________________ वसहि 888 - अभिधानराजेन्द्रः - भाग 6 वसहि विराधना,उपलक्षणमेतत्, आत्मविराधना चेत्यर्थः / तथाहि-यदि श्वादयो बालमृतकलेवरादि भक्षयन्तस्तिष्ठन्ति तदा महती प्रवचनस्य कुत्सेति प्रवचनविराधना / शूकरप्रभृतयश्च निष्काश्यमानाः कदाचित् संमुखा अपि बलेरन्तत आत्मविराधना श्वाऽऽदयश्च तिष्ठन्तो मारिमूषिकादिकमुपहन्युरिति संयमविराधना / तदेवं 'गोणे साणे' त्यादि व्याख्यातम्। अधुना परिकम्म' त्ति व्याख्यानयतिदुक्खं ठिएसु वसही, परिकम्मं कीरइ त्ति इति नाउं। मिक्खादिनिग्गएसुं, सअट्ठ मीसुं विमं कुजा // 26 // ते गृहस्थाः परिभावयन्ति-स्थितेषु साधुषु दुःखं महता कष्टन वसतेः परिकर्म क्रियते स्वाध्यायभङ्गादिदोषभावात्, गतेषु तुन कश्चिद्दोष इति ज्ञात्वापरिभाव्य भिक्षादिनिमित्तं निर्गतेषु साधुषु सवृत्तिस्वार्थं स्ववसतिबलिष्ठताकरणार्थ मिश्र वा संयता अपि सुखेन स्वाध्यायादिकं च कुर्युरिति स्वार्थ संयमनिमित्तं च इदं वक्ष्यमाणं परिकर्म कुर्युः। तदेवाहउच्छेव विलच्छगणे, भूमीकम्मे समजणाऽऽमच्चे। कुड्डाण लिंपणं दू-मणंच एयं तु परिकम्मं // 27 // उच्छेवो नाम-यत्र पतितुमारब्धं तत्रान्यस्येष्टकादेः संस्थापनं विलस्थगनं कोलादिकृतविलेष्विष्टकोपलादिप्रक्षिप्योपरि गोमयमृत्तिकादिना पिधानम्, भूमिकर्म नाम विषमाणि भूमिस्थानानि भक्त्वा सन्मार्जन्या सन्मार्जनम्, आमर्जनंमृद्गोमयादिना लिम्पनम्, तथाकुड्यानां लेपनं कुड्यानामेव च 'दूमणं तिधवलनम् एतत्परिकर्म कुर्युः। अत्रैव प्रायश्चित्तविधिमाहजइ ढकतो छेवा, तइमास विलेसु गुरुग सुद्धसुं। पंचिंदिय उद्दाते, एगदुगतिगे उ मूलादी॥२८|| 'यति' यावन्त उच्छेवा ढक्विताः-समारचिताः 'तति' तावन्तो लघुमासाः प्रायश्चित्तम्। विलेषु शुद्धेषु पञ्चेन्द्रियजीवरहितेषु स्थगितेषु 'गुरुग' तिचत्वारो गुरुमासाः। अथ पञ्चेन्द्रियव्याघातो विलस्थगने अभूत् तत एकद्वित्रिषु व्याहतेषु यथाक्रम मूलादि,एकस्मिन् पश्चेन्द्रियेऽपद्राविते मूलम्, द्वयोरनयस्थाप्यम, त्रिषु-त्रिप्र-भृतिषु पाराञ्चिकमिति ! भूमीकम्मादीसुं, फासुग देसे उ होइ मासलहुं / सव्वम्मि लहुग सफा सुगेण देसम्मि सवे य // 26 भूमिकादिषु-भूमिकर्मसन्मार्जनमार्जनकुङ्यलेपनधवलनेषु देशतः प्राशुकेषु कृतेषु प्रत्येक प्रायश्चित्तं भवति मासलघु / सर्वस्मिन् उपाश्रये प्राशुकेषुकृतेषु प्रत्येकचत्वारोलघुकाः। अप्राशुकेनापि जलादिना देशतः सर्वतो वा भूमिकादिषु कृतेषु प्रत्येकं चत्वारो लघुकाः / ___सम्प्रति शय्यातरमधिकृत्य प्रायश्चित्तविधिमाह-- सोचा गय त्ति लहुगा, अप्पत्तिय गुरुग जं च वोच्छेदो। वडुचारणभडमरणे, पाहुणनिक्कयणा सुण्णे // 30 // शय्यातरो यदि शून्यां वसतिमालोक्य कस्यापि पार्श्वे पृष्ट्वा श्रुत्वा च तद्वच एतजानाति यथा गताः साधव इति न चाप्रीतिरुत्पन्नातदा प्रायश्चित्तं चत्वारोलघुकाः। अथाप्रीतिकं करोति यथा अदाक्षिण्या एते अनापृच्छया गता इति तर्हि 'गुरुग' ति चत्वारो गुरुका मासाः / अथैकानेकभेदेन तद्रव्यान्यद्रव्यव्यवच्छेदस्तदा तन्निमित्तमपि चतुर्गुरुकं प्रायश्चित्तम्। अधुना 'मिच्छत्तवडुगमादीनि' व्याख्यानयति-'वटुचारणे' त्यादि वुटुकाः-द्विजातयः चारणाः-वैतालिकविशेषाः-भटाः-प्रतीताः, ते गताः क्वापि साधव इति विज्ञाय तस्मिन् शून्ये उपाश्रये आवसेयुः, तत्र कलहादिप्रसङ्गः। तथा शून्यां वसतिमालोक्य कश्चित्तिर्यड् मनुष्यो वा समागत्य म्रियेत तत्रच राजग्रहादिदोषसंभवः। तथा केचित् शय्यातरस्य प्राघूर्णकाः शून्येयं वसतिरिति कृत्वाशय्यातरानुज्ञया तत्र तिष्ठेयुनचते निष्काशयितुं शक्यन्ते, निष्काशिते निष्काशनेवा प्रद्वेषादिप्रवृत्तिः, तथा तिरश्ची मानुषी वा प्रसवितुकामा शून्यां वसतिं दृष्ट्वा तत्रागत्य प्रसुवीत, तस्या निष्काशने-आश्रयत्याजने संयमविराधनादयो दोषाः। यथोक्ताः प्राक् एते शून्ये क्रियमाणे दोषाः। सम्प्रति 'अच्छंते सति लिङ्गमादीणि' इति व्याख्यानयतिअह चिट्ठति तत्थेगो, एगो हिंडइ उभयहा दोसा। सल्लिंगसेवणादी, आतुत्थपरे उभयतो य॥३१|| अथ तत्रैकस्तिष्ठति एको हिण्डते तत उभयथा-उभयेन प्रकारेण यस्तिष्ठति गवादयश्च हिण्डन्तेतद्गताश्चेत्यर्थः, स्वलिङ्गसेवनादयो दोषाः / स्वलिङ्गसेवना-संयतीप्रतिसेवना आदिशब्दात्-परलिङ्ग सेवना गृहिलिङ्गसेवना चपरिगृह्यते। कथंभूता इत्याह-आत्मनोत्थाः आत्मनैव संयत्यादिकं कदाचित्प्रार्थयते इत्यर्थः / तथा परे परतः संयत्यादिकृतक्षोभनात्, उभयतःस्वतः परतश्चसमुत्थाः / यदुक्तं प्राक् 'सोचा गयत्ति लहुगा' इत्यादि गाथापूर्वार्द्ध तद्व्याख्यानार्थमाहसुण्णे सागरि दलु, संथारे पुच्छ कत्थ समणाओ। सोउं गय त्ति लहुगा, अप्पत्तियछेदें चउगुरुगा॥३२॥ संस्तरन्ति साधवोऽस्मिन्निति संस्तारः-उपाश्रयः सागारिकः-शय्यातरः,सप्तमी प्राकृतत्वात् द्वितीयार्थे , ततोऽयमर्थः-शून्यं संस्तारमुपाश्रयं सागारिको दृष्ट्वा पृच्छेत्-कुत्र गताः श्रमणा इति, तत्र प्रतिवचः श्रुत्वा गता इति ज्ञाते अप्रीत्यकरणे प्रायश्चित्तं चत्वारो लधुकाः। अप्रीतिके समुत्पन्ने छेदेतद्रव्यान्यद्रव्यव्यवच्छेदे चत्वारो गुरुकाः। तदेवं विराधना वसत्यादेरिति व्याख्यातम्। संप्रति 'संथारगउवगरणे' इति व्याख्यानयतिकप्पट्ठगसंथारे, खेलण लहुगो तुवट्टि गुरुगो उ। नयणे डहणे चउलहु, एते उ महल्लए वुच्छं // 33|| संस्तारे-उपाश्रये यदि 'कप्पट्ठग' त्ति बालकः खेलति-क्रीडति ततः खेलने प्रायश्चित्तं लघुको मासः। अथ त्वग्वर्तनं कुर्यातर्हि त्वग्वर्तनकृतो गुरुको मासः। अथ स बालकस्तत्र स्थितस्तेन नीयते प्रदीपपकेन वा लग्नेन दाते, तदा चतुर्लघु / अत ऊर्ध्व महति त्वग्वर्तनादि कुर्वति प्रायश्चित्तं वक्ष्ये।