________________ वसहि 186- अमिधानराजेन्द्रः - भाग 6 वसहि प्रायश्चित्तं निरूपयितव्यम्, तत्र चैतान्येव जघन्यमध्यमोत्कृष्टानि संनिहिताऽसंनिहितभेदाभ्यां विशेषमाणानि षट् स्थानानि भवन्ति। एतेषु प्रायश्चित्तमाहचत्तारि य उग्घाता, पढमे विइयम्मि तो अणुग्घाया। तइयम्मि अणुग्घाया, चउत्थ छम्मास उग्घाता॥३४४|| पंचमगम्मि वि एवं, छटे छम्मास हों तिऽणुग्घाया। संनिहिएऽसंनिहिए, एस विही हाणमाणस्स॥३४॥ प्रथमं नाम-जघन्यमसंनिहितम्, द्वितीयं जघन्यं संनिहितम्, तृतीयं मध्यममसंनिहितम्, चतुर्थ मध्यमं संनिहितम्, पञ्चममुत्कृष्टमसंनिहितम्, षष्ठमुत्कृष्ट संनिहितम्। अत्राऽयमुचारणविधिः / जघन्यके असंनिहिते प्राजापत्यपरिगृहीते तिष्ठति चत्वार उद्धातामासाः, संनिहिते तिष्ठति त एव चत्वारो मासा अनुद्धाताः। मध्यमके असंनिहिते चत्वारो मासा अनुद्धाताः,संनिहिते षण्मासा अनुद्धाताः। एषोऽसंनिहिते सन्निहित च तिष्ठतः प्रायश्चित्तविधिरुतः। ___अथ प्राजापत्यादिविशेषत एवमेव विशेषयतिपढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं / बिइयम्मि अकालगुरू, तवगुरुगा होन्ति तइयम्मि॥३४६|| प्रथमे स्थाने-प्राजापत्यपरिगृहीते एतानि प्रायश्चित्तानि द्वाभ्यामपि लघुकानि,तद्यथा-तपसा कालेन च / द्वितीये कौटुम्बिके परिगृहीते तान्येव कालगुरुकाणि, तृतीये दण्डिकपरिगृहीते एतान्येव तपोगुरुकाणि। स्थानप्रायश्चित्तमेव प्रकारान्तरेणाहअहवा भिक्खुस्सेयं, जहन्नगाइम्मि ठाणपच्छित्तं / गणिणो उवरि छेदो, मूलायरिए पयं हसति // 347 // अथवा यदेतज्जन्यादौ चतुर्लघुकादारभ्य षड्गुरुकावसानं स्थानप्रायश्चित्तमुक्तम्, तद्भिक्षोरेव द्रष्टव्यम्, गणी-उपाध्यायस्तस्य षड्गुरुकादुपरिछेदाख्यं प्रायश्चित्तपदं वर्द्धते। एकं पदं चतुर्लघुकाख्यमधो हसति चतुर्गुरुकादारभ्य छेदं तिष्ठतीत्यर्थः / आचार्यस्य षड्-लघुकादारब्धं मूलं यावत्प्रायश्चित्तम्, अत्राप्येकं पदमुपरि वर्द्धते, अधस्तादेकं पदं हसतीति / गतं स्थानप्रायश्चित्तम्। अथ प्रतिसेवनाप्रायश्चित्तमाहचत्तारि छच्च लहु गुरु, छम्मासितो छेदो लहु गुरुगा य। मूलं जहन्नगम्मिय, सेवंति पसज्जणं मोत्तुं // 348|| प्राजापत्यपरिगृहीते जघन्ये असन्निहिते-अदृष्ट प्रतिसेवमाने चत्वारो लघवः, दृष्ट चत्वारो गुरवः / संनिहिते अदृष्ट चतुर्लघवः, कौटुम्बिकपरिगृहीते जघन्ये असंनिहिते अदृष्ट प्रतिसेविते लघुषाण्मासिकच्छेदः, दृष्ट पाण्मासिकच्छेदः / संनिहिते अदृष्ट गुरुषाण्मासिकच्छेदः, दृष्ट मूलम्। एतज्जघन्यं दिव्यप्रतिमारूपं सेवमानस्य प्रायश्चित्तं भणितम् / प्रसज्जना नाम दृष्टे सति भोजिकाघाटिकादीनां ग्रहणाकर्षणप्रभृतीनां वा दोषाणां परंपरया प्रसङ्गः, तंमुक्त्वा एतत्प्रायश्चित्तम, तन्निष्पन्नं तु पृथगापद्यते। अथ मध्यमे प्रायश्चित्तमाहचउगुरुग छच्च लहुगुरु, छम्मासिओं छेदो लहुओ गुरुगो / मूलं अणवट्ठप्पो, मज्झिमपसज्जणं मोत्तुं // 346 / / मध्यमे प्राजापत्यपरिगृहीते असंनिहिते अदृष्ट प्रतिसेविते चतुर्गुरवः, संनिहिते अदृष्ट षड्लघवः / दृष्ट षड्गुरवः। कौटुम्बिक-परगृहीते असंनिहिते अदृष्टे षड्गुरवः। सन्निहिते दृष्ट लघुषाण्मासिकच्छेदः, दृष्ट गुरुषा मासिकच्छेदः / दण्डिकपरिगृहीते असंनिहिते अदृष्ट गुरुषाण्मासिकच्छेदः, दृष्ट मूलम्, सन्निहिते दृष्ट अनवस्थाप्यम् / एतन्मध्यमके प्रसज्जनां मुक्त्वा प्रायश्चित्तं द्रष्टव्यम्। उत्कृष्टविषयमाहतव छेदो लहु गुरुगो, छम्मासितो मूलसेवमाणस्स। अणवट्ठो पारंचिय,उक्कोसें पसज्जणं मोत्तुं // 350 / / उत्कृष्ट-प्राकृतपरिगृहीते असंनिहिते अदृष्ट प्रतिसेवितेलघुषाण्मासिक तपः, दृष्ट गुरुषाण्मासिकं तपः। संनिहिते अदृष्ट गुरुषाण्मासिकं तपः,दृष्ट लघुषाण्मासिकच्छेदः / कौटुम्बिकपरिगृहीते असंनिहिते अदृष्ट लघुषाप्रमासिकच्छेदः, दृष्ट गुरुषाण्मासिकच्छेदः, संनिहिते दृष्ट मूलम्, दण्डिकपरिगृहीते असंनिहिते अदृष्ट मूलम,दृष्ट अनवस्थाप्यम्, दृष्ट पाराशिकम्। एवमुत्कृष्ट दिव्यप्रतिमारूपां प्रसज्जनां मुक्त्वा प्रायश्चित्तमवसातव्यम्। अथ यथाचारणिकाया अभिलाषः कर्तव्यस्तथा भाष्यकृदुपदर्शयतिपायावचपरिग्गहें, जहन्नसंनिहियए असंनिहिए। दिहादिट्टे सेवइ, एसाऽऽलावो उसव्वत्थ।।३५१|| प्राजापत्यपरिगृहीते जघन्ये असंनिहिते संनिहिते अदृष्ट च सेवते, गाथायाम्-असंनिहिता दृष्टपादयोर्बन्धानुलोम्यात्पश्चान्निर्देशः / एष ईदृश आलापः-उच्चारणविधिः सर्वत्र कौटुम्बिकपरिगृहीतादौ मध्यमादौ च कर्त्तव्यः। अत्र नोदक आहजम्हा पढमे मूलं, बिइए अणवट्ठों तइऍ पारंची। तम्हा ठायंतस्स य, मूलं अणवट्ठ पारंची // 352 / / यस्मात् प्रथमे-जधन्ये प्रतिसेवमानस्य चतुर्लघुकादारब्धं मूलं यावत्प्रायश्चित्तं भवति, द्वितीये-मध्यमे चतुर्गुरुकमादौ कृत्वा अनवस्थाप्यम, तृतीये उत्कृष्ट लघुकादारब्धं पाराश्चिकं यावद्भवति, तस्मात्तिष्ठत एव स्थाननिष्पन्नानि / जघन्यमध्यमोत्कृष्ट तु यथाक्रमं मूलानवस्थाप्यपाराश्चिकानि भवन्तु। सूरिराहपडिसेवणा य एवं, पसज्जणा होइ तत्थ एकके। चरिमपए चरिमपदं, तं पिय आणाइनिप्फन्नं // 353 / / जघन्यादि प्रतिसेवनायामेवं मूलानवस्थाप्यपाराञ्चिकं यावद्भवति। यचाज्ञादिदोषनिष्पन्नं चतुर्गुरुकंतदपि द्रष्टव्यमिति संग्रहगाथासमासार्थः।