________________ वसहि 181- अभिधानराजेन्द्रः - भाग 6 वसहि यन्ति तदा अवष्वष्कणं भवति / अथ साधवः स्वाध्यायं कुर्वाणास्तदानीं मण्डल्यामुपविष्टाः सन्ति, ततश्चिन्तयन्तिउत्तिष्ठन्तु तावदमी पठित्वा, ततः पश्चातप्रमार्जयिष्याम इति विचिन्त्य तथैव यदि कुर्वते तदा अभिष्वष्कणं भवति / एवमेवावष्वष्कणमभिष्वष्कणं च सर्वत्र घर्षणोपलेपनादावपि भावनीयम्। सा पुनः सूक्ष्मप्राभृतिका द्विविधाछिन्नमछिन्ना काले, पुणो य नियया य अनियया चेव / निद्दिमनिविद्या, पाहुडिया अट्ठ भङ्गाउ॥८४६|| काले-कालतः छिन्ना अच्छिन्ना वा; छिन्नकालिका अच्छिन्नकालिका चेत्यर्थः, यस्यामुपलेपनादिच्छिन्ने प्रतिनियते मासादौ काले क्रियतेसा छिन्नकालिका। यातुयदा तदा वा क्रियतेसा अच्छिन्नकालिका पुनरेकैका द्विधा नियता अनियता चैव / नियता नाम-या पूर्वाह्लादावेव वेलायाम् अवश्यमेव वा क्रियते। विपरीता-अनियता-पुनरेकैका द्विविधा-निर्दिष्टा, अनिर्दिष्टा च / तत्र यः प्राभृतिकाकारकः स निर्दिष्टः इन्द्रदत्तादिनाम्नोपलक्षितः तेन क्रियमाणा प्राभृतिकाऽपि निर्दिष्टा / तद्विपरिता अनिर्दिष्टा। अत्र च त्रिभिः पदैरष्टौ भङ्गा भवन्ति। तद्यथा-छिन्नकालिका नियता निर्दिष्टा, छिन्नकालिका अनियता अनिर्दिष्टा इत्यादि। अथ छिन्नकालिका व्याख्यानयतिमासे पक्खे व दसरा-तए य पणएगदिवसे य / वाघाइम-पाहुडिया, होइ पवाया निवाया य॥५४७|| या प्राभृतिका मासे-मासस्यान्ते-पक्षे पक्षस्यान्ते दशरात्रे दशानामहोरात्राणां पर्यन्ते पञ्चके-पञ्चरात्रिंदिवान्ते एकदिवसे एकान्तरिते दिने चशब्दान्निरन्तरं दिने दिने इत्यर्थः / एवं प्रतिनियते काले या क्रियते सा छिन्नकालिका, या तु पक्षस्य कस्मिंश्विदिवसे विधीयते सा अच्छिन्नकलिकेति। व्याघातिमप्राभृतिका नाम या सूत्रार्थपौरुषीवेलायां क्रियते सा भवति प्रवाता, निवाता चेति / प्रवाता नाम या ग्रीष्मकाले अपराहे उपलेपनादिकरणेन धर्म नाशयति। यातु शीतकाले पूर्वाह्न उपलेपनकरणेन रात्रौ व्यपगत-शीतेह जायते सा निवाता भण्यते। अथ कस्यां प्राभृतिकायां वस्तुं कल्पते कस्यां च नेत्यत आहपुटवण्हे अवरण्हे, सूरम्मि अणुग्गए व अत्थमिए। मज्झन्तिएव वसही, सेसं कालं पडिकुट्ठा // 548|| पूर्वाह्न अनुद्गते सूर्ये अपराहो-अस्तमितेमध्याह्ने था-मध्या-हवेलायां सूत्रार्थपौरुष्यामनुत्थितेषु इत्यर्थ एतेषु कालेषु यस्यां प्राभृतिका क्रियते सा वसतिरनुज्ञाता सूत्रार्थव्याघाताभावात् 'सेसं कालं' ति सप्तम्यर्थे द्वितीया। शेषे उद्गतसूर्यादी कालेयस्यां प्राभृतिका विधीयते सा प्रतिकुष्टा न कल्पते तस्यां वस्तुम, सूत्रार्थव्याघातसंभवात्। अथ निर्दिष्टानिर्दिष्टप्राभृतिके भावयति पुरिसजाओ अमुगो,पाहुडियाकारओ उनिदिहा। सेसा उ अनिहिट्ठा, पाहुडिया होइनायव्वा // 4 // अमुकः-पुरुषो जातः-पुरुषकारः प्रभृतिकाकारक इन्द्रदत्तादिनाम्ना यस्यां निर्दिष्टः, सा निर्दिष्टा, शेषा तु सर्वाऽप्यनिर्दिष्टा प्राभृतिका भवतिज्ञातव्या। अथ पूर्वोक्तं भङ्गाष्टकविषयं विधिमाहकाऊण मासकप्पं, वपंति जा कीरई उमासस्स। साखलु निवाघाया, तं वेलारेण निंताणं // 850|| इह प्रथम भङ्गे या मासस्यान्ते क्रिया इति कृत्वा छिन्नकालिका, तत्राप्यपराल एव विधीयमानत्वान्नियता अमुकपुरुषकर्तृत्वेन च निर्दिष्टा / तस्यां कृतायां प्रथमतः प्रविष्टास्ततो मासकल्पं कृत्वा यदि व्रजन्ति, कथमित्याह- 'तंवेलारेण निताणं' ति तस्याः प्राभृतिकाकरणवेलाया अर्वाक् निर्गच्छतां सा प्राभृतिका नियाघाता मन्तव्या सूत्रार्थध्याघाताभावात्, कल्पते तस्यां वस्तुमिति भावः। शेषा द्वितीयादयो भङ्गाः क्वापि कथंचित् सव्याघाता इति कृत्वा तेषु न कल्पते। अथ प्रवातानिवातेति च पदद्वयं भावयतिअवरण्हें गिम्हकरणे, पवार्यों सा जेण नासई घम्म / पुटवण्हे जा सिसिरे, निव्वाय निव्वाय सा रत्तिं // 851 // ग्रीष्मे अपराहे यदुपलेपनस्य करणं सा प्रवाता कुत इत्याह-येन सा रात्रौ नाशयति-व्यपनयति धर्म ग्रीष्मर्तुसंभावनायाम् / या शिशिरे-- शीतकाले पूर्वाह्न उपलेपनकरणेन दिवसस्य चतुर्भिः प्रहारैर्निवाताशुष्का इत्यर्थः सा रात्रौ निवाता भवति। एतयोः कारणतोऽवस्थातुं कल्पत इति। अथ नियाघातिमा भङ्गयन्तरेणाहपुटवण्हेऽपट्टविए, अवरण्हे उठ्ठिएसुय पसत्था। मज्झण्हनिम्गएसुय, मंडलिसुतपेहवाघाया ॥८५सा या पूर्वाहे अप्रस्थापितेसतिस्वाध्याये, अपराहे पुनः समुद्दिश्योत्थितेषु साधुषु, मध्याहेतु भिक्षापर्यटनार्थ विगतेषु या प्राभृतिका क्रियतेप्रशस्ता सा / कुत इत्याह- 'मंडलि सुयपेह' ति येन सूत्रमण्डल्यामुपकरणप्रेक्षणायाश्च ‘वाघाय' त्ति अकारप्रश्लेषादव्याघाता-न व्याघातविधायिनी, अत एषा प्रशस्ता प्ररूपिता / बादरा सूक्ष्मा च पश्चविधा प्राभृतिका एवंविधया सहितायां वसतौ न स्थातव्यम्। अथ नास्ति तथाविधा अप्राभृतिका वसतिः / ततः कारणतः सप्राभृतिकायामपि तिष्ठतां यतनामाहतं वेलसारवंती,पाहुडियाकारगं च पुच्छंति। मोत्तूण चरिमभंग, जयंति एमेव सेसेसं // 53 // यस्यां वेलायां प्राभृतिकाकारकं च पुरुषं पृच्छन्ति कस्यां वेलायां भवान सम्मार्जनादि करिष्यतीति एवं चरमम्