SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ वसहि 677 - अमिधानराजेन्द्रः - भाग 6 वसहि भाववचनः, ततोऽण्डरहितेषु प्राणरहितेषु इत्यादि मन्तव्यम् / आह'सवणमायाए' त्ति अधः श्रवणमात्रया श्रवणयोरधस्ताद्यत्रछ्देन तृणादीनि भवन्ति, तथाप्रकारे उपाश्रये नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेषु वस्तुम्। अष्टावृतुबद्धमासानित्यर्थः। एवं प्रतिषेधसूत्रमभिधाय प्रपञ्चितज्ञविनेयानुग्रहार्थं विधिसूत्रमाह-अथ तृणे वा यावदल्पसंतानकेषु उपरि श्रवणमात्रया युक्तेषु तथा-विधोपाश्रयेषु कल्पते हेमन्तग्रीष्मेषु वस्तुम् / एवमृतुबद्धसूत्रद्वयं व्याख्यातम्।। अथ वर्षावाससूत्रद्वयं व्याख्यायते-अथ तृणेषु वा तृणपुञ्जेषुवा यावदल्पसंतानकेषु अधोरयणि मुक्कमउडेसुत्ति। अञ्जलिमुकुलितंबाहुद्भयमुच्छ्रितं मुकुट उच्यते, सच हस्तद्वय-प्रमाणः / यदाह-बृहद्भाष्यकृत्- 'मउडो पुण दोरयणी, पमाणतो हों इ मुणेयव्वो' रत्निभ्यां हस्ताभ्यां मुक्ताभ्यां यो निर्मितो मुकुटः स रत्निमुक्तमुकुटः। एतावत्प्रमाणमधस्तादुपरिचयत्रान्तरालं न प्राप्यते तेष्वधोरत्निमुक्तमुकुटेषु तृणादिषु न कल्पते वर्षावासे वस्तुम्, अथ तृणेषुवा यावदल्पसन्तानके उपरि रत्निमुक्तमुकुटेषु यथोक्तप्रमाणेषु मुकुटोपरिवर्तिषु संस्तारके निविष्टस्य साधोरर्द्धतृतीयहस्ताद्यपान्तरालयुक्तष्वित्यर्थः। ईदृश्यां वसतौ कल्पते वर्षावासे वस्तुमिति। सूत्रचतुष्टयार्थः। अथ भाष्यकारः प्रथमसूत्रं विवरीषुराहतणगहणा रण्णतणा, सामागादी उसूइया सव्दे / सालीमाति पलाला, पुंजा पुण मंडवेसु कता // 760 / / तृणग्रहणादारण्यकानि श्यामाकादीनि सर्वाण्यपि तृणानि सूचितानि, पलालग्रहणेन शाल्यादीनि पलालानि गृहीतानि, पुजाः पुनस्तृणानां पलालानां वोपरिमण्डपेषु कृता भवन्ति। येषु हि देशेषुस्वल्पानि तृणानि तेषु पुञ्जरूपतया तानि मण्डपेषु संगृह्यन्त। अधस्ताद्भूमौ स्थापितानि मा विनश्येयुरिति कृत्वा। पुंजा उ जहिं देसे, अप्पप्पाणा य हॉति एमादी। अप्प तिग पंच सत्त य, एएणं वुचती सुत्तं // 761 / / एवं यत्र देशे मण्डपेषु पुजीकृता भवन्ति तत्र विवक्षितायां वसतौ ते पुजा अल्पप्राणा अल्पबीजा एवमादिविशेषेण युक्ता भवेयुः / अत्र कस्याप्येवं बुद्धिः स्यात् / अल्पाः प्राणास्त्रयः पञ्च सप्त वा मन्तव्याः। अत आह-नैतेन परोक्तेनाभिचयेण सूत्रं व्रजति, किं तर्हि अल्पशब्दोऽत्राभाववाचको द्रष्टव्यः। प्राणादयस्तेषु न सन्तीति भावः। अत्र परः चहवत्तवा उ अपाणा, वंधणुलोमेणिमं कयं सुत्तं / पाणादिमादिएK,वंते सट्ठाणपच्छित्तं // 762 / / यद्यभावार्थोऽल्पशब्दस्तत एवं सूत्रालापकाः वक्तव्याः- "अप्पाणेसु अबीएसु अहरिएसु" इत्यादि।गुरुराह-बन्धानुलोम्येनेत्थं सूत्रं कृतम्। 'अप्पपाणेसु' इत्यादि / एवंविधो हि पाठः सुललितः--सुखेनैवोच्चरितुं शक्यते। यदि पुनः द्वे त्रयः पञ्च वा द्वीन्द्रियादयः प्राणिन आदिशब्दात्अण्डादीनि वा यत्र भवन्ति तत्र तिष्ठन्ति; ततस्तेषां विराधनायां स्वस्था नप्रायश्चित्तं द्रष्टव्यम्। कथं पुनरल्पशब्दोऽभावे वर्तते, अत आहथोवम्मि अभावम्मिय, विणिओगो होति अप्पसहस्स। थोवे उ अप्पमाणे, अप्पासी अप्पनिहोय॥७६३|| स्तोके अभावे च अल्पशब्दस्य विनियोगो-व्यापारो भवति, तत्र स्तोकार्थवाचको यथा-अल्पमानः अल्पासी अल्पनिद्रोऽयम्। अभाववाचको यथानिस्सत्तस्स उ लोए, अमिहाणं होइ अप्पसत्तो त्ति। लोउत्तरे विसेसो,अप्पाहारा तुअर्टेजा // 764 // यः किल निःसत्त्वः पुरुषस्तस्य लोके अल्पसत्त्वोऽयमित्यभिधानं भवति, लोकोत्तरेऽप्ययं विशेषः समस्ति, यथा-अल्पाहारो भवेत, अल्पवत्त्वग्वर्तयेत्। अभावे दृश्यते यथा-अल्पातङ्कः-नीरोग इत्यर्थः। अथ बीजादियुक्तेषु तिष्ठतां प्रायश्चित्तमाह-- बियमट्टियासु लहुया, हरिए लहुगा व होति गुरुगावा। पाणुत्तिंगदएसुं, लहुगा पणए गुरू चउरो // 765|| बीजमृत्तिकायुक्तेषु तृणेषु तिष्ठतां चतुर्लधु, हरितेषु प्रत्येकेषु चतुर्लघु, अनन्तेषु चतुर्गुरु, प्राणेषु द्वीन्द्रियादिषु उत्तिङ्गोदकयोश्चतुर्लघु, पनके चतुर्गुरवः / उक्तः सूत्रार्थः। अथ नियुक्तिविस्तरःसवणपमाणा वसही, अघिट्टते चउलहुंच आणादी। मिच्छअवाउडपडिले-हया यसाणा य बाले य 766| श्रवणप्रमाणा वसतिः, कर्णयोरधस्तात् तृणादियुक्ता या भवति, तस्यामधः श्रवणमात्रयां तिष्ठतश्चतुर्लधु, आज्ञादयश्च दोषाः, मिथ्यात्वं च भवति। कथमिति चेदित्याह-येषां साधूनां सागारिकमपावृतं वैक्रिय वा तान् प्रविशतो दृष्ट्वा लोको ब्रूयात्, अहो हीप्रच्छादनमपि तीर्थकरेण नानुज्ञातम्, लज्जामयश्च पुरुष-स्त्रियोर-लङ्कारः। स नूनमसर्वज्ञ एवासौ, एवं मिथ्यात्वगमनं भवेत्। 'पडिलेह' ति उपर्युत्प्रेक्षिते शीर्षमास्फुटति। तत्र प्राणविराधना-निष्पन्नम्, अवनतानां च प्रविशतां निर्गच्छता वा कटी पृष्ठं वा वातेन गृह्यते। अवनतस्य च प्रविशतः सागारिकं लम्बमानं पृष्ठतः श्वानो मार्जारो वा त्रोटयेत् 'बाले यत्ति उपरिशीर्षे आस्फिटिते सो वृश्चिको वा दशेत्। यत एते दोषाः अतोऽधः--श्रवणमात्रायां वसतौ, नस्थातव्यम्। द्वितीयपदे तिष्ठेयुरपिसवणपमाणा वसही, खेत्ते ठायतें बाहि वोसग्गो। पाणादिमादिएसं.वित्थिनाऽऽगाउजतणाए।।७६७॥ पुरेषु क्षेत्रेष्वशिवादीनि भवेयुस्ततः क्षेत्राभावे अधः श्रवणमात्रायामप्यल्पप्राणादियुक्तायां तिष्ठतामियं यतना। वसतेर्बहिरावश्यकं कुर्वन्ति। अन्योऽपि यो व्युत्सर्गः कायोत्सर्गः स बहिष्क्रियते। द्वितीयपदे स प्राणेषु आदिशब्दाद्-बीजादिष्वपि वसतौ विद्यमानेषु पुनस्तत्र यतनया वि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy