्खणगहणे तु तहा,सेज्जाकप्पो उ होइ दुविहो उ। सुन्ने बालगिलाणे, अव्वत्तारोवणा भणिया।।५५३|| शय्यायां कल्पाः; शय्याकल्पिक इत्यर्थः। स द्विविधस्तस्याभावशय्यायाः रक्षणे, ग्रहणे वा। तत्र रक्षणो प्रोच्यते-वसतिर्नियमतस्तावत् रक्षयितव्या। यदि पुनर्मिक्षादिप्रयोजनतो गच्छन्तःशून्यायां वसतौ बालं ग्लानमव्यक्तं वा वसतिपालं स्थापयन्ति तदा आरोपणाप्रायश्चित्तम्। भणितमेवोपदर्शयतिपढमम्मि य चतुलहुयं, सेसेसुं मासियं मुणेयव्वं / दोहिं गुरु इकेणं, चउत्थपऐं दोहि वी लहुयं // 15 // प्रथममिह गाथाक्रमप्रामण्यात् शून्यमुच्यते। यदिशून्यां वसतिं कुर्वन्ति तदाऽऽरोपणाचत्वारो लघुकाः द्वाभ्यां गुरवः। तद्यथा-तपोगुरुकाः, कालगुरुकाश्च / अथ बालं स्थापयन्ति तदा मासलधु। ग्लानं स्थापयन्ति मासलधु, तपोलघुकालगुरु। चतुर्थपदे-अव्यक्तस्थापनलक्षणे मासलघुद्धाभ्यामपिलधुकम्। तद्यथा-तपसा,कालेन च ( उक्ताऽऽरोपणा / साम्प्रतमेतेष्वेव दोषा वक्तव्यास्तत्र प्रथमंतावत् शून्ये दोषानाह मिच्छत्तवडुगचारण, भाडगमरणं तिरिक्खमणुयाणं। आदेस वालनिके-यणे य सुन्ने भवे दोसा॥५५५|| शून्यायां कदाचित् शय्यातरस्य मिथ्यात्वगमनं वुटुकप्रवेशो भाटप्रवेशस्तिरश्वां मनुष्याणां वा तत्र मरणम् आदेशाः प्राघूर्णकास्तत्प्रवेशो व्यालप्रवेशः / एते शून्ये उपाश्रये कृते दोषो भवन्ति / तथा निकेतने प्रभूतायास्तिरश्चया वा निष्काशने दोषाः। तत्र प्रथमं मिथ्यात्वद्वारमाहसोया पत्तिमपत्तिय, अकयं नु अदक्खिणा दुविह छेदो। भरियभरागमनिच्छुभ, गरिहान लभंति वन्नत्था / / 556 / / भेदो य मासकप्पे, जह लंमें विहादि पाव तेयन्नं / बहितुत्थ निसागमणे,गरिहविणासाइ सविवेसा॥५५७।। ते साधवो भिक्षादिनिमित्तं सर्वमात्मीयं भाण्डमादाय शून्यां च वसतिं कृत्वा गताः, शय्यातरश्चागतो दृष्टा तेन शून्या-वसतिः। पृष्ट कस्यापि पार्वे व गताः साधवः? गृहमानुषैरुक्तम्-दृश्यते शून्या वसतिः, तस्मादवश्यमन्यत्र गताः। इदं तेषां वचः श्रुत्वा यदि प्रीति-कमुपजायते, यथा हि-गता नामति, तदारोपणाचत्वारो लघुकाः। अथ तस्याप्रीतिकमुत्पद्यते तदा अकृतज्ञा एते एवमप्युपचारं न जानन्ति यथा आपृच्छ्य गन्तव्यम्, अथवा-अदाक्षिण्याः निस्नेहास्ततो नापृच्छ्य गता इति तदा चतुर्गुरुकम् / तथा द्विविधश्छेदः / तथाहि-स प्रद्विष्टस्तेषामन्येषां वा साधूनां तद्रव्यस्य-वसतिलक्षणस्य अन्यद्रव्याणां वा-भक्तपानादीनां व्यवच्छेदं कुर्यात् 'भरियभरागमनिच्छुभ' त्ति ततः स कषायितः शय्यातरः, यदा ते साधवो भरितभाजनभरेणावनमन्त आगच्छन्तितदा स्थानं न दद्यात्। तत्रयदि दिवा निष्काशयति तदा चत्वारोलघवः, तथा तैभरितैर्भाजनैः सहान्यां वसतिं याचमाना आगाढादिपरितापनामाप्नुवन्ति, तेषां प्रायश्चित्तं चतुर्लघु, तथा-जनमध्ये गर्हामाप्नुवन्ति-किं यूयमकाण्डे एवं निष्काशितास्ततो न भव्या एते इत्यन्यत्रापि ते वसतिन लभन्ते। अन्यत्र च वसतिमलभमाना ग्रामादौ व्रजन्ति, ततो मासकल्पभेदः / तत्र च विहारक्रमे या विराधना तन्निष्पन्नाऽपि तेषामारोपणा। तथाऽन्ये साधवो विहारादिनिर्गतास्तत्र समागतास्तत्र चान्या वसतिर्न विद्यते, सचशय्यातरस्तेषां दोषेणान्येषामपि न ददाति, ततो विहारगता वसतेरलाभे यत्ते श्वापदस्तेनादिभ्योऽनर्थमाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चित्तम्। एवं तावत् कृतभिक्षाटनमात्राणामुक्ता दोषाः / अथ बहिरेव भुक्त्वा रात्रावागतावसतिनलभन्तेतदाऽऽरोपणाचतुर्गुरु, सविशेषतराश्च गर्हादयो दोषा विनाशश्च श्वापदादिभ्यः। अथवा-शय्यातरः प्रथमं सम्यग्दृष्टिभूतः पश्चादनापृच्छया गता इति भावविपरिणामतो मिथ्यात्वं यायात्। गतं मिथ्यात्वद्वारम्। अधुना वटुकद्वारमाहसुन्नं दखें वडुगा, ओंभासिते ठाउ जइ गया समणा। आगमपवेस संखड-सागारिदिनं तिरियदियाणं // 55 // संमिचेण व अच्छह, अलियं न करेमऽहं तु अप्पाणं / उबुचणाऽहिगरणं, उभयपदोसंच निच्छूटा।।५५६।।