________________ वसहि 985 - अभिधानराजेन्द्रः - भाग 6 वसहि नित्यमपि-सर्वकालं गीतादिशब्दैरपहतहृदयस्य प्रत्युपेक्षणायां स्वाध्याये आवश्यके भोजने वैरात्रिके उपलक्षणत्वात्प्राभातिकादिषु च द्रव्यकरणमेव भवति, न भावकरणम्। भावकरणव्यापारेषुते सादितुमारद्धा,संजमजोगेसु वसहिदोसेणं। गलति जतू तप्पंतं,एस चरित्तं मुणेतव्वं // 333|| जतु-लाक्षा यथा अग्निना तप्यमानं गलति, एवं रागाग्निना तप्यामानं चारित्रमपि गलतीति ज्ञातव्यम्। उनिक्खंता केई, पुणो वि संमेलणाएँ दोसेण / वचंति संभरंता, भंतूण चरित्तपागारं / / 334|| तस्यां वसतौ स्त्रीपुरुषादिसंमेलनाया दोषेण केचिन्मन्दभाग्या उन्निष्क्रान्ता-उत्प्रव्रजितास्ततश्चारित्रमेव प्राकारोयत्र नगररक्षार्थक्षमत्याच्चारित्रच्चकारम् भक्त्वा तान्येव स्त्रीरूपादीनि संस्मरन्तः पुनरपि गृहवासंव्रजन्ति। ततः किमभूदित्याहएगम्मि दोसुतीसुं, चउहा चिंतेसु तत्थ आयरिओ। मूलं अणवट्टप्पो, पावइ पारंचियं ठाणं // 335 / / यद्येक उन्निष्क्रामति ततो मूलम्, द्वयोरवधावतोः अनवस्थाप्यम्। तेषु अवधावमानेषु तत्राचार्यः पाराश्चिकं स्थान प्राप्नोति, यस्यथा वशेन तत्र स्थितास्तस्येदं प्रायश्चित्तमिति। गतं द्रव्यसागारिकम् / अथ भावसागारिकमाहअट्ठारसविहऽबंभ,भावा ओरालियं च दिवं च। मणवयणकायगच्छण, भावम्मि य रूवसंजुत्तं // 336 / / अष्टादशविधमब्रह्म भवति। तस्य चौदारिकदिव्यलक्षणौ द्वौ मूलभेदौ। तत्रौदारिक नवविधम्-औदारिकान् कामभोगान्मनसा गच्छति, मनसा गमयति, गच्छन्तमन्यं मनसैवानुजानीते / एवं वाचाऽपि त्रयो भेदाः प्राप्यन्ते, कायेनापि त्रयः। एतैस्त्रिभिस्त्रिकैर्नवभेदा भवन्ति। एवं दिव्येऽप्यब्रह्मणि नवभेदा लभ्यन्ते / एवमेव तदष्टादशविधमब्रह्म सागारिक भवति।अथवा-रूपं वा संयुक्तं वा रूपसहगतं यदब्रह्म भावोत्पत्तिकारणं तदपि भावसागारिकम्। एतदेव स्पष्टयतिअहवा अबंभजुत्तो, भावे रूवाउ सहगयाओ वा। भूसणजीवजुयं वा, सहगय तय्वज्जियं रूवं // 337 / / अथवा-यतो रूपाद्वा अब्रह्मरूपो भाव उत्पद्यते तदपि कारणे कार्योपचारात् भावसागारिकम् / यथा- 'नडलोदकं पादरोग' इति, तत्र यत् स्त्रीशरीरं भूषणसंयुक्तम्, अभूषितंवायज्जीवयुक्तंतद्रूप-सहगतंमन्तव्यम्। . यत्पुनः स्त्रीशरीरमेव तद्वर्जितं भूषणविरहितं जीवयुक्तं वा तद्रूपमुच्यते। तं पुण रूपं तिविहं, दिव्वं माणुस्सयं तिरिक्खं च / पायावत्थकुटुंबिय, दंडिय पारिग्गहं चेव // 338 / / तत्पुनरनन्तरोक्तं रूपंतत् त्रिविधम् दिव्यम्, मानुष्यम्, तैरश्वचा पुनरकैकं त्रिधा-प्राजापत्यपरिगृहीतम्, कौटुम्बिकपरिगृहीतम्, दण्डिकपरिगृहीतं चेति। प्राजापत्याः प्राकृतलोका उच्यन्ते। एवं त्रिविधमपि प्रत्येक त्रिधा, जघन्यमध्यमोत्कृष्टभेदात्। तत्र दिव्यस्यजघन्यादिभेदत्रयमाहवाणंतरिय जहन्नं, भवणवई जोइसं व मज्झिमगं / वेमाणिय उकोसं,पणयं पुण ताण पडिमासु // 339| दिव्येषु यद्वाणव्यन्तरिक रूपं तज्जघन्यम्, भवनपतिज्योतिष्कयोर्मध्यमम्, वैमानिकरूपम् उत्कृष्टम् / तत्र च तेषां वाणव्यन्तरादीनां याः प्रतिमास्ताभिः प्रकृतमधिकारः, सागारिकोपाश्रयस्य प्रस्तुतत्वात्, तत्र च प्रतिमानामिव सद्भावात्। प्रकारान्तरेण दिव्यप्रतिमानां जघन्यादिभेदानाहकडे पोत्थे चित्ते, जहन्नयं मज्झिमं च दंतम्मि। सेलम्मि य उक्कोसं,जंवा रूवातु निप्फ॥३४०॥ या दिव्यप्रतिमा काष्ठकर्मणि वा पुस्तककर्मणि वा चित्रकर्मणि वा क्रियते तञ्चघन्यं दिव्यरूपम्।या तुहस्तिदन्ते क्रियतेतन्मध्यमम्, चपुन,शैले वाशब्दात्-मणिप्रभृतिषु च या क्रियते,तदुत्कृष्टम्। यद्वा-रूपान्निष्पन्नं जघन्यादिकंतद्रष्टव्यम्।यद्रव्यप्रतिमा विरूपातजघन्यं दिव्यरूपम्। यातुमध्यमरूपा तन्मध्यमम्।या पुनःसुरूपातदुत्कृष्टम्।अत्र चायतप्रतिमायुते उपाश्रये तिष्ठतश्चत्वारो लधुकाः चयश्चित्तम्। अथात्रैव विभागतः प्रायश्चित्तमाहठाणपरिसेवणाए, तिविहे वा दुविहमेव पच्छित्तं। लहुगा तिन्नि वि सिट्ठा,अपरिगहें ठायमाणस्स // 351 / / त्रिविधेऽपिजघन्यमध्यमोत्कृष्टभेदभिन्ने दिव्ये प्रतिमायुते तिष्ठतो द्विविध प्रायश्चित्तम्, स्थानं, निष्पन्नं च / तत्र निष्पन्नमिदम्-दिव्ये प्रतिमायुते परिगृहीते तिष्ठतस्त्रयश्चतुर्लघुकास्तपःकालविशिष्टाः। तद्यथा-जघन्ये चत्वारो लघुकास्तपसा कालेन चलघुकाः, मध्यमे त एव कालगुरुकाः उत्कृष्ट त एव तपोगुरुकाः। अथ परिगृहीते प्रायश्चित्तमाहचत्तारि य उग्घाया, पढमे बिइयम्मि ते अणुग्घाया। छम्मासा उग्घाया, उक्कोसे ठायमाणस्स॥३४२।। पायावचपरिग्गहें, दोहि वि लहु हुंति एतें पच्छित्ता। कालागुरु कोडुबे, दंडियपारिग्गहे तवसा // 33 // प्रथम-जघन्यं तत्र तिष्ठतश्चत्वार उद्धाता मासाः, लधवो मासा इत्यर्थः, द्वितीयं-मध्यमंतत्रतएव चत्वारोमासा अनुद्धाता गुरुका इत्यर्थः , उत्कृष्ट तु तिष्ठतः षड्मासा उद्धाताः षड्लघव इत्यर्थः। एतानि च प्रायश्चित्तानि घजापत्यपरिगृहीते द्वाभ्यामपि तपः कालाभ्यां लघुकानि द्रष्टव्यानि। कौटुम्बिकपरिगृहीतेवा एतान्येव कालगुरुकाणि, दण्डिकपरिगृहीतेएतान्येव तपसा गुरुकाणि / इदं च यस्माजघन्यादिविभागेन निर्दिष्ट संनिहिताऽसंनिहितभेदेनन विशेषितंतस्मादेतद्दोषविभागप्रायश्चित्तमभिधीयते। अथ विभाग पचारात् भाम, अभूषितात जीवयुक्त