________________ वसहि ९५२-अभिधानराजेन्द्रः - भाग 6 वसहि अष्टम भङ्ग मुक्त्वा शेषेषु सप्तस्याऽपि भङ्गेषु यतन्ते यतनां कुर्वन्ति। चरिमे वि होइ जयणा, वसंति आउत्तउवहिणो निचं / दक्खे य वसहिपाले, ठवंति थेरा पुणित्थीसु / / 5 / / चरमेऽप्यष्टमे भङ्गे अच्छिन्नकलिका अनियता अनिर्दिष्टा चेत्येवंलक्षणे आगाढे कारणे तिष्ठतां भवति यतना। कथमित्याह-नित्यमायुक्तोपधयो वसन्ति, उपधौ आयुक्ताः सावधाना आयुक्तोपधयः राजदन्तादेराकृतिगणत्वाद् व्यत्यासेन पूर्वपरनिपातः। मागोमयादिना कोऽप्युपधिगण्ठं मे प्राभृतिकाकरणव्याजेनापहरेदिति सम्यगुपधिविषयमवधानं ददतीत्यर्थः / दक्षांश्च वसतिपालान् स्थापयन्ति / यदि च तत्प्रायतिकाकारिणः पुरुषा न स्त्रियस्तत-स्तरुणा वसतिपाताः स्थापयितव्याः 'थेरा पुणित्थीसु' त्ति यदि स्त्रियस्ततो ये स्थविरा:-परिपाकप्राप्तब्रह्मचर्यास्ते वसतौ स्थापनीया इति / गतं प्राभृतिकाद्वारम् / बृ०१ उ०२ प्रका जे भिक्खू सपाहुहिडं सेलं अणुपविसइ अणुपविसंतं वा साइजइ॥६॥ जम्मि वसहीए ठियाणं कम्मपाहुडियाणं भवति सा सपाहुडिया छावणलेवणादिकरणमित्यर्थः / नि० चू०५ उ०। (17) तथाविधकार्यवशाचरककार्पटिकादिभिः सह संवासे विधिमाहसे भिक्खू वा मिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा खुड्डियाओ खुडदुवारियाओ णिययाओ संनिरुद्धियाओ भवंति तहप्पगारे उवस्सए राओ वा वियाले वा णिक्खममाणे वा पविसमाणे वा पुरा हत्थेण पच्छा पाएण ततो संजतामेव णिक्खमेज वा पविसेज वा,केवली बूया-आयाणमेयं जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तएवा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चिलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मच्छेदणए वा दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले। (सू०५८+) स भिक्षुर्यत् पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-क्षुद्रिका लघ्वयस्तथा क्षुद्रद्वारा नीचा उच्चस्त्वरहिताः सन्निरुद्धाः-गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्तितस्यांसाधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थापिनां चरकादीनामवकाशो दत्तो भवेत् तेषां वा पूर्वस्थितानां पश्चात् साधूनामुपाश्रयो दत्तो भवेत्। तत्र-(आचा०२ श्रु०१ चू०२ अ०३उ०।) रात्रौ न प्रविशेत्जत्थऽत्थमिए अणाउले, समविसमाइंमुणीऽहियासए। चरगा अदुवा वि भेरवा, अदुवा तत्थ सरीसिवा सिया ||14|| तथा भिक्षुर्यत्रैवास्तमुपौत सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, यथाऽनाकुलः-समुद्रवन्नकादिभिः परिषहोपसर्गरक्षुभ्यन् समविषमाणि-शयनासनादीन्यनुकूलप्रतिकूलानि मुनिः यथावस्थिसंसारस्वभाववेत्ता सम्यग् अरक्तद्विष्टतयाऽधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीतिचरकादंशमशकादयः,अथवाऽपि-भैरवाभयानका रक्ष शिवादयः, अथवा-तत्र सरीसृपाः स्युः-भवेयुः, तत्कृतांश्च परीष-हान् सम्यक् अधिसहेतेति॥१४॥ सूत्र०१ श्रु०२ अ०२उ०। रात्रौ वसतौ गमनविधिमाहभिक्खू य राओ वा वियाले वा णिक्खममाणे वा पविसमाणे वा पयलेज वा पवडेज वा से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा पायं वा जाव इंदियवायं वा लूसेज वा पाणाणि वा०४ अमिहणेन्ज, जाव ववरोवेज वा अह मिक्खूणं पुटवोवदिहा०४ जं तहप्पगारे उवस्सए पुरा हत्थेणं पच्छा पायेणं ततो संजयामेव णिक्खमेज वा पविसेज वा। (सू०-८८) तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा, यथा चरकाधुपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यम्, शेष कण्ठ्यं नवरं चिलिमिलिः यमनिका चर्मकोशः-पार्णित्रं खल्लकादिः। आचा०२ श्रु०१ चू०२ अ०३ उ०। (रात्री वसतिप्रवेशे आहारकल्पना 'राइभोयण' शब्दे अस्मिन्नेव भागे 537 पृष्ठे उक्ता।) (वसतिमधिकृत्य भोजनविधिः 'गोयरचरिया' शब्दे तृतीयभागे 1003 पृष्ठे गतः।) इदानीं वसतियाञ्चाविधिमधिकृत्याह-- से आगंतागारेसु वा अणुवीय उवस्सयं जाइजा जे तत्थ ईसरे जे तत्थ समहिट्ठाए ते उवस्सयं अणुण्णविज्जा काम खलु आउसो ! अहालंदं अहापरिन्नातं वसिस्सामोजाव आउसंतो० जाव आउसंतस्स उवस्सते जाव साहम्मियाइंततो उवस्सय गिहिस्सामो तेण परं विहरिस्सामो। (सू०-८६) स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च किंभूतोऽयं प्रतिश्रयः? कश्चात्रेश्वरः? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्रेश्वरो गृहस्वामी यो वा तत्र समधिष्ठाता-प्रभुर्नियुक्तस्तानुपाश्रयमनुज्ञापयेत्। तद्यथा-कामम्, तवेच्छया आयुष्मन् ! त्वया यथा परिज्ञा प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयात् यथा-कियत्कालं भवतामत्रावस्थानमित्येवं गृहस्थेन पृष्टः साधुर्वसति-प्रत्युपेक्षक एतद् ब्रूयात, यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति / एवमुक्तः कदाचित्परो ब्रूयान्तावन्तं कालं ममाऽत्रावस्थानं वसतिर्वा, तत्र साधुः तथा भूतकारणसद्भावे एवं ब्रूयात्-यावत्कालमिहायुष्मन्तआसते, यावद्वा-भवत उपाश्रयः तावत्कालमेवोपाश्रयं ग्रहीष्यामस्ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः / साधुप्रमाणप्रश्ने चोत्तरं दद्यात्, यथासमुद्रसंस्थानीयासूरयोनास्तिपरिमाणम्, यतस्तत्रकार्यार्थिनः केचनागच्छन्ति