________________ वसहि 1001 - अभिधानराजेन्द्रः - भाग 6 . वसहि ऽपि तरुणीनां महतीनां च प्रार्थनीयः, तस्मिन्पश्चात्स्थाप्यमाने स्वलिङ्गगृहलिङ्गसेवनविषया आत्मसमुत्थाः परसमुत्था उभयसमुत्थाश्च मैथुनदोषाःसंभवन्ति। एतदेवाहतरुणे वसहीपाले, कप्पट्टिसलिंगमादिआउभया। दोसा उपसजंती, अकप्पिए दोसिमे अण्णे // 60 // तरुणे वसतिपाले सति कप्पट्टि त्ति तरुण्या बालिकाया इव स्वलिङ्गादिकाः-स्वलिङ्गासेवनगृहिलिङ्गासेवनरूपाः 'आउभया' इति आत्मसमुत्था उभयसमुत्था उपलक्षणमेतत् परसमुत्थाश्चदोषास्तस्य प्रसन्जन्ति। अकल्पिके च बालादाविमे दोषास्तानेवाहबलिधम्मकहा किडा, पमञ्जणा वरिसणाय पाहुडिया। खंधार अगणिभंगे, मालवतेणा य णातीय // 61|| साधवः कदाचित्कारणवसतः सप्राभृतिकायांवसतौ स्थिता भवेयुः,तत्र यदि बालादिः वसतिपालः क्रियते तदा बलिदोषः। तथाहि-तत्र बलिकारकाः स्वभावेन वा गच्छेयुःकैतवेन वा। तत्रापि ये कैतवेन ते प्रथमत एवोपकरणहरणनिमित्तमागच्छन्ति, किं त्वागतानां बलिं कुर्वतां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुपजायते ततोऽपहरन्ति / अथवा-बाले विक्षिप्यमाणे उपकरणं कूरेण खरण्ट्यते, ततो बालो जल्पति–बहिरुपकरणं निष्काशयामि, एव-मुक्त्वा सकलमप्युपकरणमादाय बहिर्निर्गतस्तदेतदभ्यन्तरे ते उपधिमपहरन्ति / ये तु कौतुकेन समागच्छन्ति ते उपधिमपहर्तुकामा ब्रुवते-क्षुल्लक ! बलिरेष समागच्छति ततस्त्वं बहिनिर्गच्छ, एवं तं बालं बहिर्निष्काश्योपधिमपहरन्ति / अथवा-ब्रूयुरिदं वयं बलिं करिष्यामस्ततस्त्वं बहिस्तिष्ठ अन्यथा-कूरेण खरण्टना भविष्यति / एवमुक्ते बहिर्निर्गत बाले उपधिमपहरन्ति / अथवेदमाचक्षते-उपधिमभ्यन्तरागहिरपनय, यावदलिं विदध्महे, स च बालस्तत्कार्यमजानानः समस्तमुपकरणमेकवारं ग्रहीतुमशक्नुवन् स्तोकं गृहीत्वा बहिः संस्थाप्य यावदन्यस्य ग्रहणाय मध्ये प्रविशति तावत्तेधूर्ता अपहरन्ति / 'धम्मकह' त्ति धर्मकथाश्रवणाय केचित् स्वभावतः आगच्छेयुः, अपरे कैतवेन।समागत्य चेत्ब्रुवते-कथय क्षुल्लक ! अस्माकं धर्मकथाम्, स च तत्त्वमजानानः कथामारभते। ततः कथाप्रमत्ते केचित् तथैवोपविष्टाः शृण्वन्त्यपरे तूपधिमपहरन्ति / 'किड्ड' ति। क्रीडानिमित्तमपि केचित्स्वभावतः समागच्छन्त्यपरे कैतवेन। तेषु च समागतेषुस बालकः स्वयं वा क्रीडति, तान्वा क्रीडतः पश्यति,ततःक्रीडया व्याक्षिप्तस्य सतोऽपहरन्ति / पमज्जणावरिसणा य' त्तियएव बलाबुक्तो गमः स एव प्रमार्जने वर्षणे च वेदितव्यः / 'पाहुडिया' इति प्राभृतिका इति भिक्षा अर्चनिका च। तत्र केचित् कैतवेन स्वभावेन वा वदन्ति-क्षुल्लक ! गृहाण भिक्षाम्, अथवा-बहिर्निहियावद्वयमर्चनिका कुर्मः, ततो यावद्भिक्षार्थ याति, बहिर्वा निर्गच्छति,तावदपहरन्ति / 'खंधार' त्ति / अपरे कैतवेन स्वभावेन वा वदेयुः, यथा एष राज्ञा सह स्कन्धावारः समागच्छति। तत्र | स्वभावेन ततो नश्यति, सनश्यन् बालस्तैरपव्हियते। कैतवेन सभागच्छन्तो बुवते-क्षुल्लक ! पलाय-स्व स्कन्धावारः समागच्छति, ततः स नश्यति इतरेऽपहरन्ति। अगणि' त्ति प्रदीपनकं लग्रम्, परतः स्वभावेन श्रुत्वा स्वयं वाऽवलोक्य स बालक उपधिलोभादा न स्वयं वसतेबहिनिगच्छति, नापि किंचिदुपकरणं निष्काशयति, ततस्तस्य बालकस्योपकरणस्य च विनाशः। यदि वा-उपकरणनिष्काशनाय मध्ये प्रविष्टो गुप्तः सन् बालको दह्यते। कैतवेन केचित् ब्रूयुर्मन्दभाग्य! नश्य प्रदीपनकं लग्नं वर्तते, एवमुक्ते स उपकरणं बहिनिष्काशयितुमारभते,ततोऽपहरन्ति। "भङ्गे मालवतेण' त्ति। मालवाम्लेच्छविशेषाः शरीरापहारिणः स्तेनाःउपकरणहारिणस्तैर्भङ्गे, स बालको भयतो जनेन सार्द्ध नश्यति न च सारमुपधिं गृह्णाति। यदि वा--उपधिप्रतिबद्धः सन् सवसतावेव तिष्ठेत्ततः स मालवैरपन्हियते, स्तेनैर्वा उपकरणमिति / अथवा केचित् कैतवेन ब्रूयुर्मालवाः स्तेना वा क्षुल्लक ! समापतितास्तस्मात्पलायस्व जनेन सार्द्धमिति, एवमुक्ते स बालकस्तत्त्वमजानानो नश्यति, इतरे उपकरणमपहरन्ति / 'नाति' त्ति ज्ञातयः स्वजनास्ते समागतास्तरेकाकी दृष्टस्ततो नीयते, अन्ये चोपधिमपहरन्ति / अथवा अन्येन केनचिदागच्छन्तो दृष्टास्तेन कथितम्-क्षुल्लक! तव ज्ञातयः समागच्छन्ति, ततः स पलायते इतरश्वोपकरणमपहरति / अथवा-कोऽपि धूर्तः कैतवेन ब्रूयात्-क्षुल्लक ! व ते निजकाः? क्षुल्लकः प्राह-अमुके ग्रामे नगरे वा। सोऽन्यस्मै कथयति, ततस्तेषां सजातीयानां नाम चिहान्यवगम्य तस्य क्षुल्लकस्य समीपमागत्य भणति-अमुकस्य त्वं निजकः, क्षुल्लकः प्राहकथं त्वं जानासि ? ततः स तन्माता-पित्रादीनां वर्णादि कथयति। ततः क्षुल्लकस्य प्रत्यय उपजायते।ततो वक्ति-सत्यमहं तेषां निजकः। तंतस्तं धूर्तो ब्रूते-आगता-स्तव निमित्तम्, मया अमुकप्रदेशे दृष्टा इति / ततः स पलायते इतरे हरन्त्युपकरणम्। एवं यथा बाले अकल्पिके दोषास्तथा अव्यक्ते निद्राप्रमत्ते कथाप्रमत्ते वा कल्पिके वेदितव्याः। तम्हा पालेइ गुरू, पुव्वं काउं सरीरचिंतं तु। इहरा आयुवहीणं,विराहणा धरतमधरते // 6 // ये तरुणे बालकादौ वा कल्पिके वसतिपाले स्थितेऽनन्तरोक्ता दोषा आचार्ये ते न भवन्ति, तस्मात् गुरुराचार्यो वसतिपालं कथयति, कथमिति चेदत आह--पूर्वं शरीरचिन्तां कृत्वा; संज्ञाभूमिं गत्वा इत्यर्थः / अथ शरीरचिन्तां न करोति ततः प्रायश्चित्तं मासलघु। 'इहरा' इत्यादि। इतरथा-शरीरचिन्ताया अकरणे यदि संज्ञांधारयतितत आत्मविराधना मरणं ग्लानत्वं चावश्यं तन्निरोधाद् भवति। अथ न याति किं तु मात्रके व्युत्सृजति ततः श्राद्धादी-नामागतानां गन्धागमन उड्डाहः / अथ बहिर्याति तत्रोपधि-विराधनातस्करापहाररूपा।ये चैकाकिनो दोषास्ते च भवति / एष संस्तरणे विधिरुक्तः / असंस्तरणे पुनराचार्या वसतिं प्रलोकमानस्तस्मिन्नेव वाटके प्रत्यासन्नेषु गृहेषु भिक्षार्थ हिण्डते। तथा चाहजइ संघाडो तिण्ह वि, पद्धत्तंऽऽणेइ तो गुरू न नीति।