________________ वसहि १५५-अभिधानराजेन्द्रः - भाग 6 वसहि ग्रन्थानां पुरुषरूपं निर्गन्थीनां तु स्त्रीरूपम्, यत्तु विसदृशरूपं तद्भावसागारिकम् / निर्ग्रन्थीनां तु स्त्रीरूपं निर्गन्थानां तु पुरुषरूपं भावस्य सागारिकमित्यर्थः / यद्वा-जीवविप्रमुक्तम्- पुरुषशरीरं स्त्रीशरीरं वा। तदपि स्वस्थाने द्रव्यसागारिकम्, परस्थाने तु भावसागारिकमिति अथ 'आभरणविही' त्यादिव्याख्यायते-आभरणं-कटकादितस्य विधिर्भदा आभरणविधिः,वस्त्रमेवालङ्कारोवस्त्रालङ्कारः। यदि वा वस्त्राणिचीनांशुकादीनि; अलङ्कारो द्विधा-केशालङ्कारो माल्यालङ्कारभेदात्। भोजनम्-अशनपानखाद्य-स्वाद्यभेदाच्चतुर्विधम्, गन्धः-कोष्टपुटपाकादिः, आतोद्यं चतुर्विधम्-ततम्, विततम्, घनम्, शुषिरम्। "ततं-वीणाप्रभृतिक, विततंमुरजादिकम् / घनं तु-कांस्यतालादि,वंशादि-शुषिरं मतम्" // 1 // नृत्तमपि चतुर्विधम्--आचितम्,रिभितम्,आरभडम् भसोलम् / एते चत्वारोऽपि भेदा अनादिशास्त्रप्रसिद्धाः / नाटकम्अभिनयविशेषः। अथवानय़ होइ अगीयं,गीयजुयं नाडयं तु नायव्वं / / आभरणादी पुरिसो-वभोगदव्वं तु सहाणे // 324 / इह अगीत-गीतविरहितं नाट्यं भवति, यत् पुनर्गीतयुक्तं तन्नाटकं ज्ञातव्यम् / गीतं चतुर्दा- तन्त्रीसमम्, तालसमम् ग्रहसमम्, लयसमं चेति / शयनम्-पल्यङ्कादि, यत्तदाभरणादिकं यत्पुरुषोपभोग्यं तत् स्वस्थाने द्रव्यसागारिक निर्ग्रन्थानामिति भावः। अन्नंच भोजन-गन्धातोद्यशयनानिद्वयोरपि स्त्रीपुरुषपक्षयोः साधारणत्वाद्रव्य-सागारिकमेव, शेषाणि तु साधुसाध्वीनां स्वस्थानयोग्यानि द्रव्य-सागारिकम्, परस्थानयोग्यानि तु भावसागारिकम्। एतेषु प्रायश्चित्तमाहएकेक्कम्मि य ठाणे, भोयणवजाण चउलहू हुंति। चउगुरुगमोअणम्मिवि,तत्थ वि आणाइणो दोसा // 32 // एकैकस्मिन्-रूपाभरणादौ द्रव्ये सागारिकभोजनवर्जे तिष्ठतां चतुर्लघवः / भोजनसागारिके चतुर्गुरवः, केषांचिन्मतेनाभरणवस्त्रयोरपि चतुर्गुरवः तत्राप्याज्ञादयो दोषाः। तनाको जाणइ को किर सो, कस्य य माहप्पया समत्थत्ते। घिइदुब्बला उ केई, देवेति तओ अगारिजणं // 326 / / को जानाति नानादेशीयानां साधूनां मध्ये कः कीदृशः कीदृक्परिणामः कस्य वा कीदृशी महात्मता-महाप्रभावता, समर्थत्वे-सामर्थ्य लोभनिग्रहब्रह्मव्रतपरिपालनं वा प्रतीत्य विद्यते, परचेतोवृत्तीनां निरतिशयैरनुपलक्ष्यत्वात्। भूयो ये केचित् धृतिदुर्बलास्ते तत्र रूपाभरणादिभिराक्षिप्ताचित्ताः-परित्यक्तसंयम-धुरा अगारीजनं 'देवेति' गछन्ति परिभुञ्जते इत्यर्थः। तथाके इत्थ भुत्तभोगी, अभुत्तभोगी य केऽपि निक्खंता। रमणिज्ज लोइयंतिय,अम्हं पेतारिसा आसी॥३२७।। केचिदत्र गच्छमध्ये भुक्तभोगिनः केचिदभुक्तभोगिनः तेषां चोभयेषा | मित्येवं भावः समुत्पद्यते-रमणीयमिदं लौकिकं चरितं यत्रैवं वस्त्राभरणानि परिधीयन्ते, विविधखाद्यकादीनि यथेच्छं भुञ्जते / अस्माकमपि गृहाश्रमे स्थितानामेतादृशा भोगा आसीरन्। इदमेव व्यनक्तिएरिसओ उवभोगे, अम्ह वि आसिप्पइण्ह ओयल्ला। दुक्कर करेमि भुत्ते,कोउगमियरस्स दळूणं // 328|| ईदृश एवगन्धमाल्यताम्बूलाद्युपभोगः पूर्वमस्माकमप्यासीत्, 'यह' इति निपातः पादपूरणे / इदानीं तु वयं उज्जला:-प्रावल्येन मलिनशरीराः अलब्धसुखास्वादाश्च दुष्करं केशश्मश्रुलुश्चन-भूमिशयनादि कुर्महे,इत्थं भुक्तभोगी चिन्तयति,इतरोऽभुक्तभोगी तस्य रूपाभरणादिकं दृष्ट्वा कौतुकं भवेत्। को दोष इत्यत आहसतिकोउगेण दुन्नि वि, परिहेज लइज्ज या वि आभरणं / अन्नेसिं उवभोगं, करिज वाएज वुड्डाहो / / 229|| स्मृतिश्च कौतुकं चेति द्वन्द्वैकवद्भावः, तेन स्मृतिकौतुकेन द्वावपि भुक्ताऽभुक्तभोगिनौ वस्त्राणि या परिदधीयाताम्, आभरणं या स्वशरीरे गृह्णीयाताम्, अन्येषां वा गन्धशयनीयासनादीनामुपभोगं कुर्वाताम्, आतोद्यवादयेतामसंयतो वा असंयतमलंकृतविभूषितं दृष्ट्वा लोकमध्ये उड्डाहं कुर्यात्। किञ्चतचित्ता तल्लेसा, मिक्खा-सज्झायमुक्कतत्तीया। विकहाविस्सुतियमणा, गमणस्स अ उस्सुईभूया // 330|| तदेव-स्त्रीरूपादिचिन्तनात्मकं चित्तं येषां ते तचित्ता, लेश्या-नामतदङ्गपरिभोगाव्यवसायः, साचलेश्या येषां तेतल्लेश्याः, भिक्षास्वाध्याययोर्भुक्ततप्तिर्व्यापारो येषां ते भिक्षास्वाध्यायभुक्ततप्तिकाः, तथा संयमाराधनीया वाग्योगप्रवृत्तिः सा कथा तद्विपक्षगता विकथा, विश्रोतसिका नाम-स्त्रीरूपादिस्मरण-जनिता बिन्दुविप्लुतिःतयोर्मनो येषां ते विकथाविश्रोतसिकमनसः। एवंविधास्ते केचिद्गमनेधावने उत्सुका भवन्ति, केचिच उत्सुकीभूता उत्प्रव्रजिता इत्यर्थः / तत्र विकथा कथं भवतीत्याहसुल कयं आभरणं, विणासियं न वि य जाणसि तुमं पि। मुच्छुड्डाहो गंधे, विसुत्तिया गीयसद्देसुं॥३३१।। एकः साधुर्ब्रवीति-सुष्टु-शोभनं कृतमिदमाभरणम, द्वितीयः प्राहविनाशितमेतत्,त्वमप्यविशेषज्ञो न जानासि / एवमुत्तरप्रत्युत्तरिका कुर्वतोस्तयोरसंथडमुपजायते। मूर्छा वा तत्र रूपादौ कोऽपि कुर्यात्। तथा वाऽसौ सपरिग्रहो भवति 'उड्डाहो गंधे' त्ति चन्दनादिगन्धेनात्मनं यदि कोऽपि विलिम्पति पटवासादिभिर्वा वासयति ततः उड्डाहो भवति, नूनं कामिनोऽमी अन्यथा कथमित्थमात्मानं मण्डयन्तीति। आतोद्यगीतशब्देषु श्रूयमाणेषु विश्रोतसिका जायते। अपिचनिचं पिदवकरणं, अवहियहिययस्स गीयसद्देहिं। पडिलेहणसज्झाए, आवासगभुंजते रत्ती॥३३२