________________ वसहि 676 - अभिधानराजेन्द्रः - भाग 6 वसहि काश्चत्वारो गुरवः। दर्शन-दर्शनप्रत्यपाये चत्वारो लघवः। आज्ञादयश्चआज्ञाभङ्गादयो विराधना एकैकपदात् भवन्ति-ज्ञातव्याः। द्विविधकरणोपघातादिषु सर्वेष्वपि पदेषु यथायोगमाज्ञाभङ्गादयो विराधना सप्रायश्चित्ता योजनीया इत्यर्थः। अथ के ब्रह्मप्रत्यपाया, आत्मप्रत्यपाया, दर्शनप्रत्यपाया वा?, तत आहतिरियमणुयित्थियातो, बंभावातो उतिविहपडिमातो। अहिविलचलंतकुड्डा-दिएवमादी उ आयाए||५६७|| आगाढमिच्छदिट्ठी, सव्वातिहि-मरुगबहुजणवाणे। पासंडाय बहुविहा, एसा खलु दंसणावाया / / 568|| यत्र तिर्यकस्त्रियो मनुष्यस्त्रियो वा, यदि वा-यत्र त्रिविधा प्रतिमातिर्यक्स्त्रीप्रतिमा मनुष्यस्त्रीप्रतिमा देवस्त्रीप्रतिमा वा सा ब्रह्मप्रत्यपाया। तस्यां स्थितानां ब्रह्मव्रतविनाशसंभवात्। यत्र पुनरहि-विलानिचलन्तिचलानि कुड्यानि आदिशब्दाच्चलवेलीधारणादिपरिग्रहः, एवमादिका आत्मनि, आत्मप्रत्यपाया। तथा यत्रागा-दमिथ्यादृष्टियत्र च सर्वेऽतिथयः समागच्छन्ति सर्वमित्यर्थः, यत्र मरुकावटुकास्तिष्ठन्ति वटुशाला इति भावः, यच्च बहूनामागन्तुकानां जनानां स्थानं वैदेशिककुटीत्यर्थः, यत्र बहुविधाः पाषण्डाः-एवंरूपा वसतिः खलु दर्शनापाया दर्शनप्रत्यपाया। संप्रति शय्याविधिद्वारमाहकालातिकंता वा, ठाण अभिकंतअणमिकता य। वज्जा य महावज्जा, सावज महप्पकिरिया य॥५९ll शय्या नवप्रकारा भवन्ति, तद्यथा-कालातिक्रान्ता 1 उपस्थापना 2 अभिक्रान्ता 3 अनभिक्रान्ता 4 वा 5 महावा 6 सावद्या७ महासावद्या८अल्पक्रियाहच। तत्र कालातिक्रान्तादिषु प्रायश्चित्तविधिमाहकालातीते लहुगो,चउरो लहुगा य चउसु ठाणेसुं। गुरुगा तिसु जमलपया, अप्पकिरियाएँ शुद्धो उ।।६००।। ऋतुबद्धे काले कालातिक्रान्ते तिष्ठति मासलघु, वर्षाकाले चत्वारो लघवः, चतुषु स्थानेषु उपस्थानायामभिक्रान्तायामनभिक्रान्तायां वायां चेत्यर्थः तिष्ठतः प्रत्येकं चत्वारो लघुकाः, तथा-त्रिषु स्थानेषु महावयायां सावद्यायां महासावद्यायां चेत्यर्थः प्रत्येक चत्वारो गुरवः / परं तपः-- कालविशेषिताः, तद्यथा-महावायां चत्वारो गुरुकाः तपोगुरवः, सावद्यायां तपोगुरवः महासावद्यायांतपसा कालेन च गुरवः / 'जमलपया' इति तपः कालयोः संज्ञा / ततोऽयमर्थः / त्रिषु स्थानेषु गुरुका यमलपदा-यमलपदवन्तस्तपः कालविशेषिता द्रष्टव्याः / अल्पक्रियायां तु तिष्ठन् शुद्धः। सांप्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानम-- भिधित्सुराहउदुवासा समतीता, कालातीया उसाभवे सेजा। सव्वे च उवट्ठाणा,दुगुणादुगुणं अवजेत्ता॥६०१।। ऋतुबद्ध काले वर्षाकाले च यत्र स्थितास्तस्याभृतुबद्धे काले मासे पूर्णे वर्षाकाले चतुर्मासे पूणे-यत्र तिष्ठति सा कालातिक्रान्ता वसतिः / 'सव्वे' त्यादि, या कालमर्यादाऽवन्तरमुक्ता ऋतुबद्धे मासे वर्षासुचत्वारो मासा इति। तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः समागत्य तिष्ठन्ति सा उपस्थाना। किमुक्तं भवति ऋतुबक्काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहत्य यदि पुनरागच्छन्ति तस्यां वसतौ ततः सा उपस्थाना भवति। उप-सामीप्येन स्थानमवस्थानं यस्यां सा उपस्थानेति व्युत्पत्तेः, अन्ये पुनरिदमा-चक्षते-यस्यां वसतौ वर्षावासं स्थिताः तस्यां द्वौ वर्षारात्रावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना भवति / अर्वाक् तिष्ठतां पुनरुपस्थापना। जावंतिया उसेज्जा, अन्नेहिं सेविया अभिकंता। अन्नेहि अपरिभुत्ता, अणमिकता उपविसेया॥६०२।। शय्या--आचाण्डालेभ्यो यावन्तिकी, सा यदाऽन्यैश्चरकादिभिः पाषण्डस्थैर्गृहस्थैर्वा निषेविता, पश्चात् संयतास्तिष्ठन्ति सा अभिक्रान्ता, सैव यावन्तिकी अन्यैः पाषण्डस्थैर्गृहस्थैर्वा अपरिभुक्ता तस्यां यदि संयताः प्रविशन्ति, ततः सा अनभिक्रान्ता। अत्तऽट्ठ कडं दाउं, जतीण अन्नं करेंति वजाउ। जम्हा तं पुव्वकयं, वजेंति ततो भवे वजा / / 603 / / आत्मार्थकृतां वसतियतिभ्यो दत्त्वा पुनरन्यामात्मार्थ कुर्वन्ति यदिततः सा यतिभ्यो दत्ता वा भवति / कया व्युत्पत्त्येत्यत आह-यस्मात्तां पूर्वकृतां वसतिं गृहस्था वर्जयन्ति यतिभ्यः किल दतत्वात्, ततो वय॑ते इति वा भवति सा पूर्वकृतेति। पासंडकारणा खलु, आरम्भो अभिणवो महावज्जा। समणऽट्ठा सावज्जा, महासावज्जा उसाहूणं // 604 // यत्र बहूना श्रमणब्राह्मणप्रभृतीनां पाषण्डिनां कारणात्कारणेन खल्वारम्भोऽभिनवः क्रियते सा महावा / श्रमणार्थापञ्चानां श्रमणानामर्थाय कृता सावद्या / या पुनरमीषामेव साधूनामर्थाय कृता सा महासावद्या। बृ०१ उ०१ प्रक०। (अल्पक्रियास्वरूपम् 'अप्पकिरिया' शब्दे प्रथमभागे 612 पृष्ठे व्याख्यातम्।) (16) साम्प्रतं कालतिक्रान्तवसतिदोषमाहसे आगंतागारेसु वा०५ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवायणित्ता तत्थेव भुजो संवसंति अयमाउसो ! कालातिकतकिरियाऽवि भवति। (सू०-७८४) तेष्वागन्तागारादिषु ये भगवन्त ऋतुबद्धमिति शीतोष्णकालयोसिकल्पमुपनीय अतिबाह्य वर्षासु वा चतुरोमासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासत अयमायुष्मन् ! कालातिक्रमदोषः संभवति। तथाच स्त्र्यादिप्रतिबन्धस्नेहादुद्गमादिदोषसंभवा वेत्यतस्तथा स्थानं न कल्पत इति। (उपस्थानदोषाः 'कालाइक्कतकिरिया' शब्दे तृतीयभागे 464 पृष्ठे गताः) ___ अथ प्राभृतिकद्वारं बिभावयिषुराहपाहुडिया वि य दुविहा, बायर-सुहुमा य होइ नायव्वा / एकेका वि य एत्तो, पंचविहा होइनायव्वा / / 837||