________________ वसहि ९९८-अभिधानराजेन्द्रः - भाग 6 वसहि णिकसूत्रम्, यद्यन्यत्रोपाश्रयो न प्राप्यते ततोऽन्तर्मुखे रथ्यामुखे गृहे स्थातव्यम्। अत्रसूत्रनिपातः-सूत्रमवतरतितस्याऽभावे आपणगृहादिषु शेषेष्वपि तिष्ठद्भिस्तथैव-तेनैव विधिनायतनया स्थातव्यम्। बृ० 130 ३प्रका (21) वर्षासुयादृशे उपाश्रये वसेत्तदाहसे भिक्खू वा भिक्खुणी वा से जं पुण जाणेजा गाम वा०जाव रायहाणिं वा इमंसि खलु गामंसि वाजाव रायहाणिंसि वा णो महती विहारभूमी णो महती वियारभूमी णो सुलभे पीढफलगसेज्जासंथारए णो सुलभे फासुए उंछे अहेसणिजे जत्थ बहवे समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति य अचाइण्णा वित्तीणो पण्णस्स णिक्खमणपवेसाएजाव धम्माडणुओगचिंत्ताए सेवं णचा तहप्पगारं गामं वा णगरं वा०जाव रायहाणिं वाणो वासावासं उवल्लिएजा! से भिक्खू वा भिक्खुणी वा से जं पुण जाणेजा गामवाजावरायहाणिं वा० इमंसिखलु गामंसि वा०जाव महती विहारभूमी महती वियारभूमीसुलभे जत्थ पीठे० . सुलभे फासुए उंछे अहेसणिज्जे णो जत्थ बहवे समणजाव उवागया उवागमिस्संतिवाअप्पाइण्णा वित्ती०जाव रायहाणिं वाततो संजयामेववासावासं उबलिएज्जा / (सू०-११२) स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात्, तद्यथा-अस्मिन् ग्रामे यावदाजधान्यां वा न विद्यते महती विहारभूमिः- स्वाध्याय-भूमिः, तथा विचारभूमिः-बहिर्गमनभूमिः, तथा नैवात्र सुलभानि पीठफलकशय्यासंस्तारकादीनि, तथा न सुलभः प्रासुकः पिण्डपातः 'उछे' त्ति एषणीयः। एतदेव दर्शयति। अहेसणिज्जे' त्तियथाऽसावुद्रमादिदोषरहित एषणीयो भवति तथाभूतो दुर्लभ इति / यत्र च ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागताः अपरे चोपागमिष्यन्ति, एवं च तत्राऽत्याकीर्णा वृत्तिः, वर्त्तनं-वृत्तिः, सा च भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसकुलत्वादाकीर्णा भवति, ततश्चन प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावचिन्तनादिकाः क्रिया निरुपद्रवाः सम्भवन्ति। स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति। एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति। आचा०२ श्रु०१चू०३ अ०१उ०) वर्षावासे वसतिरशून्या कर्तव्या। सम्प्रति वर्षा कालविषयाणि प्रपञ्चयतिनियमा होइ असुण्णा, वसही नयणे य वणिया दोसा। दुस्संचरबहुपाणे,वासावासे विउच्छेदो // 21 // वर्षावासे-वर्षाकाले नियमावसतिरशून्या कर्त्तव्या, किं कारणमिति चेत्,उच्यते-वर्षासूपकरणं सह नीयते। अथ भिक्षादिगच्छन्नयति तर्हि वर्षप्रपातेन तिम्यते। तथा चाह-"उपकरणस्यसह नयने पूर्व कल्पाध्ययने तेमनादयो दोषा वर्णिताः" / अन्यच्च शून्यायां वसतौ कृताया गवादिभिर्भजनं भटादिभिर्वा रोधनं भवेत्। तथा च सत्यन्यस्यां वसतौ गन्तव्यम्, तस्या अलाभेऽन्यद् ग्रामान्तरं गमनीयम्, यत्र च दुस्संचरा मार्गाः सलिलहरितादिभिरात्मविराधना संयमविराधना भवेत् / तथा बहुप्राणा मार्गा द्वित्रिचतुः पञ्चेन्द्रियाणामनेकजातीयान / पूच्छनात, तथा शय्यातरेण शून्यां वसतिमालोक्याऽदाक्षिण्या एते काऽप्यनापृछ्य गता इति प्रद्वेषतस्तेषां सर्वेषां वा तद्रव्यस्यान्यद्रव्यस्य वा व्युच्छेदः क्रियेत / इमे दोषास्तस्मात् शून्या वसतिः कदापि न कर्तव्येति, जघन्यतोऽप्याचार्यस्योपाध्यायस्य चात्मतृतीयस्य वर्षाकाले विहारः, अन्यथा प्रायश्चित्तम्। तथा चाहवासाण दोण्ह लहुया, आणादिविराहणावसहिमादी। संथारग उवगरणे, गेलने सल्लमरणे य / / 2 / / यदि पुनः जनौ वर्षाकाले वसतस्तदा चयश्चित्तं चत्वारो लघुका आज्ञादयश्च दोषाः। तथा विराधना वसत्यादेः आदिशब्दादात्म-संयमप्रवचनपरिग्रहः। तथा संस्तारकविषये उपकरणविषये च भूयांसो दोषाः तथा द्वयोर्जनयोविहरतोरेकः कथञ्चनापि ग्लानो जायेत,ततो ग्लानं वसतौ मुक्त्वा अपरो भिक्षादिनिमित्तं बहिर्गतः, ये पश्चात् ग्लानस्य दोषा द्वितीयोद्देशकेऽभिहिताः। यच सशल्यस्य सतो मरणं तदेतत्सर्वमत्रापि द्रष्टव्यम्। एष द्वारगाथासंक्षेपार्थः! सांप्रतमेनामेव विवरीषुः प्रथमतो विराधना वसत्यादे-- रिति विवृण्वन्नाहसुण्णं मुत्तुं वसहि, भिक्खादीकारणा उ जइ दो वि। वचंति ततो दोसा,गोणाईया हवंति इमे / / 23 / / यदि द्वावपि शून्यां वसतिं मुक्त्वा भिक्षादिकारणतो व्रजतस्तत इमे वक्ष्यमाणा दोषा गवादिका गवादिनिमित्ता भवन्ति। तानेदाहगोणे साणे छगले, सूगरमहिसे तहेव परिकम्मे / मिच्छत्तवडुगमादी, अच्छन्ते सलिंगमादीणि॥२५॥ गौः श्वा छगलः शूकरो महिषो वा शून्यां वसतिमवबुध्य प्रविशेत् तथा परिकर्म गृहस्थः कुर्यात्,यदि वा-मिथ्यात्वोपहता वटुकादयः प्रविशेयुः, अथैको गच्छत्येकः पश्चात्तिष्ठति ततः एकस्मिन्पश्चात्तिष्ठति स्वलिगादीनि-स्वलिङ्गप्रतिसेवनादय आत्मपरोभयसमुत्था बहवो दोषाः / एषाऽपि द्वारगाथा। तत्र गवादिद्वारव्याख्यानार्थमाहगोणादिए पविटे, धाडतमधाडने भवे लाया। अहिगरणवसहि मंगा, तह पवयणे संजमे दोसा // 25 // गवादिके-गोश्वछगलशूक्ररादिके प्रविष्ट यदि तान् गवादीन् धाटयति ततस्तत्प्रायोऽयोगोलकल्पास्तिर्यञ्च इति तद्धाटनेन भवति प्रायश्चित्तं चत्वारो लघुकाः, तथा ते गवादयो निर्धाटिताः सन्तो हरितादीनि खादेयुस्ततोऽधिकरणदोषसंभवः / 'अधाडणे' त्ति अथ न नि टयति तर्हि वसतिभङ्गः, तथा प्रवचने संयमे च दोषाः, प्रवचन