________________ पुढवीकाइय 188 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय ते भदन्त ! जीवाः कति गतिकाः कति गतयो येषां ते कतिगतिकाः, कतिभ्यो गतिभ्य आगतिर्येषा ते कल्यागतिकाः? भगवानाह-गौतम ! व्याकतिकाः, नरकगतेदेवगतेश्च सूक्ष्मेषूत्पादाभावात् द्विगतिका, नरकगतौ देवगतौ च तत उदृत्तानामुत्पादाभावात्। परित्ता असंखेज्जा पण्णत्ता समणाउसो ! सेत्तं सुहुमपुढविक्काइया। परीताः प्रत्येकशरीरिणः असंख्येयलोकाऽऽकाशप्रदेशप्रमाणत्वात् प्रज्ञप्ताः मया शेषैश्च तीर्थकृद्धिः / अनेन सर्वतीर्थकृतामविसंवादिवचनतामाह- हे श्रमण ! हे आयुष्मन् ! (सेत्तं सुहुमपुढविक्काइया) त एते सूक्ष्मपृथिवीकायिका उक्ताः। अधुना बादरपृथिवीकायिकानभिधित्सुराहसे किं तं बायरपुढविकाइया बायरपुढवीकाइया दुविहा पण्णत्ता / तं जहा-सण्हबादरपुढविक्काइया, खरबायरपुढविकाइया। अथ के ते बादरपृथिवीकायिकाः? सूरिराह-बादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः / तद्यथा- लक्ष्णबादरपृथिवीकायिकाः, खरबादरपृथिवीकायिकाश्च / श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुः पृथिवी, तदात्मका जीवा अपि उपचारतः श्लक्ष्णाः, ते च ते बादरपृथिवीकायिकाश्च श्लक्ष्णबादरपृथिवीकायिकाः। अथवा-श्लक्ष्णा च सा बादरपृथिवी च सा कायः शरीरं येषां ते श्लक्ष्णबादरपृथिवीकायास्त एव स्वार्थिक क प्रत्ययविधानात् श्लक्ष्णबादरपृथिवीकायिकाः / खरा नाम पृथिवी संघातविशेष काठिन्यविशेष वाऽऽपन्ना तदात्मका जीवा अपि खरास्ते च ते बादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाः अथवा-पूर्ववत् प्रकारान्तरेण समासः, चशब्दौ स्वगतनेकभेदसूचकौ / जी०१ प्रतिका (श्लक्ष्णबादरपृथिवीकायिकाः, तथा-खरबादरपृथिकायिकाश्च अरिमनेवशब्दे 674 पृष्ठे उक्ताः ) श्लक्ष्णपृथिवीकायिकानां शरीराणि - तेसिणं भंते ! जीवाणं कति सरिगा पण्णत्ता? गोयमा। तओ सरीरगा पण्णत्ता। तं जहा-ओरालिए, तेयए, कम्मए।तं चेव सव्वं, नवरं चत्तारिलेसाओ, अवसेसं जहा सुहुमपुढविक्काइयाणं। "तेसि णं भंते ! जीवाणं'' इत्यादिना शरीरावगाहनाऽऽदिद्वार- | कलापचिन्तां करोति / सा च पूर्ववत्, तथा चाऽऽह- ''एवं जो चेव | सुहमपुढविक्काइयाणं गमो सोचेव भाणियव्वो।" इति (नवरमित्यादि) इदं नानात्व लेश्याद्वारे चतस्रो लेश्या वक्तव्याः, तेजोलेश्याया अपि संभवात्। तथाहि-व्यन्तराऽऽदय ईशानान्ता देवा भवनविमानाऽऽदावतिमूर्छया आत्मीयरत्नकुण्डलाऽऽदावप्युत्पद्यन्ते, ते चतेजोलेश्यावन्तोऽपि भवन्ति, यल्लेश्यश्च म्रियते अग्रेऽपि तल्लेश्य एवोपजायते, "जल्लेसे मरइ तल्लेसे उववजइ'' इति वचनात्। ततः कियत्कालमपर्याप्तावस्थाया तेजोलेश्याऽप्यावाप्यते इति चतखो वक्तव्याः। आहारो०जाव णियमा छद्दिसिं उववातो तिरिक्खजोणियमणुस्सेहिंतो देवेहिंतो०जाव सोधम्मीसाणेहिंतो ठितीजहण्णेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं ते णं भंते ! जीवा मारणतियसमुग्धाएणं किं समोहया मरंति, असमोहया मरंति? गोयमा ! समोहता विमरंति, असमोहता वि मरंति। ते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छइ कहिं उववचंति किं नेरइएसु उववज्जंति पुच्छा? गोयमा ! नो नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववजंति, मणुस्सेसु उववजंति, नो देवेसु उववजं ति, तं चेव० जाव असंखेज्जवासाउयवज्जे हितो उववजंति / ते णं भंते ! जीवा कति गतिया कति आगतिया पण्णत्ता? गोयमा ! दुगतिया तिआगतिया पण्णत्ता, परित्ता असंखेज्जा पण्णत्ता समणाउसो! सेत्तं बायरपुढविक्काइया। सेत्तं पुढविकाइया। आहारो नियमात् षड्दिशि बादराणां लोकमध्य एवोपपातभावात्, उपपातो देवेभ्योऽपि बादरेषु तदुत्पादविधानात् स्थितिर्जघन्यतोऽन्तमुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि देवेभ्योऽप्युत्पादात्, त्रयो गतयः द्विगतयः पूर्ववत्। एतेऽपिच परीत्ताः प्रत्येकशरीरिणोऽसंख्येयाः प्रज्ञप्ताः / हे श्रमण ! हे आयुष्मन् ! "सेतं'' इत्याधुपसंहारवाक्यम् / उक्ताः पृथिवीकायिकाः। जी०१ प्रति०। एकतः साधारणशरीरं बध्नन्तिरायगिहे० जाव एवं बयासी-सिय भंते ! ०जाव चत्तारि पंच पुढवीकाझ्या एगयओ साधारणसरीरं बंधंति, एग 2 तओ पच्छा आहारेंति वा, परिणामेति वा, सरीरं वा बंधंति वा? णो इणढे समढे, पुढवीकाइया णं पत्तेयाहारा पत्तेयपरिणामां पत्तेयं सरीरं बंधंति, बंधतित्ता तओ पच्छा आहारेति वा, परिणामें ति वा, सरीरं वा बंधंति। (रायगिहे इत्यादि) इह चेय द्वारगाथा क्वचिद् दृश्यते- 'सिय 1 लेसा 2 दिवि 3 नाणे 4, जोगु 5 वओगे 6 तहा किमाहारे 71 पाणाइवाय 8 उप्पायट्टिइ 10 समुग्घाय 11 उव्वट्टी 12 // 1 / / " इति। अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्थाधिगमावगम्य एव, तत्र स्याद्वारे (सिय त्ति) स्याद्भवेदयमर्थः / अथवा-पृथिवीकायिकाः प्रत्येक शरीरं बध्नन्तीति सिद्ध, किं तु (सिय त्ति) स्यात्कदाचित् (०जाव चत्तारि पंच पुढविकाइय त्ति) चत्वारः पञ्च वा, यावत्करणात् द्वौ वा त्रयो वा. उपलक्षणत्वाच्चास्य बहुतरावा पृथिवीकायिका जीवाः (एगओत्ति) एकत एकीभूय संयुज्येत्यर्थः, साहारणं शरीरं बध्नन्ति, बहूनांसामान्यं शरीरं बध्नन्ति, आदितस्तत्प्रायोग्यपुद्गलग्रहणतः। (आहारेति वत्ति)। विशेषाहाऽऽरापेक्षया सामान्याऽऽहारस्याविशिष्टशरीरबन्धनसमय एव कृतत्वात्। (सरीरंवा बंधति त्ति) आहारितपरिणामितषुङ्गलैः शरीरस्य पूर्वबन्धापेक्षया विशेषतो बन्ध कुर्वन्तीत्यर्थः / नायमर्थः समर्थो ,थतः पृथिवीकायिकाः प्रत्येकाऽऽहाराः प्रत्येकपरिणामाश्चातः प्रत्येकं शरीरं बध्नन्तीति, तत्प्रायोग्यपुग