________________ वसहि 980- अभिधानराजेन्द्रः - भाग 6 वसहि (अस्या व्याख्या पाहुडिया' शब्दे पञ्चमभागे६१४ पृष्ठे गता।) ___ तत्र बादरां पञ्चविधामपि तावदाह'विद्धंसणछावणले वण, भूमिकम्मे पडुन पाहुडिया। उस्सकण अहिसक्कण, देसे सव्वे य नायव्वा॥३८॥ विध्वंसनं वसतेभञ्जनंछादनं-दर्भादिभिराच्छादनं लेपनं-कुड्यानां कर्दमेन गोभयेनचलेपप्रदानं भूमिकर्म-समविषमाया भूमेः परिकर्मणम्, 'पडुच' त्ति प्रतीत्य करणं--त्रिशालगृहं कर्तुकामः साधून्प्रतीत्य चतुःशालं करोति, आत्मीयं वा गृहं साधूनां दत्त्वा आत्मार्थमपरं कारयतीत्यादि। एषा पञ्चविधाऽपि बादरप्राभृतिका प्रत्येक द्विधा-अवष्वष्कणतः, अभिष्वष्कणतश्च / अवष्वष्कणं नाम विवक्षितविध्वंसनादिकालस्य ह्रासकरणमर्वाक्करणमित्यर्थः, अभिष्वकणं तस्यैव विवक्षितकालस्य संवद्धनंपरतः करण-मित्यर्थः। पुनरेकैके विध्वंसनादयो द्विधा-देशतः, सर्वतश्च ज्ञातव्याः। तत्रदेशतः सर्वतोवा विध्वंसनमभिष्वष्कणतो भाव्यते। केनचिद् गृहपतिना चिन्तितम् यथेदं गृहं ज्येष्ठमासे भक्त्वा ततोऽभिनवं करिष्याम इति, इतश्च ज्येष्ठमासे तत्र साधवो मास-कल्पेन स्थिताः ततोऽसौ चिन्तयतिअच्छंतु ताव समणा, गएसुमंतूण एत्थ काहामो। ओभासितेण संते, न एति जा भंतुणं कुणिमो // 536 / इदानीं तावदासताम्-तिष्ठन्तु श्रमणाः / गतेषु पश्चादाषाढमासे भड्क्त्वा करिष्याम इत्येतदभिष्वष्कणम् / अथावष्वष्कणमाह-'ओभासिएण' इत्यादि, क्षेत्रप्रत्युपेक्षकैरवभाषिते प्रदत्ते चोपाश्रये सतिगृहपतिश्चिन्तयति ज्येष्ठमासे तावदत्र साधवः स्थास्यन्तेततो यावत्ते नागच्छन्तितावद्वैशाखे मासे भक्त्वा कुर्म इति, एतदवष्वष्कणम्। भाविते विध्वंसनपदम्। अथछादनादीन्यतिदिशन्नाहएसो व कमो नियमा, छज्जे लेवे य भूमिकम्मे य। तेसाल-चाउसालं, पडुच करणं जई निस्सा ||4|| एष वा अवष्वष्कणतश्च क्रमो नियमात् मन्तव्यः, व इत्याह-'छज्जे' छादने लेपे-लिम्पने भूमिकर्मणि च / तिष्ठन्तु तावदिदानीं श्रमणाः, पश्चागतेषु सत्सु गृहं छादयिष्यामो भूमिं वा परिकर्मयिष्याम इति, एतदभिष्वष्कणम् / एतान्येव छादनादीनियद्यनागतमेव करोति तदा चावष्वष्कणं भाव्यते। तेसाल' इत्यादि, त्रिशालं गृहं कर्तुकामोयतीनां निश्रया तान् प्रतीत्येति भावः चतुःशालं यत्करो ति तत्प्रतीत्य कारणमुच्यते। वैशाखमासि स्नानादिकं जिनचैत्येषु भाविताः, ततस्ते चिन्तयन्ति अनागतमेव गृहं कुर्मो येन तत्र साधवो वैशाखमासिम्नानादिषु समये हि स्थास्यन्ति एवं साधून प्रतीत्य कालमवष्वष्कयेयुः एतदवष्वष्कणतः प्रतीत्य करणमुक्तम्। ___अथाभिष्वष्कणतस्तदेवाहएमेव य पहाणाइसु, सीयलकज्जऽg कोइ उस्सक्को। मंगलबुडी सो पुण, गएसु तहि यं वसिउकामो॥५२॥ एवमेवावष्वष्कणवत्कोऽपि श्राव शीतकाले गृहं कर्तुकामश्चिन्तयतिवैशाखमासि स्नानं रथयात्रा चेह भविष्यति, तत्र च साधवः- समागमिष्यन्ति, तच तदानीमेव यत्कृतं नवगृहं शीतलं भवति / शीतले च तस्मिन् साधवः सुखमाशिष्यन्ते; अतः स्नानादिप्रत्यासन्न एव समये करिष्यामीति साधून प्रतीत्य स्नानादिषु शीतलकायार्थ यत्कोऽप्यवष्वष्कते एतदभिष्वष्कणतः प्रतीत्य करणा, सपुनरवष्वष्कणमभिष्वष्कणं वा मंगलबुद्ध्या करोति, यथा--पूर्व साधवो मदीयं नवगृहं यदि परिभुञ्जते ततः पवित्रं भवतीति, गतेषु च तेषु तत्र नवगृहे स्वयमेव वस्तुकाम इति। अथात्रैव प्रायश्चित्तमाहसव्वम्मि उचउलहुया, देसम्मी वायराऍ लहुओउ। सव्वम्मि मासियं खलु, देसे भिन्ने य सुहुमाए।।८४३।। बादरायां प्राभृतिकायामनन्तरोक्तायामेव सर्वतः करिष्यमाणायां कृतायां वा तिष्ठति चत्वारो लघवः / देशतः करिष्यमाणायां कृतायां वा तिष्ठतिमासलघु। सूक्ष्मायां वा प्राभृतिकायां वक्ष्यमाणयां भवति विधास्यमानायां विहितायां वा तिष्ठति मासलघु। देशतस्तस्यामेव भिन्नमासः। सा पुनः सूक्ष्मप्राभृतिका पञ्चविधा। तामेवाहसंमञ्जणावरिसणा, उवलेवणसुहुमदीवए चेव। उस्सकणाहिसकण-देसे सव्वे य नायव्वा // 4 // संमार्जन बहुरिकया प्रमार्जनम् आवर्षणम् उदकेन छटकप्रदानम्, उपलेपनं--छगणमृत्तिकया भूमिकाया लेपनम् / 'सुहमे' त्ति सूक्ष्माणि समयभाषया पुष्पाण्युच्यन्ते। तथा च दशवैकालिकनियुक्तौ पुष्पाणामेकार्थिकानि- ''पुप्फा य कुसुमा चेव, फुल्ला य कुसुमादि य। सुमणा चेय सुहुमा य, सुहुमाकाइया वि य // 1 // " ततश्च पुष्याणां प्रकररचनेत्यर्थः / "दीवएचेव" ति दीपकप्रज्वालनम्। एतानि पूर्वमात्मार्थं क्रियमाणान्येव विद्यन्ते, नवरं साधून प्रतीत्य देशतः सर्वतो वा यदवष्वष्कणमभिष्वष्कणं वा क्रियते सा सूक्ष्मप्राभृतिका ज्ञातव्या। अथास्या एवावष्वष्कणाभिष्वष्कणे भावयतिजाव न मंडलिवेला, ताव पवजामों होइ उस्सक्का। उतुताव पढिलं,उस्सक्कण एव सव्वत्थ।।८५५|| यावन्मण्डलीवेला स्वाध्यायमण्डलीकालो नोपढौ क ते तावत्प्रमार्जयाम इत्येवं विचिन्त्यानागतमेव यदि प्रमार्ज अथवा पुटवघरं दाऊण व, जईण अन्नं करिति समाए। काउमणा वा अन्नं, हाणाइसु कालमोसक्के // 541|| पूर्वगृहं स्वार्थ पूर्वकृतं यद् ग्रहीतव्यं यतीनां दत्त्वा वाशब्दः प्रकारान्तरतायां स्वार्थमन्यदभिनवं यदगारिणां कुवन्ति तदा प्रतीत्य करणम्। अथवा--केऽपिश्राद्धाः स्वार्थमन्यद् गृहं ज्येष्ठमासे कर्तुमनसः परं तत्र