SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ पुढवीकाइय 683- अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय (पुढवीत्यादि) (वण्णगपेसिय त्ति) चन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः बलवती सामर्थ्यवती (जुगवं ति) सुषमदुःषमाऽऽदि- | विशिष्टकालवती (जुवाणि त्ति) वयःप्राप्ता (अप्पायंक त्ति) नीरोगा (दण्णओ त्ति) अनेनेदं सूचितम् (थिरग्गहत्था दढपाणिपायपिट्ठतरोरुपरिणयेत्यादि) इह च वर्णके- "चम्मट्ठदुहणा'' इत्याद्यप्यधीतं तदिह न वाच्यम्, एतस्य विशेषणस्य स्त्रिया असम्भवात्। अत एवाऽऽह(चम्मेद्वदुहणमुट्ठियसमाहयनिचियगत्तकाया न भण्णइ त्ति) तत्र च चम्म टाकाऽऽदीनि व्यायामक्रियायामुपकरणानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानि च घनीभूतानि गात्राण्यङ्गानि यत्र स तथाविधः कायो यस्याः सा तथेति / (तिक्खाए त्ति) / परुषायाम्। (वइरामइए त्ति) वज़मय्यां, सा हि नीरन्धा कठिना च भवति / (सण्हकरणीए त्ति) श्लक्ष्णानि चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी पेषणशिला, तस्याम् (वट्टावरएणं ति) वर्तकवरेण लोष्टकप्रधानेन (पुढविकाइय ति) पृथिवीकायिकसमुदयम्। (जतुगोलासमाण ति) डिम्भरूपक्रीडनकजतुगोलकप्रमाण, नातिमहान्तमित्यर्थः (पडिसाहरिएत्यादि) इह प्रतिसंहरण शिलायाः शिलापुत्रकाच संहृत्य पिण्डीकरणं, तिसंक्षेपणं तु शिलायाः पततः संरक्षणम् (अत्थेगइय त्ति) सन्त्येके कंचन (आलिद्धत्ति) आदिग्धाः शिलायां शिलापुत्रके च लग्राः (संघट्टिय त्ति) संघर्षिताः। (परिताविय त्ति) पीडिताः (उद्दविय त्ति) मारिताः, कथं यतः (पिट्ट त्ति) पिष्टाः (ए महालिय त्ति) (एवं महतीइ त्ति) महति वाति सूक्ष्मेति भावः, यतो विशिष्टायामपि पेषणसामन्यां केचिन्न पिष्टा नैव च छुप्ता अपीति (अत्थेगइया संघट्टिय त्ति)। भ० 16 श०३उ०॥ सहननद्वारमाहतेसि गं भंते ! जीवाणं सरीरा किं संघयणा पण्णत्ता ? गोयमा ! छेवट्ठसंधयणा पण्णत्ता। तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्राप्तानि? संहननं नाम अस्थिनिचयरूपं, तच्च पोढा / जी०१ प्रति०। (संहननभेदान् 'संहनन' शब्दे वक्ष्यामि) संप्रतिसंस्थानद्वारमाहतेसिणं भंते ! जीवाणं सरीरा किंसंठिया पण्णत्ता ? गोयमा! | मसूरचंदसंठिया पण्णत्ता। सुगमम्। नवरं (मसूरचंदसंठिया इति) मसूरकाऽऽख्यधान्यविशेषस्य यत् चन्द्राऽऽकृति दलं स मसूरकचन्द्रस्तद्गत् संस्थितानि / अत्राय भावार्थः-इह जीवानां षट्संस्थानानि समचतुरस्राऽऽदीनि वक्ष्यमाणलक्षणानि तेषामाघानिपञ्चसंहननानि मसूरचन्द्रकाऽऽकारेण संभवन्ति, तल्लक्षणायोगात्तत इदं मसूरचन्द्राऽऽकार संस्थान हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तल्लक्षणस्य योगात्, जीवानां संस्थानान्तराभावाच्च / आह च मूलटीकाकार:- संस्थानं मसूरचन्द्रकसंस्थितमपि हुण्ड सर्वत्रासंस्थितत्वेन तल्लक्षणयोगात् जीवानां संस्थानान्तराभावाच्चति / गत संस्थानद्वारम्। अधुना कषायद्वारमाह तेसि णं भंते ! जीवाणं कति कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पण्णत्ता / तं जहा-कोहकसाते, माणकसाते, मायाकसाते, लोभकसाए। तेषां भदन्त ! सूक्ष्मपृथिवीकायिकाना कति कषायाः प्रज्ञप्ताः? तत्र कषाया नाम कष्यन्ते हिंस्यन्ते परस्परमरिमन् प्राणिन इति कषः संसारस्तमयन्ते गच्छन्त्येभिर्जन्तव इति कषायाः क्रोधाऽऽदयः परिणामविशेषाः। तथा चाऽऽह- (गोयमेत्यादि) सुगम,नवर क्रोधोऽप्रीति परीणामो, मानो गर्वपरिणामो, माया निकृतिरूपा, लोभो गायलक्षणः / एते च क्रोधाऽऽदयोऽमीषा मन्दपरिणामतयाऽनुपदर्शितबाहाशरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः / गत कषायद्वारम्। संज्ञाद्वारमाहतेसिणं भंते ! जीवाणं कति सन्नाओ पण्णत्ताओ? गोयमा! चत्तारि सण्णाओ पण्णत्ताओ / तं जहा-आहारसण्णा० जाव परिग्गहसण्णा। सुगमम, नवरं संज्ञानं संज्ञा; सा च द्विधा-ज्ञानरूपा, अनुभवरूपाच। तत्र ज्ञानरूपा मतिश्रुतावधिमन पर्यायकेवलभेदात्पञ्चप्रकारा, तत्र केवलसंज्ञा क्षायिकी, शेषास्तु क्षायोपशमिकाः अनुभवसंज्ञा स्वकृताऽऽसातवेदनीयाऽऽदिकर्मविपाकोदयसमुत्थाः। इह प्रयोजनमुनभवसंज्ञया ज्ञानसंज्ञायास्तद्वारेण परिगृहीतत्वात्, तत्राऽऽहारसंज्ञानाम आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः, एष चासातवेदनीयोदयादुपजायते / भयसंज्ञा भयवेदनीयोदयजनितत्रासपरिणामरूपा, परिग्रहसंज्ञा लोभविपाकोदयसमुत्थमूपिरिणामरूपा मैथुनसंज्ञा वेदोदयजनितो मैथुनाभिलाषः। एताश्चतस्रोऽपि मोहनीयोदयप्रभवाः, एता अपि सूक्ष्मपृथिवीकायिकानामव्यक्तरूपाः प्रतिपत्तव्याः / गतं संज्ञाद्वारम्। अधुना लेश्याद्वारमाहतेसिणं भंते ! जीवाणं कति लेसाओ पण्णत्ताओ? गोयमा ! तओ लेसाओ पण्णत्ताओ / तं जहा-कण्हलेसा, नीललेसा, काउलेसा। सुगमम् / नवरं लिश्यते श्लिष्यते आत्मा कर्मणा सहाऽनयेति लेश्या कृष्णाऽऽदिद्रव्यसाचिव्यादात्मनः शुभाशुभरूपः परिणामः। उक्तं च"कृष्णाऽऽदिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते।।१।।" सा चषोढा / तद्यथा-कृष्णलेश्या 1 नीललेश्या 2 कापोतलेश्या 3 तेजोलेश्या 4 पद्मलेश्या 5 शुक्ललेश्या 6 आसां च स्वरूपं जम्बूफलखादकषट्पुरुषदृष्टान्तेनैवमवसेयम्। "पंथा उवरिभट्टा, छप्पुरिसा अडविमज्झयारम्मि! जम्बूतरुस्स हेट्ठा, परोप्पर ते विचिंतें ति।।१।। निम्मूलखंघसाला, गोच्छे पक्के य सडियाई। जह एएसि भावा, तह लेसाओ वि नायव्वा / / 2 / / " अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंक्लिष्टपरिणामत्वाद्देवेभ्यः सूक्ष्मेष्वऽनुत्पादाच्चाद्याएव तिस्रः कृष्णनीलकापोतरूपा लेश्या नशेषा इति / गतं लेश्याद्वारम्।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy