________________ वसहि 995 - अभिधानराजेन्द्रः - भाग 6 वसहि ए अभिनिद्वाराए अभिनिक्खमणप्पवेसाए कप्पइ निग्गन्थाण य निग्गंथीण य एगओ वत्थए।।११। ' अथ ग्रामे वा यावद्राजधान्या वा अभिनिवगडाके निपातानामनेकार्थत्वादभीत्यनेकानीनि नियता वगडाः परिक्षेपाअभिनिशब्दौ पृथग् द्योतको दृष्टव्यौ, ततश्च पृथगनेकावगडा यत्रतदभिनिवगडा-कम्, तत्र। एवमभिनिद्वारके अभिनिष्क्रमणप्रवेशके च कल्पते निर्ग्रन्थनां निर्ग्रन्थीनां चएकतो वस्तुमिति सूत्रार्थः। अत्र भाष्यम्एयघोसविमुक्के, विच्छिन्नवियारथंडिलविसुद्धे। . अभिनिव्वगडदुवारे, वसंति जयणाएँ गीयत्था॥१६३॥ एतैः प्रथमसूत्रोक्तदोषैर्विमुक्ते विस्तीर्णे महाक्षेत्रे विचारस्थण्डिलविशुद्धे यत्र भिक्षाचर्या संज्ञाभूमिश्च परस्परमपश्यतां भवति, तत्रै-वंविधे अभिनिवगडाके-अभिनिद्वारे संयतीक्षेत्रे यतनया गीतार्था वसन्ति। कथमित्याहपिह गोअरउच्चारा,जे अब्भासेऽवि हॉति उनिओआ। वीसुं वीसुंवुत्तो, वासो तत्थोभयस्सावि॥१६॥ ये अभ्यासे मूलक्षेत्रप्रत्यासत्तौ नियोगा-ग्रामा भवन्ति तेऽपि साधुसाध्वीनां पृथग्गोचरचर्याकाः पृथगुचारभूमिकाश्च परस्परं भवन्ति, आस्तां मूलग्राम इत्यपिशब्दार्थः / उभयस्यापि च संयतानां संयतीनां तत्र पृथक् पृथगुपाश्रये वासः प्रोक्त इति। अत्र नोदकः प्रेरयन्नाहतं नऽत्थि गामनगरं, जत्थियरीओ न संति इयरे वा। पुणरवि भणामोंऽरण्णे, वसाउ जइ मेलणे दोसा / / 16 / / ग्रामाश्च नगराणि चेति ग्रामनगरम्,यत्रेतराः पार्श्वस्थादिसंयत्यः, इतरे पार्श्वस्थादयो न सन्ति ततः पुनरपि वयंभणामः, यथा अरण्ये उष्यतांवासः क्रियताम्, यदि मीलनायामेवंविधा दोषाः। सूरिराहदिलुतो पुरिसपुरे, मुरुडदूतण होइ कायय्वो। जह तस्स ते असउणा, तह तस्सितरा मुणेयय्वा॥१६६।। दृष्टान्तोऽत्र-पुरुषपुरे रक्तपटदर्शनाकीर्णे मुरुण्डदूतेन भवति-कर्तव्यः / यथा तस्य मुरुण्डदूतस्य ते रक्तपटा अशकुना न भवन्ति, तथा तस्य साधोरितराः पार्श्वस्थादयो भणितव्याः, ता दोषकारिण्यो न भवन्तीत्यर्थः। इदमेव भावयतिपाडलि मुरुडदूते, पुरिसपुरे सचिवमेलणा वासो। भिक्खू असउण तइए, दिणम्मि रनो सचिवपुच्छा / / 167 / / पाटलिपुरे नगरे मुरुण्डो नाम राजा, तदीयदूतस्यपुरुषपुरे नगरे गमनम्, तत्र सचिवेन सह मीलनम्, तेन च तस्यावासो दापितः, ततो राजानं द्रष्टुमागच्छन्तो भिक्षवो रक्तपटा अशकुना भवन्तीति कृत्वा स दूतो न राजभवनं प्रविशति। ततस्तृतीये दिने राजसचिवपार्श्वे पृच्छा-किमिति दूतो नाद्यापि प्रविशति। - निग्गमणं च अमचे, सब्भावाइक्खिए भणइ दूयं / अंतो बहिं च रत्था, नऽरहिंति इह पवेसणया // 168|| अमात्यस्य राजभवनान्निर्गमनम्, ततो दूतस्यावासे गत्वासचियो मिलितः, पृष्टश्च तेन दूतः। किं न त्वं प्रविशसि राजभवनम्?,स प्राहअहं प्रथमे दिवसे प्रस्थितः परं तत्र दण्डिकान् दृष्ट्वा प्रति-निवृत्तः, अपशकुना एते इति कृत्वा / ततो द्वितीये तृतीयेऽपि दिवसे प्रस्थितः, तत्रापि तथैव प्रतिनिवृत्तः। एवं सद्भावे आख्याते कथिते सतिदूतममात्यो भणति एते इह रथ्याया अन्तर्बहिर्वा नापशकुनत्वमर्हन्ति, ततः प्रवेशना दूतस्य राजभवने कृता / एवमसंयताः किमपि पार्श्वस्थादयः संयत्यश्च रथ्यादौ दृश्यमाना न दोषकारिणो भवन्ति। अपि चजह चेव अगारीणं, विवक्खबुद्धी जईसु पुटवुत्ता। तह चेव य इयरीणं, विवक्खबुद्धी सुविहिएसु // 16 // यथैवागारीणं वस्त्राभरणादिविभूषितानां पूर्वम् ‘आगन्तुगदव्वविभूसिए' इत्यादिना यतिषु विपक्षबुद्धिरुक्ता तथैवेतराणां पार्श्वस्थादिसंयतीनां हस्तपादधावनाविभूषितविग्रहाणां सुविहितेषु स्नानादिविभूषारहितेषु विपक्षबुद्धिर्भवतीति द्रष्टव्यम्। आपणगृहादिषु निर्ग्रन्थीनां नवसतिः कल्पतेनो कप्पइ निग्गन्थीणं आवणगिहंसिवा रत्थामुहंसिवा सिंघाड गंसिवातियंसिवा चउकसि वा चच्चरंसिवा अंतरा-वर्णसिवा वत्थए॥१२॥ अथास्य संबन्धमाहएयारिसखेत्तेसुं, निग्गन्थीणं तु संवसंतीणं / केरिसयम्मिन कप्पइ, वसिऊण उवस्सए जोगो // 17 // एतादृशेषु पृथग्वगडाकेषु-पृथग्द्वारेषु वा क्षेत्रे निर्ग्रन्थीनां च संयतीनां कीदृशे उपाश्रये वस्तुं न कल्पते इत्यनेन सूत्रेण चिन्त्यते एष योगःसंबन्धः / प्रकारान्तरेण संबन्धमाहदिट्ठमुयस्सवगहणं, तत्थुजाणं न कप्पइ इमेहिं। वुत्ता सपक्खओ वा, दोसा परपक्खिया इणमो॥१७१।। दृष्टम् अनन्तरसूत्रे उपाश्रयग्रहणम्, तत्राणाममीषु प्रतिश्रयेषु वस्तुंन कल्पते, इत्यनेन सूत्रेण प्रतिपाद्यते। उक्ता वा स्वपक्षतः स्वपक्षमाश्रित्य संयतानां संयतीनां च परस्परं दोषाः, इदानीं तु परपाक्षिकाः-गृहस्थाख्यपरपक्षप्रभवा दोषा व्यावय॑न्ते, इत्यनेकैः संबन्धैरायातस्यास्य (12) सूत्रस्य व्याख्यानो कल्पते निर्ग्रन्थीनां-साध्वीनामापणगृहे वा रयामुखेवा शृङ्गाटके वाचतुष्के वा चत्वारे वा अन्तरापणे वा वस्तुमिति सूत्रसंक्षेपार्थः। अथ विस्तरार्थं प्रतिपदमभिधि सुः प्रायश्चित्तमाहआवणगिहरत्थाए, तिए चउकंतरावणे तिविहे।