________________ पुणाइ 661 - अभिधानराजेन्द्रः - भाग 5 पुण्ण वतः। इति के वलस्यापि दृश्यत इति। पुणाइ। द्वितीयवारायाम्, प्रा० 1 पाद। * पुणुई स्त्री० गुच्छवनस्पतिभेदे, प्रज्ञा०१ पद। श्वपचे, दे० ना०६ वर्ग 38 गाथा। पुणो अव्य०(पुनर) स्वरूपावधारणे, नि० चू०२ उ०। विशेषणे, नि० चू० 3 उ०। वाक्यान्तरोपन्यासे, उत्त०३६ अ०। पूर्वस्माद् विशेषे, आचा० 1 श्रु० 4 अ०२ उ०। पुणोपुणो अव्य०(पुनःपुनर) बहुशः शब्दार्थे , सूत्र० १श्रु०५ अ०१ अ० / 'बहुसो त्ति वा भुजो त्ति वा पुणोधुणो त्ति वा एगट्ट।' नि०चू० 2 उ०। विषा०। पुणोभव पु०(पुनर्भव) पुनर्जन्मान्तरे, दश०८ अ०। पुणोय अव्य०(पुनश्च) पुनरपीत्यर्थे , प्रश्न०५ आश्र० द्वार। पुण्ण त्रि०(पूर्ण) भृते, भ०१श०६उ०। 'णईओ पुण्णाओ।"दश०७ अ०। आ०म०। समस्ते, उत्त०१२ अ०भ० / सूत्र० / सकलावयबयुक्ते, स्था० 4 ठा० 4 उ० / यत्स्वरकलाभिः परिपूर्ण गीयते तत्पूर्णम्। रा०। जी०। स्था०। स्वरकलाभिः सर्वाभिरवियुक्तं कुर्वतः पूर्णम्। अनु०। पूर्णाष्टकम्ऐन्द्रश्रीसुखमग्नेन, लीलालग्नमिवाखिलम्। सच्चिदानन्दपूर्णेन, पूर्ण जगदवेक्ष्यते / / 1 / / अथ पूर्णत्वं वस्तुनो निरूपयतिपूर्णता या परोपाधेः, सा याचितकमण्डनम्। या तु स्वाभाविकी सैव, जात्यरत्नविभानिभा॥२।। अवाप्तवी विराकल्पैः, स्यात् पूर्णताऽब्धेरिवोर्मिभिः। पूर्णाऽऽनन्दस्तु भगवांस्तिमितोदधिसन्निभः॥३॥ जागर्ति ज्ञानदृष्टिश्चेत्, तृष्णा कृष्णाहिजाङ्ग ली। पूर्णाऽऽनन्दस्य तत्किं स्यादैन्यवृश्चिकवेदना / / 4 / / पूर्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता / पूर्णाऽऽनन्दसुधास्निग्धा, दृष्टिरेषा मनीषिणाम्॥५।। अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते / पूर्णाऽऽनन्दस्वभावोऽयं, जगदद्भुतदायकः।।६।। परस्वत्वकृतोन्माथा, भूनाया न्यूनतेक्षिणः। स्वस्वत्वसुखपूर्णस्य, न्यूनता न हरेरपि / / 7 / / कृणे पक्षे परिक्षीणे, शुक्ले च समुदञ्चति / द्योतते सकलाध्यक्षा, पूर्णाऽऽनन्दविधोः कला ||8|| अष्ट १अष्ट। इक्षुवरसमुद्रदेषे, सू०प्र० 16 पाहु० / दाक्षिणात्यानां द्वीपकुमाराणामिन्द्रे, स्था० 4 ठा० 1 उ०। स०। * पुण्य न० / 'पुण' सुभे इति वचनात् पुणति शुभीकरोति, पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यम / शुभकर्मणि, 'उणाऽऽदयो बहुलम् / 3 / 3 / 1 / ' इति बाहुलकत्वादभावे क्यप् / उत्त० 5 अ0 1 शुभकर्मणि, स्था०। तच्च-सद्वद्याऽऽदिद्विचत्वारिंशद्विधम् / यथोक्तम्"सायं 1 उचागोयं 2, नर 3 तिरि 4 देवाउ५ नाम एया उ। मणुयदुर्ग 7 देवदुर्ग 6, पंचिदियजाइ १०तणुपणगं 15 / / 1 / / अगोवंगतियं पि य 18, संघयणं वज्जरिसहनारायं 10 / पढम चिय संटाणं, वन्नाइचउक्कसुपसत्थं 24 / / 2 / / अगुरुलहु 25 पराघाय 26, उस्सासं 27 आयवं च 28 उज्जोय 26 / सुपसत्था विहयगई 30, तसाइदसगं च 40 णिम्माण 41 / / 3 / / तित्थयरेण सहिया, वायाला पुन्नपगईओ।'' इति। एवं द्विचत्वारिंशद्विधमपि / अथवा-पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि। अथवा-प्रतिप्राणिविचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति / अथ कर्मव न विद्यते, प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति? असत्थमेतत् / यतोऽनुमानसिद्ध कर्म तथाहि- सुखदुःखानुभूतेर्हेतुरस्तिकार्यत्वादड्कुरस्यैव बीजं यसा हेतुत्वं तत्कर्म, तस्मादस्ति कर्मेति / स्यान्मतिः-सुखदुःखानुभूतेदृष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति किमिह कर्मपरिकल्पनया? न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवं व्यभिचारात् / इह यो हि द्वयोरिष्टशब्दाऽऽदिविषयसुखसाधनसमेतयोरेकस्य तत्कले विशेषो दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण संभाव्यते / न च तद्धेतुक एवासौ युक्तः साधनानां विपर्यासादिति, पारिशेष्याद्विशिष्ट हेतुमानसा कार्थत्वाद्घटवत्, यश्च समानसाधनसमेतग्रोस्तत्फलविशेषहेतुस्तत्कर्म, तस्मादस्ति कर्मेति / आह च-"जो तुलसाहणाणं, फले विसेसो न सो विणा हेउं / कज्जत्तणओ गोयम ! घडो च्व हेऊ य से कम्म॥१६६३॥" (विशे०) किं च - अन्यदेहपूर्वकमिदं बालशरीरम्, इन्द्रियाऽऽदिमत्त्वात्, यदिहेन्द्रियाऽऽदिमत्तदन्यदेहपूर्वक दृष्ट, यथा बालदेहपूर्वकं युवशरीरमिन्द्रियाऽऽदिमचेद बालशरीरक तस्मादन्यशरीरपूर्वक, यच्छरीरपूर्वक चेद बालशरीरक तत्कर्म, तस्मादस्ति कर्मेति। आह च- 'बालसरीरं देहतरपुव्वं इदियाइमत्ताओ। जह बालदेहपुवो, जुवदेहो पुव्यमिह कम्म // 1614 / / " (विशे०) ननु कर्मसद्भावेऽपि पापमेवैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु पुण्यफल सुखमुच्यते तत्पापस्यैव तरतमयोगादपकृष्टस्य फलं, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव तरतमयोगापकर्षभिन्नस्य मात्रा परिवृद्धिहान्या यावत् प्रकृष्टापकर्षस्तत्र या काचित् पापमात्रा अव तिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्तस्यैव पापस्य सर्वाऽऽत्मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याऽऽहारसेवनादनारोग्यं तस्यैवापथ्यस्य किशित्किञ्चिदपकर्षाद्यावत् स्तोकापथ्याऽऽहारत्वमारोग्यकर सर्वाऽऽहारपरित्यागाच्च प्राणमोक्ष इति। आह च"पावुक्करिसेऽधमया, तरतमजोगावकरिसवो सुभया / तरसेव खए मोक्खो, अपत्थभत्तोवमाणाओ / / 1610 // ' (विशे०) अत्रोच्यतेयदुक्तमत्यन्तापचितात् पापात् सुखप्रकर्षइति। तदयुक्तम्, यतो येयं सुखप्रकर्षानुभतिः सा स्वानुरूपकर्मप्रकर्षजनिता प्रकर्षानुभूतित्वात्, दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिरिति स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति। स्था० 1 ठा०। ज्ञा० / (एतच कम्म' शब्दे तृतीयभागे 251 पृष्ठे अचलभ्रातुः संवादेन प्रतिपादितम्) (पुण्यतत्त्वम् 'तत्त' शब्दे चतुर्थभागे 2180 पृष्ठे गतम्)