________________ वसहि 987- अभिधानराजेन्द्रः - भाग 6 वसहि अथैनामेव विवरीषुराहजइ पुण सध्वो विहितो, सेविजा होज चरिमपच्छित्तं / तम्हा पसंगरहियं, सेवइ तं न सेसाई // 354|| पुनःशब्दो-विशेषणे, किं विशिनष्टि यद्येष नियमो भवेत् तस्मात् प्रसङ्गरहितं यत् स्थान सेवते तन्निष्पन्नमेव प्रायश्चित्तं भवति, न शेषाणि मूलादीनि। अथ "चरमपदे चरमपद" मिति पदं भावयतिअदिट्ठाओ दिलु, चरमं तहि संकमाइ जा चरिमं। अहव ण चरिमारोवण, ततो विपुण पादए चरिमं // 355|| अदृष्टपदाद् दृष्टपदं चरमम्, तत्र चरमपदे शङ्का भोजिकाघाटिकादिक्रमेण चरमपदंपाराञ्चिकं यावत् प्राप्नोति। आह-यदि दृष्टं ततः कथं शङ्का ननु निःशङ्कितमेव, उच्यते-दूरेण गच्छतो दृष्टेऽपि पदार्थे सम्यगविभावितेशङ्का भवति।अथवा-या यत्र चरमारोपणा यथा जघन्ये चरममूलम, मध्यमे चरममनवस्थाप्यम्, उत्कृष्ट चरमं पाराञ्चिकम्, तत्तत्र चरमपदम्, ततोऽपि चरमपदात् शङ्कादिभिः पदैश्चरमं पाराञ्चिकं पुनः प्राप्नोति। अहवा आणाइविरा-हणाइ एक्किक्किया उ चरिमपदं। पावइतेण उ नियमो, पच्छित्तिहरा अइपसको // 356 // अथवा आज्ञाऽनवस्थामिम्यात्वविराधनापदानां मध्ये यद्विराधनापदं तचरमम्, सा च विराधना द्विधा--आत्मनि,संयमे च। तस्या एकैकस्याः सकाशाच्चरमपदं--पाराञ्चिकं प्राप्नोति। तत्र प्रतिमायाः स्वामी तेन दृष्ट्वा प्रतापितस्यात्मविराधनायां परितापनादिक्रमेण पाराश्चिकम्, संयमविराधनायां तु तस्याः प्रतिमायाः हस्ताद्यवयवे भग्ने यतः संस्थाप्यमाने सति 'छक्काय चउसुलहुगा' इत्यादिक्रमेण पाराश्चिकम्, यत एवं प्रसङ्गः ततो बहुविधं प्रायश्चित्तम्। तेनायं नियमतस्तिष्ठतः स्थानप्रायश्चित्तमेवन प्रतिसेवनाप्रायश्चित्तम्, इतरथा अतिप्रसङ्गो भवति। कथमिति चेदुच्यतेनऽस्थि खलु अपच्छित्ती, एवं ण य दाणि कोइ मुश्चेजा। कारि-अकारिय-समया, एवं सइरागदोसाय॥३५७|| यद्यप्रतिसेवमानस्यापि मूलादीनि भवन्ति तत एवं नास्ति कोऽप्यप्रायश्चित्ती, नचेदानी कश्चित्कर्मबन्धान्मुच्यताम् / यः प्रतिसेवते तस्य कारिणः अकारिणश्च समता भवति, एवं प्रायश्चित्तदाने सति रागद्वेषौ प्राप्नुत इति। नयेऽपि चाज्ञादिनिष्पन्नमिति पदं व्याख्यानयतिपुरिमादी आणाए, अणवत्थ परंपराएँ थिरिकरणं / मिछत्ते संकादी, पसज्जणा जाव चरिमपदं // 658|| अपराधपदे वर्तमानस्तीर्थकृतामाज्ञाभङ्गं करोति तत्र चतुर्गुरु। अत्र च मौर्यर्मयूरपोषकवंशोद्भवैः, आदिशब्दादपरैश्चज्ञासारै राजभिर्दृष्टान्तः / ततश्च काले अनवस्थाप्यं वर्तते, तत्र चतुर्लधु, अनवस्थातश्च परंपरया स्थिरीकरणं तदेवापराधपदमन्योऽपि करोतीत्यर्थः / तदा वासौ देशतो मिथ्यात्वमासेवते तत्र चतुर्लघु / अपराधपदे च वर्तमानो विराधनायां साक्षादेव वर्तते, परस्य च शङ्गादिकं जनयति। यथैतन्मृषातथाऽन्यदपि सर्वममीषां मृषैव / प्रसज्जना चात्र भोजिकादिरूपा तत्र चरमपाराश्चिकं यावत्प्रायश्चित्तं भवति / बृ०१ उ०३प्रकला अथानवस्थामिथ्यात्वविराधनापदानि व्याचष्टअणवत्थाऐं पसंगो, मिच्छत्ते संकमाइया दोसा। दुविहा विराहणा पुण,तहियं पुण संजमे इणमो॥३६२ यद्येष बहुश्रुतोऽप्येवं सागारिके प्रतिश्रये स्थितः, ततः किमित्याहकिमपि न तिष्ठामीत्येवमनवस्थाप्यम्, अन्यस्यापि प्रसङ्गो भवति, मिथ्यात्वे शङ्कादयो दोषाः। शङ्का नाम किं मन्ये यथावादिनस्तथाकारिणोऽमी न भवन्ति / आदि शब्दाद-विरत्यादिधर्म प्रतिपद्यमानानां विपरिणाम इत्यादिदोषपरिग्रहः। विराधना द्विविधा-संयमे, आत्मनि च। तत्र संयमविषया तावदियम्अणट्ठदंडो विकहा, वक्खेव विसोत्तियाएँ सइकरणं / आलिंगणादिदोसा,ऽसंनिहिए ठायमाणस्स॥३६३।। अर्थः-प्रयोजनं तदभावोऽनर्थः तेन दण्डोऽनर्थदण्डः, स च द्रव्यतो यदकारणे राजकुले दण्ड्यते, भावतस्तु निष्कारणं ज्ञानांदीनां हानिः, सा सागारिके प्रतिश्रये स्थितानां भवति। विकथावक्ष्यमाणरूपा, व्याक्षेपो नाम-तां प्रतिमा प्रेक्षमाणस्य द्वितीय-साधुना च सहोल्लापं कुर्वतः सूत्रार्थपरिमन्थः / विश्रोतसिका द्विधा द्रव्यतः सारणी पानीयं वहमानं तृणादिकचवरस्थानीयया चित्तविप्लुत्या निरुद्ध सति चारित्रस्य विनाशो जायते सा विश्रोतसिकेत्युच्यते,तया स्मृतिकरणं भुक्तभोगिनां कौतुकम्, आलिङ्गनादयश्च दोषा भवन्ति। एते असंनिहितेप्रतिमारूपे तिष्ठतो दोषाः। अथ विकथापदं विवृणोतिसुठुकया अह पडिमा,विणासिया न वि य जाणसि तुमं पि। इय विकहा अहिगरणं, आलिंगणे भंगें भद्धितरा // 36 // एकःसाधुः ब्रवीति-सुष्ठुकृतेयं प्रतिमा,द्वितीयः प्राह-विनाशितेयं नापि चजानासि त्वमपि, इत्येवं विकथा / ततश्चोत्तरप्रत्युत्तरिकां कुर्वतोस्तयोरधिकरणं भवति। अथ कोऽप्युदीर्णमोहस्तां प्रतिमामालिङ्गेत्, तत आलिङ्गने प्रतिमाया हस्तपादादिभङ्गो भवेत्, सपरिग्रहायाश्च प्रतिभायां भद्रकेतरदोषाः, भद्रका हस्तपादादिभने सजाते सति पुनः संस्थापनं विदध्यात्, प्रान्तः आकर्षग्रहणादीनि कुर्यात् / एते असंनिहिते दोषा उक्ताः / संनिहितेऽपित एव वक्तव्याः। ___एते चान्येऽधिकाःवीमंसा पडिणीय-ट्ठया व भोगित्थिणीच संनिहिया। काणच्छी उकंपण, आलावनिमंतणपलोभे य॥३६५।। संनिहिता सा त्रिभिः कारणैः साधुं प्रलोभयेत्, विमृश्यावा, प्रत्यनीकार्थतया वा, भोगार्थितया वा, विमर्शो नाम किमेष साधुः शक्यः क्षोभयितुं नवेति, जिज्ञासा च-या प्रतिमामनुप्रविश्य काणाक्षिकं वा उत्कम्पनं वा स्तनादीनां विदधीत, आलापं वा कुर्यात्।