________________ पुण्ण 162 - अभिधानराजेन्द्रः - भाग 5 पुण्ण पुण्याष्टकम्शासनोन्नतिकरणाद्धितोदयाभुन्नति प्राप्नोति इत्युक्तं तत्र किमः | हितोदयाऽप्युन्नतिरस्ति येनासौ सविशेषणाऽभिधीयते? उच्यते-अस्ति, यतः (पुण्यजन्योन्नतिः) पुण्या पुण्यविचारे चत्वारो भनाः भवन्ति / तद्यथा- पुण्यानुबन्धि पुण्यमित्येकः, पापानुबन्धि पुण्यमिति द्वितीयः, पापानुबन्धि पापमिति तृतीयः, पुण्यानुबन्धि पापमिति चतुर्थः। तत्राऽऽधभग प्रतिपादनायाऽऽह-पाइान्तरापेक्षया पुनरेवं संबन्धरतीर्थकृन्नामकर्मण इति प्रागुक्तं, तच पुण्यं पुण्याऽऽदिविचारे च प्रागुक्ता एव चत्वारो भङ्गका भवन्ति / तत्राऽऽद्यभङ्गकाभिधानायाऽऽहगेहान्नेहान्तरं कश्चिच्छोभनादधिकं नरः। याति यद्वत्सुधर्मेण, तद्रदेव भवागवम्।।१।। गेहादेहान्तरं कश्चिदनिर्दिष्टनामा. नर इति योगः। किंभूतानेहाच्छोभ- 1 नाद्रमणीयात्, किंभूत गेहान्तरम्?अधिकं शोभनतरं, नरो मानवः, नरग्रहण चेह विशिष्टचरणसाध्यपुण्ययोगत्वेन तस्य प्राधान्यख्यापनार्थम् / याति गच्छति, यत् यथेति दृष्टान्तः, सुधर्मण पुण्यानुबन्धित्वाच्छोभनः कृपाऽऽदिधर्मजन्यत्वाद्धर्मश्चेति सुधर्मस्तेन, पुण्यानुबन्धिपुण्यकर्मणे - त्यर्थः। तद्वदेव तथैव, भवान् मनुष्याऽऽदिजन्मनः शोभनस्वभावातसकाशाद्वं देवाऽऽदिभव शोभनतरस्वभावं यातीति प्रकृतम् / यत्किल शुभमनुष्याऽऽदेर्जीवस्य पूर्वभवप्रपशित कभ मनुष्यत्वाऽऽदि शुभभावानुभवहेतुर्भवति तदनन्तरं देवाऽऽदिगतिपरम्पराकारणं च तत् पुण्यानुबन्धि पुण्यमुच्यते / एतच्च ज्ञानपूर्वनिर्निदानकुशलानुष्ठानाद्भवति, भरताऽऽदेरिवेति / (भरतवृत्तम् 'भरह' शब्दे वक्ष्यामि) अथ द्वितीयभडकमाहगेहाद्नेहान्तरं कश्चि-च्छोभनादितरन्नरः। याति यद्वदसद्धम्मत्,ि तद्वदेव भवाद्रवम् / / 2 / / गेहाद्नेहान्तरं कश्चिन्नरो, यद्वद्यातीति संबन्धः / किंभूतात्किं भूतम? शोभनाद्रमणीयादितरत् शोभनं तद्वदेव तथैव असद्धार्मादसन्नशोभन: पापानुबन्धित्वाद्धर्मश्च दयाऽऽदिधर्मजन्यत्वादित्यसद्धर्भः, तस्मात् पापानुबन्धिपुण्यादित्यर्थः, भवाच्छोभनान्मनुष्याऽऽदेर्भवमशोभनं नरकाऽऽदिकमिति / यत्किल शुभमनुष्याऽऽदर्जीवस्य पूर्वभवार्जितकर्म मानुषत्वाऽऽदि शुभभावानुभूतिहेतुर्भवति, तदनन्तरं नारकाऽऽविभवपरम्पराकारणं च तत्पापानुबन्धि पुण्यमित्युच्यते, तच्च निदानात्ज्ञानदूषिताद्धर्मानुष्ठानाद्भवति, ब्रहादत्ताऽऽदेरिवेति 2 / (ब्रहादत्तवृत्तम् 'बभदत्त' शब्दे वक्ष्यामि) अथ तृतीयभङ्गकमाहगेहाद्नेहान्तरं कश्चिदशुभादधिकं नरः। याति यद्वन्महापापात्, तद्वदेव भवाद्भवम्॥३॥ गेहाद्रेहान्तरं यदुत्कश्चिन्नरो याति, किं विधात् किंविधमित्याहअशुभादरमणीयादधिकमशुभतर, तद्वदेव महापापान्महच्च तत् पापानुबन्धित्वात् पापं चाशुभकर्मेति महापापं, तरमात्पापानुबन्धिपापादित्यर्थः / भवादशुभातिर्यगादेर्भवमशुभतरं नारकाऽऽदिकमिति। यत्किल तिर्यगादेजीवस्य पूर्वजन्मोपात्तं कर्म तिर्यगाद्यशुभभावानुभवननिमित्तभूतं भवति तदनन्तर नारकाऽऽद्यशुभगतिपरम्पराकारणं च तत्पापानु बन्धि पापमुच्यते, तथाविधविलाडाऽऽदेरिव, तच्च महाप्राणातिपाताऽऽदिहेतुकमिति। चतुर्थभङ्ग कमधुना प्राहगेहाद्नेहान्तरं कश्चिदशुभादितरन्नरः। याति यद्वत्सुधर्मेण, तद्वदेव भवाद्भवम् // 4 // गेहाद्रेहान्तरं कश्चिन्नरो यद्वयाति, किंविधात्किंविधमित्याह अशुभादकमनीयादितरच्छोभनं, तद्वदेव सुधर्मेण कुशलानुष्ठानमिश्रनिर्निदानाऽऽदिकुशलानुष्ठानलक्षणेन भवादशुभतिर्यगादेर्भवं शुभं मनुष्याऽऽदिकमिति, यत्किल तिर्यगादेर्जीवस्य प्राग्भवार्जित कर्म तिर्यक्त्वाऽऽद्यशुभभावानुभूतिनिमित्तभूतं भवति, तदनन्तरं देवाऽऽदिशुभगतिपरम्पराहेतुश्च तत्पुण्यानुबन्धि पापमुच्यते, चण्डकौशिकाऽऽदेरिख / (तद्वत्तम्'वीर' शब्दे वक्ष्यामि) इह च भङ्गकनिर्देश यद्यपि पापं प्रधान तथापि पुण्यानुबन्धिहेतुत्वात् पुण्यानुबन्धकारिणि पापे शुभधर्मतामुपचर्य सुधर्मेण तद्वदेवोत्पाद्यमित्युक्तमिति // 4 // एवं फलतश्चतुर्दा कर्म व्यवस्थाप्योपदेशमाहशुभानुबन्ध्यतःपुण्यं, कर्तव्यं सर्वथा नरैः। यत्प्रभावादपातिन्यो, जायन्ते सर्वसंपदः / / 5 / / शुभं पुण्य कर्मानुबध्नान्यनुसन्धत्ते यदेवं शीलं तत्शुभानुबन्धि, अत इति यतो गेहाद् गेहान्तरमित्यादिदृष्टान्तं प्रतिपादितं, शुभाशुभं कर्मफलमस्ति, एतस्मात्कारणात्पुण्यं शुभकर्म कर्तव्यं विधेयं सर्वथा सर्वप्रकारैर्नरनिवैः किंभूतं तदित्याह- यत्प्रभावाद्यस्य सामर्थ्यादपातिन्योऽपतनशीला अविनश्वर्यो जायन्ते भवन्ति सर्वसंपदः समस्तनरामरनिर्वाणश्रिय इति !!5 तत्पुनः शुभानुबन्धि पुण्यं कथं क्रियये?, इत्याहसदागमविशुद्धेन, क्रियते तच्च चेतसा।। एतच ज्ञानवृद्धेभ्यो, जायते नान्यतः क्वचित्॥६॥ सदा सर्वकालम् / अथवा-सदागमस्त्रिकोटीदोषवर्जितत्वेन शोभनं शास्त्रं तेन विशुद्धं निर्मलीकृतं यतत्तथा तेन सदागमविशुद्धेन चेतसेति योगः। क्रियते विधीयते, तच्च तत्पुनःशुभानुबन्धि पुण्यं, चेतसा मनसा, एतच्च एतत् पुनः सदागमविशुद्ध चेतो ज्ञानवृद्धेभ्यः श्रुतस्थविरेभ्यः सम्यगुपासितेभ्यो, जायते संपद्यते, नान्यतो न पुनरन्यस्मात्कारणातरात, क्वचिद्देशे काले पात्रे चेति। यद्यपि कालस्वभावनियतिकर्मपुरुषाऽऽकाराणां कारणभावः सर्वत्रः, तथापि कर्मक्षयोपशमे चित्तविशुद्धेरान्तरकारणे ज्ञानवृद्धसंपर्कस्य प्रधानकारणत्वात्तच्च ज्ञानवृद्धेभ्य इत्युक्तमिति // 6 // यदि विशुद्ध चेतो न भवति ततः किं स्यादित्याहचित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते। यस्य तन्मुषितं दोषस्तस्य शिष्टा विपत्तयः / / 7 / / चित्तं मनस्तद्रत्नमिव चित्तरत्न, निर्मलस्वभावत्वोपाधिजनितविकारत्यादिसाधम्यात्, असं क्लिष्टं रागादिसंक्ले - शवजितमान्तरमाध्यात्मिक धन वसूच्यते अभिधीयते, यस्य देहिनः तचित्तरत्न, मुषितमपहृत दोषै रागाऽऽदिभिस्तस्य देहिनः शिष्टा उदारिता विपत्तयो व्यवसनानि, अस क्लिष्टचित्तरत्ना