________________ पुढवीकाइय 684 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय इदानीमिन्द्रियद्वारमाहतेसि णं भंते ! जीवाणं कति इंदियाइं पन्नत्ताइं? गोयमा ! एगे फासिंदियए पण्णत्ते। इन्द्रियं नाम- इदुपरमैश्वर्य , "उदितः" इति नुम। इन्दनादिन्द्र आत्मा सर्वोपलब्धिरूपपरमैश्वर्ययोगात्, तस्य लिङ्ग चिह्नमविनाभावि इन्द्रियम् इन्द्रियमिति निपातनसूत्रादूपनिष्पत्तिः। तत्पञ्चधा। तद्यथा- श्रोत्रेन्द्रियं, चक्षुरिन्द्रियं, घ्राणेन्द्रिय, रसेन्द्रिय, स्पर्शनेन्द्रियं च / एकैकमपि द्विधाद्रव्येन्द्रियम्, भायेन्द्रियं च / द्रव्येन्द्रियं द्विधा-निर्वृत्तिरूपम्, उपकरणरूपं च / निर्वृत्ति म प्रतिविशिष्टः संस्थानविशेषः / साऽपि द्विधावाह्या, अभ्यन्तरा च / तत्र बाह्या कर्णपर्पटिकाऽऽदिरूपा। सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते / (जी०) गोयमेत्यादि सुगमम् / गतमिन्द्रियद्वारम्। अधुना समुद्धातद्वारम् - तेसि णं भंते ! जीवाणं कति समुग्घाया पण्णत्ता ? गोयमा ! तओ समुग्घाया पण्णत्ता / तं जहा-वेयणासमुग्धाते, कसायसमुग्घाए, मारणंतियसमुग्घाते। अनेकसमुद्घातसंभवे सूक्ष्मपृथिवीकायिकाना तान पृच्छति-(तेसि णं भंते ! इत्यादि) सुगमम्। नवरं वैक्रियाऽऽहारकतैजसकेवलिसमुद्धाताभावे वैक्रियाऽऽदिलब्ध्यभावात् / गत समुद्घातद्वारम्। संप्रति संज्ञिद्वारमाहते णं भंते ! जीवा किं सन्नी, असन्नी? गोयमा ! नो सन्नी, असन्नी। ते सूक्ष्मपृथिवीकायिकाः, णमिति वाक्यालंकारे, भदन्त ! जी वाः किं संझिनोऽसंज्ञिनो वा, संज्ञानं संज्ञा भूतभवद्भाविभाव पर्यालोचनं, सा विद्यते येषां ते संज्ञिनः विशिष्टस्मरणाऽऽदि रूपमनोविज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असंज्ञिनः / अत्र भगवान्निर्वचनमाहगौतम ! नो संज्ञिनः, किं त्वऽसंज्ञिनः, विशिष्ट मनोलब्ध्यभावात्, हेतुवादोपदेशेनाऽपि न संज्ञिनोऽभिसंधारणपूर्विकायाः करणशक्तेरभावात्, इहासंज्ञिन इत्येव सिद्धे नोसज्ञिन इति प्रतिषेधः, प्रतिषेधप्रधानो विधिरयमिति ज्ञापनार्थं प्रतिपाद्यस्य प्रकृतिसावद्यत्वादिति। गतं संज्ञिद्वारम्। वेदद्वारमाहते णं भंते ! जीवा किं इत्थिवेयया, पुरिसवेयया, नपुंसगवे यया? गोयमा ! नो इत्थिवे या, णो पुरिसवे या, नपुंसगवेया। (इत्थिवेयगा इति) स्त्रिया वेदो येषां ते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयम्, तत्र स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः, पुसः स्त्रियामभिलाषः पुंवेदः, उभयोरप्यऽभिलाषो नपुंसकवेदः / भगवानाह- गौतम ! न स्त्रीवेदकाः, न पुरुषवेदकाः, नपुंसकवेदकाः, संमूर्छिमत्त्वात्। 'नारकसंमूर्छिमा नपुंसकाः" इति भगवद्वचनम्। पर्याप्तिद्वारमाहतेसिणं भंते ! जीवाणं कइ पज्जत्तीओ पण्णत्ताओ? गोयमा ! चत्तारि पञ्जत्तीओ पण्णत्ताओ / तं जहा-आहारपज्जत्ती, सरीरपज्जत्ती, इंदियपज्जत्ती, आणापाणुपज्जत्ती। "तेसिणं भंते !'' इत्यादि सुगमम् / पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तन्निरूपणार्थमाहतेसि णं भंते ! जीवाणं कति अपज्जत्तीओ पण्णत्ताओ? गोयमा ! चत्तारि अपज्जत्तीओ पण्णत्तातो / तं जहा-आहारअपज्जत्ती० जाव आणापाणुअपज्जत्ती। (तेसि ण भते ! इत्यादि) पाठसिद्धम्, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया त्वेकैव प्राणापानपर्याप्तिर्य - स्मादेवमागम इह लब्ध्यऽपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव मियन्ते, नार्वाक्, यत् आगामिभवाऽऽयुर्बध्वा मियन्ते सर्व एव देहिनः, तच्चाऽऽहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायान्तीति। सम्प्रति दृष्टिमाहतेणं भंते ! जीवा किं सम्मट्ठिी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी? गोयमा ! णो सम्महिट्ठी, मिच्छादिट्ठी, णो सम्मामिच्छादिट्ठी। (तेसि णं इत्यादि) सुगमम, नवरं सम्यग् अविपरीता दृष्टिर्जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या विपर्यस्ता दृष्टिर्येषा भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् ते मिथ्यादृष्टयः, एकान्तसम्यग्पमिथ्यारूपप्रतिपत्तिविकलाः सम्यग्मिथ्यादृष्टयः / निर्वचनसूत्रम्- (गोयमेत्यादि) सुगमम् / नवरं सम्यग्दृष्टित्वप्रतिषेधः सास्वादनसम्यक्त्वस्यापि तेषामसंभवात्. सास्वादनसम्यक्त्ववता तन्मध्ये उत्पादाभावात्, ते ह्यतिसंक्लिष्टपरिणामाः सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सास्वादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्लिष्टपरिणामत्वात्तेषां सम्यग्मिथ्यादृष्टित्वपरिणामोऽपि न भवति, नाऽपि सम्यमिथ्यादृष्टिः सन् तन्मध्ये उत्पद्यते 'न सम्ममिच्छो कुणइ कालं।'' इति वचनात् / गतं दृष्टिद्वारम्। अधुना दर्शनद्वारम् - ते णं भंते ! जीवा किं चक्खुदंसणी, अचक्खुदंसणी, ओहिदसणी, केवलदसणी? गोयमा ! नो चक्खुदंसणी, अचक्खुदसणी, नो ओहिदसणी, नो केवलदसणी। दर्शनं नाम सामान्यविशेषाऽऽत्मके वस्तुनि सामान्यावबोधस्तचतुर्द्धा / तद्यथा- चक्षुर्दर्शनमचक्षुर्दर्शनम्, अवधिदर्शनं, केवलदर्शनं च / तत्र सामान्यविशेषाऽऽत्मके वस्तुनि चक्षुषा दर्शन रूपसामान्यपरिच्छेदश्वक्षुर्दर्शनम्, अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोभिः दर्शनम् अचक्षुर्दर्शनम्, अवधेरेव दर्शनं रूपिसामान्यग्रहणम् अवधिदर्शनं, केवलमेव दर्शनं सकलजगद्भाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषा दर्शनमिति जिज्ञासुः पृच्छति-(ते णं भंते ! इत्यादि) पाठसिद्धम् / नवरमचक्षुर्दशनित्वं स्पर्शनेन्द्रियापेक्षया शेषदर्शनप्रतिषेधः सुज्ञातः / गत दर्शनद्वारम्। ज्ञानद्वारमाहते णं भंते ! जीवा किं नाणी अन्नाणी? गोयमा ! नोनाणी अन्नाणी नियमा दुअन्नाणी। तं जहा- मतिअन्नाणी य, सुयअनाणीय।