________________ वसहि 953 - अभिधानराजेन्द्रः - भाग 6 वसहि अपरे कृतकार्या गच्छन्ति अतो यावन्तः साधम्मिकाः समागमिष्यन्ति तावतामयमाश्रयः साधुपरिमाणं न कथनीयमिति भावार्थः। आचा०२ श्रु०१ चू०२ अ०३उ०। (बहुषु सागारिकेषु एकं सागारिकं कुर्यात् इति 'सागारिय' शब्दे वक्ष्यते।) सागारिकस्य नामगोत्रे जानीयात् से भिक्खू वा भिक्खुणी वा जस्सुवस्सए संवसेज्जा तस्स पुवामेव णाम गोत्तं जाणेज्जा,तओ पच्छा तस्स गिहे णिमंतेमाणस्स वा अणिमंतेमाणस्स वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं०जावणो पडिग्गाहेज्जा / (सू०-९०) सुगमं नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यम्, तत्परिज्ञानाच्च सुखेनैव; प्राघूर्णकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति। आचा०२ श्रु०१चू०२अ०३उ०। सागारिकस्य निश्रया अनिश्रया वा निवसेत्कप्पइ निग्गंथीणं सागारियनिस्साए वत्थए॥२३॥ कप्पइ निम्गंथाणं सागारियनिस्साए वा अनिस्साए वा वत्थए।॥२४॥ अत्र भाष्यम्-कल्पते निर्ग्रन्थानां सागारिकनिश्रयैव वस्तुमिति। साहू निस्समनिस्सा,कारणे निस्सा अकारणेऽणिस्सा। निकारणम्मि लहुगा, कारणें गुरुगा अनिस्साए // 317|| साधवः सागारिकस्य निश्रया अनिश्रया वा वसन्ति / तत्र कारणे निश्रया,अकारणे त्वनिश्रया वस्तव्यम्। यदि निष्कारणे सागारिकनिश्रया वसन्ति ततश्चत्वारो लघुकाः। अथ कारणे अनिश्रया वसन्ति ततश्चत्वारो गुरुकाः। अथ निष्कारणे सागारिकनिश्रया तिष्ठतां दोषमाहउठेति निवेसिंते, मुंजण-पेहासु सारिमोए अ। सज्झायबंभगुत्ती, असंगता तित्थऽवण्णे य॥३१८|| कोऽपि साधुरुत्तिष्ठन् वा निविशमानोवा अपावृतो भवेत्। तं दृष्टा पुरुषाः स्त्रियो वा हसन्ति, उडुञ्चकान् वा कुर्वन्ति / भोजन-समुद्देशनं तत्र मण्डल्यांतुम्बकेषु वा समुद्दिशतो दृष्ट्वा ब्रवीरन्-अहो अमी अशुचय इति, प्रेक्षा-प्रत्युपेक्षणा तस्यां विधीयमानायां ते सागारिका उड्डञ्चकान् कुर्युः, 'मोय' त्ति निशि मोकेनाचमने कायिकीव्युत्सर्जने च उड्डाहं कुर्युः, स्वाध्यायमधीयमानं परावर्तमानं वा श्रुत्वा कणाहतेनागच्छन्तीनां स्त्रीणां चाङ्गप्रत्ययादौविलोकमाने ब्रह्मचर्यस्याऽगुप्तिर्भवेत्, 'असंगय' त्ति यैः किलाऽसंगताः प्रतिपन्नाः स्त्रीरहिते प्रतिश्रये स्थातव्यमित्येतदप्येते न जानन्ति, तीर्थस्य वाऽवर्णो भवति-सर्वेऽप्येते एतादृशा इति। यत एते दोषा अत उत्सर्गतः सागारिकस्या निश्रया वस्तव्यम्, कारणे तुनिश्रया परिकल्पते वस्तुम्। तचेदम्तेणा सावय-मसगा, कारणनिकारणे व अहिगरणं / एएहि कारणेहिं, वसंति निस्सा अनिस्सा वा॥३१९।। स्तेनाः श्वापदा वा यत्रोपद्रवन्ति तत्र ये गृहस्थाः परित्राणं कुर्वते तत / तन्निश्रया वस्तव्यम्, मशका वाऽन्यत्राभिद्रवन्ति ततो निश्रयाऽपि | यस्तव्यम्, निष्कारणे तु निश्रया वसतामप्काये यत्र वाहनादिकमधिकरणं भवेत्, एतैः कारणैर्निश्रया अनिश्रया वा यथायोग वसन्तीति / बृ०१ उ०३प्रका कः ससागारिक उपाश्रय इत्याहसे भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा ससागारियं सागणियं सउदयं णो पण्णस्स णिक्खमणपवेसणाए०जाव अणुचिंताए तहप्पगारे उवस्सए णो ठाणं वा०३ चेतेजा। (सू०-६१) स भिक्षुर्यत्पुरेवंभूतं प्रतिश्रयं जानीयात् तद्यथा--ससागारिकं साऽग्निकं सोदकम्,तत्र स्वाध्यायादिकते स्थानादिन विधेयमिति। आचा०२श्रु० १चू०२अ०३उ०॥ सागारिकोपाश्रये वस्तुंकल्पतेनो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारिए उवस्सए वत्थए॥२५॥ अस्यसम्बन्धमाहनिस्स त्ति अइपसंगे-ण साहु सागारियम्मि उवसिञ्जा। ते चेव निस्सदोसा, सागारिय नि (व)स्सओ मा हु॥३२०।। निग्रन्थीनां सागारिकनिश्रयैव निर्ग्रन्थानामपि कारणे निश्रया वस्तुं कल्पते इत्युक्ते अतिप्रसङ्गेन दोषेण सागारिकेऽपि प्रतिश्रये वसेयुः। कुत इत्याह- सागारिकोपाश्रये निवसन्तो मा तपःस्वस्थाननिवेशनादिविषया निश्रादोषा मयेयुः, अतः सागारिकसूत्रं प्रारभ्यते इत्यनेन सम्बन्धेनायातस्यास्य (25) व्याख्या-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीना वा सागारिके, सागारिकं द्रव्यतो भावतश्च स वक्ष्यमाणलक्षणं तदत्रास्तीति व्युत्पत्तेरभ्रादित्वादप्रत्यये सागारिकः / ईदृशे उपाश्रये वस्तुमिति सूत्रसंक्षेपार्थः। अथनियुक्तिविस्तरःसागारियनिक्खेवो, चउदिवहो होइ आणुपुथ्वीए। नामंठवणा दविए, भावे यचउव्विहो भेओ॥३२१॥ सागारिकपदस्य निक्षेपश्चतुर्विधः आनुपूर्व्या भवति। तद्यथा-नाम्नि, स्थापनायां द्रव्ये, भावे, च, इत्येष चतुर्विघो भेदः / तत्र नामस्थापने गतार्थे। द्रव्यतो नोआगमतो ज्ञशरीरव्यतिरिक्तं द्रव्यसांगारिकमाहरूवं आभरणविही, वत्थालंकारभोयणे गंधे। आउज्ज नट्ट नाडग-गीए सयणे य दवम्मि॥३२२॥ रूपम् आभरणविधिः वस्त्रालंकारो भोजनं गन्धः आतोद्यं नृतं नाटकं गीतं शयनीयं च; एतद् द्रव्यसागारिकम्। तत्र रूपपदं व्याख्यायतेजं कट्ठकम्ममाई-सरू सहाणे तं भवे दव्वं / जीवाजीवविमुकं, विसरिसरूवं तु भावम्मि॥३२३॥ यत्काष्ठकमणि वा लेपकर्मणि वा पुरुषरूपं वा निर्मित तत् स्वस्थाने द्रव्यसागारिकं भवेत् / स्वस्थानं नाम नि