________________ वसहि १०००-अभिधानराजेन्द्रः - भाग 6 वसहि प्रतिज्ञातमेव निर्वाहयतितुवट्टनयणडहणे, लहुगा गुरुगा हवंतऽणायारे। अह उवहण्णति उवहे, त्ति घेत्तूणं हिण्ड मासलहुं // 3 // उल्ले लहुग गिलाणा-दिगा य सुण्णे ठवेंति चउलहुगा। अणरक्खितोवहम्मति, वहिते पावेंति जं जत्थ // 3 // महान् पुरुषः शून्यमुपाश्रयं दृष्ट्वा तत्र त्वरवर्तनं करोति।यदिवा-उपकरणं नमति, दहति वा। तदा त्वग्वर्तने नयने दहने वा प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः / अथानाचारं करोति तत्रापि चत्वारो गुरुकाः। अथवा-उपकरणेति व्याख्यानार्थमाह- 'अहेत्यादि' अथ उपहन्यते उपधिरिति मत्वा तं सह नीत्वा भिक्षार्थं हिण्डते तदा प्रायश्चित्तं मासलधु / अथ कथमपि सह नीतं वर्षेणार्द्राक्रियते तदा चत्वारो लघुकाः। अथ तस्मिन्नुपाश्रये शूनये सति ग्लानादिकान् आदिशब्दात्-प्राघूर्णकपरिग्रहः, गृहस्थाः स्थापयन्ति तदाऽपि चत्वारो लघुकाः। अथोपधिं सह ननयति तदाऽसौ अरक्षितः सन् उपहन्यते, तस्करैर्वाऽपहियते। तदपहारे च जधन्यमध्यमोत्कृष्टा-पहारनिमित्तं प्रायश्चित्तम् / हृते च तस्मिन्नुपकरणे यत् अनेषणादिक यत्रोपकरणविषये तौ सेवाते तन्निमित्तमपि प्रायश्चित्तं तौ प्राप्नुतः। संम्प्रति 'गेलण्णे सल्लमरणे य' इतिद्वारद्वयमाह-- गेलण्णमरणसल्ला, बितिउद्देसम्मि वणिया पुटिव। ते चेव निरवसेसा,नवरं इह इंतु वितियपयं // 36 // ग्लान्यम् 'मरणसल्ल' त्ति सशल्यमरणमेते द्वे अपि पूर्व-द्वितीयोद्देशके प्रथमसूत्रे ये दोषतया सविस्तरं वर्णिते ते एव निरवशेषे अत्रापि वक्तव्ये, नवरंतत्र द्वितीयपदमपवादपदं नोक्तमिहतु'इकारः पादपूरणे, तदुच्यते। तदेवाहअसिवादिकारणेहिं,अहवा फिडिया उखेत्तसंकमणे। तत्तियमेत्ता य भवे, दोण्हं वासासु जयण इमा॥३७॥ अशिवादिभिः कारणैः द्वावपि वर्षासु विहरतः / अथवा-एकस्मात् क्षेत्रादन्यस्मिन् क्षेत्रे संक्रमणे कथमपि मार्गतः स्फिटितौ-परिभ्रष्टावेकत्र वर्षासु विहरतः / उपलक्षणमेतत्तेनैतदपि द्रष्टव्यम्-अशिवादिकारणतो गणे स्फोटं कृत्वैकाकिनोजाताः, संकेतवशाच क्वचिद्वर्षासुद्वौ मिलिताविति 'तत्तियमेत्ता उ भवे' इति शेषाः प्रतिभग्ना मृता वा, अवशिष्टौ तावन्मात्रावेवदावेव भवतस्तिष्ठतः, एवं द्वौ वर्षासु भवतः। ततस्तयोश्च द्वयोर्वर्षासु इयं वक्ष्यमाणा यतना। तामेवाह-- एगो रक्खतिवसहिं, भिक्खवियारादि बितियओ जाति।। संथरमाणेऽसंथर,निहोत्थुवरि ठविंतुबहिं // 3 // एको वसतिं रक्षति, द्वितीयो भिक्षाविचारादौ-भिक्षायां विचारेबर्हिभूमावादिशब्दादन्यस्मिन्वा प्रयाति। एवं यतना तदा भवति यदा तौ संस्तरतः / 'असंथरे' त्ति अथैकाकिनो भिक्षाया अलाभादन्यतो वा कुतश्चित्कारणात् न संस्तरतस्तदा असंस्तरे द्वावपि सह हिण्डेते। तत्रेयं यतना-यदि वसतौ निःस्थ्य-निर्भयं तदा उपधिमुपरि वसतेः स्थापयतोबध्नीतः, यथा न कोऽपि पश्यतीति, एवंभूतां च यतनां कुर्वन्तौन प्रायश्चित्तविषयौ। अथन कुरुतस्तदा यत् आपद्यते प्रायश्चित्तं तत् प्राप्नुत इति। सुत्तेणं वुद्धारो, कारणियं तं तु होति सुत्तं ति। कप्पो त्ति अणुण्णातो, वासाणं के रिसे खेत्ते // 36 // यत एवं दोषास्ततो द्वयोर्विहारो वर्षासु साक्षात् पञ्चमेन सूत्रेण प्रतिषिद्धस्त्रयाणां तु विहारस्योद्धारः, अनुज्ञातः सूत्रेण व षष्ठेन कृतः, सोऽप्युत्सर्गतो न कल्पते,ततस्तत्सूत्रं कारणिकमशिवादिकारण-निष्पन्नं भवतीति वेदितव्यम् / अथ कीदृशे क्षेत्रे, वर्षासु गाथायां षष्ठी सप्तम्यर्थे प्राकृतत्वात्। त्रयाणां विहारः कल्पतः इत्यनेन पदेनाऽनुज्ञातः / सूरिराहमहती वियारभूमी, विहारभूमी य सुलभवित्तीय। सुलमा वसही य जहिं, जहण्णयं वासखेत्तं तु // 40 // यत्र महती विचारभूमिः-पुरीषोत्सर्गभूमिर्यत्र च महती विहारभूमिः-- भिक्षानिमित्तं भ्रमणभूमिर्यत्र च वृत्तिर्भिक्षावृत्तिः सुलभा, वसतिश्च यत्र सुलभा तत् जघन्यं वर्षायोग्य क्षेत्रम् उत्कृष्टं त्रयोदशगुणोपेतम्।व्य०४ उ०॥ अधुना पञ्चकं व्याख्यानयतिसंगहुवग्गहनिजर-सुयपनवजायमध्ववच्छित्ती। पणगमिणं पुटवुत्तं,जे वायहि तावलंभादी।।५८|| यत् पञ्चकं पूर्वमुक्तं तदिदम् / तद्यथा-संग्रह उपग्रहः निर्जरा श्रुतपर्यवजातमव्यवच्छित्तिश्च तत्र संग्रहः शिष्यादेः तथा च श्रुते शिष्यादयः संगृह्यन्ते,उपग्रहः- उपष्टम्भः स च श्रुतज्ञानादिप्रदानतः, निर्जराज्ञानावरणादिकर्मविनिर्जरणम्, श्रुतपर्यवजातं-प्रभूता प्रभूततरा श्रुतज्ञानपर्यायवृद्धिरव्यवच्छित्तिस्तीर्थस्य, ये चात्महितोपलम्भादय आत्महितोपलम्भः परहितोपलम्भ उभयहितोपलम्भश्च एकाग्यं बहुमानं चति तद्वा पञ्चकं प्रतिपत्तव्यम्। एवं ठियाण पालो, आयरितो सेसें मासियं लहुयं / कप्पहिनीलकेसी, आयसमुत्था परे उभये / / 5 एवं त्रयोदशदोषविमुक्ते त्रयोदशभिर्गुणैरुपेते क्षेत्रे कारणवशतस्त्रयाणां वर्षासु स्थितानां द्वयोभिक्षार्थं विनिर्गमे तृतीयः पश्चात्पालोवसतिपालः आचार्यः स्थापनीयः। अथान्यं स्थापयति तत आह-शेषे तु आचार्यव्यतिरिक्त वसतिपाले स्थाप्यमाने प्रायश्चित्तं मासिकं लधु। तथा यदि तरुणं श्रमणं च वसतिपालं पश्चात्स्थापयति तत इमे स्वलिङ्गासेवनादिका दोषाः, तथा आत्मसमुत्थाः, (परे) परसमुत्थाः, उभयस्मिन्-उभयसमुत्थाः। कस्या इवेत्याह- 'कप्पट्टनीलकेसी' ति कल्पस्थिता बालिका नीलकेशी-कृष्णकेशी तरुणीत्यर्थः / ततो विशेषणसमासः तस्या इव, विभक्तिलोपश्च प्राकृतत्वात्। इयमत्र भावनायथा तरुणी बालिका तरूणानां महतां च प्रार्थनीया भवति। एवं तरुणो--