________________ पुढवीकाइय 687- अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय षड्भ्यो दिग्भ्य आगतानीति भावः / द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीत्य लोकनिष्कुटाऽऽदौ स्यात् कदाचित् त्रिदिशि त्रिसृभ्यो दिग्भ्य आगतानि कदाचिचतसृभ्यः कदाचित् पञ्चभ्यः / काऽत्र भावेनेति चेत? उच्यते-इह लोकनिष्कुटे पर्यन्ताधस्त्यप्रतरायकोणावस्थितो यदा सूक्ष्मपृथिदीकायिको वर्तते, तदा तस्याधस्तादलोकेन व्याप्तत्वात पुद्गलाभावः आग्नेयकोणावस्थितत्वात् पूर्वदिक पुद्गलाभावो दक्षिणदिक्पुद्रलाभावश्च। एवमधः पूर्वदक्षिणरूपाणां तिसृणा दिशामलोकेन व्यापनात् ताअपास्य या परिशेषा ऊर्धा अपरा उत्तरा च दिग्व्याहता वर्तते रात आगतान् पुदलान् आहारयन्ति,यदा पुनः स एव पृथिवीकायिकः पश्चिमां दिशमनुसृत्य वर्तते तदा पूर्वदिगभ्यधिका जाता, द्वे च दिशो दक्षिणाधस्त्यरूपे अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, यदा पुनरूद्ध द्वितीयाऽऽदिप्रतरगतपश्चिमदिशमऽवलम्ब्य तिष्ठति तदा अधस्याऽपि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्तिनी अलोकेन व्याहतेति पञ्चदिग्गतान पुद्गलानाहारयति (वण्णतो इत्यादि) वर्णतः कालनीललोहितहारिद्रशुल्कानि, गन्धतः सुरभिगन्धानि दुरभिगन्धानि वा, रसतस्तिक्तानियावत् मधुराणि, स्पर्शतः कर्कशानियावत कक्षाणि, तेषामाहार्यमाणाना पुद्गलानां पुराणान् अग्रेतनान् वर्णगुणान गन्धगुणान् रसगुणान् स्पर्शगुणान् विपरिणाइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धसइत्ता।'' एतानि चत्वार्यपि पदानि एकार्थिकानि विनाशार्थप्रतिपादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि / विनाश्य किमित्याह- अन्यानपूवान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्याऽ:त्मशरीरक्षेत्रावगाढान् पुदगलान (सव्वप्पणया) सर्वाऽऽत्मना सर्वराहाररूपान् पुद्गलानाहारयन्ति / गतमाहारद्वारम्। जी०१ प्रति०। | यदाहरयति तचीयतेते णं भंते ! जीवा जमाहारेंति तं चिज्जंति, जंणो आहारेंति तं णो चिजंति, चिण्णे वा से उद्दाइ बलिसप्पति वा? हंता गोयमा ! ते णं जीवा जमाहारेंति, जं नो० जाव बलिसप्पंति वा। (तं चिज्जइ ति) तत्पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः। / (चिण्णे वा से उद्दाइ त्ति) चीपण वाऽऽहारित (रो) तत् पुद्गलजातमपद्रवत्यपयाति विनश्यति, मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति एतदेवाऽऽह- (पलिसप्पइ त्ति) परिसर्पति च समन्ताद् गच्छतीति। भ० 16 श०३ उ०। साम्प्रतमुपपातद्वारमाहते णं भंते ! जीवा कतोहिंतो उववजंति-किं नेरइएहिंतो उववचंति, तिरक्खजे णिएहिंतो उववज्जति, मणुस्से हितो उववजंति, देवेहिंतो उववजंति? गोयमा ! नो नेरइएहितो उववज्जंति, तिरिक्खजो णिएहिंतो उववअंति, मणुस्सेहिंतो उववजंति, नो देवेहिंतो उववजंति, तिरिक्खजोणियपजत्ता पज्जत्तेहिंतो असंखेज्जवासाउयवजेहिंतो मणुस्सेहिंतो अकम्म भूमिगअसंखेज वासउयवज्जेहिंतो उववजंति, वकं ति। उववातो भाणियव्वो। भदन्त ! सूक्ष्मपृथिवीकायिका जीवाः कुतः केभ्यो जीवेभ्य उद्वृत्योत्पद्यन्ते-वि नरयिकेभ्य इत्यादि प्रतीतम्? भगवानाह- गौतम ! नो नैरयिकभ्य इत्यादि पाउसिद्धं नवरं देवनेरयिकेभ्य उत्पालप्रतिषेधो, देवनेरयिकाणां तथा भवरतभावतया तन्मध्ये उत्पादासम्भवात्। (जहा वक्कतीए इति) यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा ववतव्यम्। तचैवम्तिर्यग्योनिभ्योऽप्युत्पादः पर्याप्तभ्यो वा केवलमसंख्यातवर्षाऽऽयुष्कवर्जितभ्यो मनुष्येभ्योऽपि अकर्मभूमिजान्तरद्वीपजासंख्यातवर्षाऽऽयुककर्मभूमिजव्यतिरिक्तेभ्यः पयप्तिभ्योऽपर्याप्तेभ्यो वेति। गतमुपपातद्वारम्। अधुना स्थितिद्वारमाहतेसि णं भंते ! जीवाणं केवतियं कालं ठिती पण्णत्ता? गोयमा! जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं / (तेसि णं भंते ! इत्यादि) सुगम, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसेयम् / गतं स्थितिद्वारम्। अधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुराहते णं भंते! जीवा मारणंतियसमुग्घातेणं किं समोहया मरंति, असमोहया मरंति। गोयमा ! समोहतावि मरंति, असमोहतावि मरंति। (ते णं भंते / इत्यादि) सुगमम् / उभयथापि मरणसंभवात् च्यवनद्वारमाहते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति, कहिं उववजंति-किं ने रइएसु उववजं ति, तिरिक्खजोणिएस उववजंति, मणुस्सेसु उववजंति, देवेसु उववजंति? गोयमा ! नो नेरइएसु उववअंति, तिरिक्खजोणिएसु उववजंति, मणुस्सेसु उववजंति, नो देवेसु उववजंति, तिरिक्खजोणिएसु उववखंति। किं एगिदिएसु उववअंति० जाव पंचिंदियतिरिक्खजोणिएसु उववजंति? गोयमा ! एगिदिएसु उववअंति० जाव पंचिंदियतिरिक्खजोणिएसु उववजंति असंखेजवासाऽऽउयवज्जेसु पज्जत्तापज्जत्तएसु उववजंति, मणुस्सेसु अकम्मभूमगअंतरदीवगअसंखेजवा साऽऽउयवज्जेसु पज्जत्तापज्जत्तएसु उववजंति। ते सुक्ष्मपृथिवीकायिका भदन्त ! जीवा अनन्तरमुढत्य सूक्ष्मपृथिवीकायिकभवादानन्तर्येणोवृत्येति भावः / क्व गच्छन्ति कोत्पद्यन्ते? एतेनाऽऽत्मनो गमनधर्मकतापर्यायान्तरमधि कृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चाऽऽत्मानं प्रतिपन्नास्ते निरस्ता द्रष्टव्याः। तथारूपे सत्यात्मनि यथोक्तप्रश्नार्थासम्भवात्। (कि नेरइएसु गच्छति) इत्यादि प्रतीतम, भगवानाह- (नो नेरइएसु गच्छति इत्यादि) पाठसिद्धग। (जहा वकंतीए इति) यथा प्रज्ञापनायां व्युत्क्रान्तिपदेच्यवनभुवत तथाऽत्रापि वक्तव्यं, तचोत्पादवत् भावनीयमिति। गतं च्यवनद्वारम्। अधुना गत्यागतिद्वारमाहते णं भंते ! जीवा कतिगतिया, कति आगतिया पण्णता? गोयमा ! दुगतिया, दुआगइया।