SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पच्चक्ख 75 - अभिधानराजेन्द्रः - भाग 5 पच्चक्ख क्षात्, हस्तो हि कवलप्रक्षेप एव व्याप्रियते, न परिच्छेद क्रियायाम, इन्द्रियमिवाऽऽहारक्रियानुभवेऽपि येन व्यवधानं भवेत्, ततो देवदत्तः साभाद्रोक्तंति व्यवह्रियते। इह तु वस्तूनामुपलब्धिरुक्तनीत्या चक्षुरादीन्द्रियसागुण्यावगमानुसारेणोपजायते / ततो व्यवधानान्न साक्षादुपलम्भक आत्मेति। नन्विदं सर्वमप्युत्सूत्रप्ररूपणं, सूत्रे ह्यनन्तरमेवेन्द्रियातं ज्ञानं प्रत्यक्षमुपदेष्यते। नं०। आ० म०। स्था० / विशे०। (3) तथाहि- इन्द्रियनोइन्द्रियप्रत्यक्षम्से किं तं पचक्खं ? पचक्खं दुविहं पण्णत्तं / तं जहाइंदियपचक्खं, नोइंदियपचक्खं च / से किं तं इंदियपचक्खं ? इंदियपञ्चक्खं पंचविहं पण्णत्तं / तं जहा--सोइंदियपचक्खं, चक्खिदयपचक्खं, घाणिं दियपञ्चक्खं,जिभिदियपचक्खं, फासिंदियपचक्खं / से तं इंदियपचक्खं / से किं तं नोइंदियपच्चक्खं? नोइंदियपच्चक्खं तिविहं पण्णत्तं ! तं जहा-ओहिनाणपचक्खं, मणपज्जवनाणपच्चक्खं, केवलनाणपच्चक्खं। प्रत्यक्ष द्विविधं प्रज्ञप्तम्। तद्यथा- इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं च। (न.) इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे इन्द्रिमप्रत्यक्षत्वानुपपत्तैः / तत्रेन्द्रियस्य प्रत्यक्षमिन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्ष यत् इन्द्रियप्रत्यक्ष न भवति। नोशब्दः सर्वनिषेधवाची। तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाभ्युपगमात्तदाश्रितं ज्ञानं प्रत्यक्ष न भवतीति सिद्धम्। (से किं तमित्यादि) अथ किं तदिन्द्रियप्रत्यक्षम् ? इन्द्रियप्रत्यक्ष पञ्चविध प्रज्ञप्तम्। तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि। तत्र श्रोत्रेन्द्रियस्य प्रत्यक्ष श्रोत्रेन्द्रियप्रत्यक्ष, श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं लत् श्रोत्रेन्द्रियप्रत्यक्षनिति भावः। एवं शेषेष्वपि भावनीयम् / एतच्च व्यवहारत उच्यते, न परमार्थत इत्यनन्तरमेव प्रागृतम्। आह-स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियाणीतिक्रमः। अयमेव चसमीचीनः, पूर्वपूर्वलाभ एवोत्तरोतरलाभसंभवात्। ततः किमर्थमुत्क्रमोपन्यासः कृतः। उच्यते - "अस्ति पूर्वानुपूर्वी, अस्ति पश्चानुपूर्वी।'' इति न्यायप्रदर्शनार्थः। अपि चशेषेन्द्रियापेक्षया श्रोत्रेन्द्रियपटु। ततःश्रोनेन्द्रियस्य यत्प्रत्यक्षं तच्छेषेन्द्रियप्रत्यक्षपेक्षया स्पष्टम् / संवेदनस्पष्ट संवेदनं चोपवर्ण्यमानं विनेयः सुखेनाऽवबुध्यते, ततः सुख प्रतिपत्तये श्रोत्रेद्रियाऽऽदिक्रम उक्तः। (से किं तं नोइदियपचक्खं इत्यादि) अथ किं-तत् नोइन्द्रियप्रत्यक्षम् ? नोइन्द्रियप्रत्यक्ष त्रिविधं प्रज्ञप्तम् / तद्यथा-अवधिज्ञान-प्रत्यक्षमित्यादि। नं / सत्यमेतद् वैशेषिकाऽऽदिसम्मतम्, किं तु इदं लोकव्यवहारम-- पेक्ष्योक्तं, न परमार्थतः। तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते, तलाके प्रत्यक्षमिति व्यवस्थितम्, अपरधूमाऽऽदिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्त्तनात् / यत्पुनरिन्द्रियव्यापारे - ऽप्यपर धूमाऽऽदिकमपेक्षयाऽग्न्यादिविषयं ज्ञानमुदयते, तलोके परोक्षम्। तत्र साक्षादिन्द्रियव्यापारासम्भवात् / यत्पुनरात्मन इन्द्रियमप्यनपेक्ष्य साक्षादुपजायते, तत्परमार्थतः प्रत्यक्ष, तचावध्यादिकं त्रिप्रकारं, ततः संव्यवहारमधिकृत्येन्द्रियाऽऽश्रितंज्ञानं प्रत्यक्षमुक्तं, न परमार्थतः। अथ कथमेतदवसीयतसंव्यवहारमधिकृत्येन्द्रियाऽऽश्रितंज्ञानं प्रत्यक्षमुक्तं, न परमार्थतः? उच्यते- तत्रैवोत्तरसूत्रार्थपर्यालोचनात् / तथाहिप्रत्यक्षभेदाभिधानान्तरं तत्र सूत्रम्-'परोक्खं दुविहं पन्नत्तं / तं जहा आभिनिबोहियनाणं सुयनाणं / " इत्यादि / तत्राऽऽभिनिबोधिकमवग्रहाऽऽदिरूपम्, अवग्रहाऽऽदयश्च श्रोत्रेन्द्रियाऽऽद्याश्रितास्तत्र वर्णिताः, तद्यदि श्रोत्राऽऽदीन्द्रियाऽऽश्रित ज्ञानं परमार्थतः प्रत्यक्षं, तत्कथम् ? अवग्रहाऽऽदयः परोक्षत्वेनाग्रेऽभिहिताः, तस्मादुत्तरतेन्द्रियऽऽश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते प्रागिन्द्रियाऽऽश्रितं ज्ञानं संव्यवहारतः प्रत्यक्षमुक्तं , न परमार्थतः / आह च भाष्यकृत्- "एगतेण परोक्ख, लिंगियमोहाइयं च पचक्खं / इंदियमणो भवं जं, तं संबहारपच्चक्खं / / 65 / / " इति। आ०म०१ अ० 1 खण्ड। विशे०। अनु० / बृ० / आ० चू० / नि० चू० / 'दुविहे पचक्खनाणे पण्णत्ते / तं जहाकेवलणाणे चेव, नोकेवलनाणे चेव।" स्था०१ ठा०। (4) बौद्धाऽऽदिभिः सह प्रत्यक्षविषयकः शास्त्रार्थः यदपि सन्निहि तमर्थमवतरत्यध्यक्ष, नामाऽऽदिकं च विशेषणमसन्निहितमिति, न तद्योजनामवतरीतु क्षममिति, तत्त्वेऽगि यदि सन्निहितमध्यक्षमवतरेत् पक्ष्ममूलपरिष्वक्तमञ्जनाऽऽदिकं सन्निहितं किं नावतरेत्, अथ यत् प्रतिभासयोग्य वस्तु तदेवावतरेत् / न च स्तम्भाऽऽदिकं व्यवहितमपि योग्यमित्येतदेव कुतः? स्तम्भाऽऽदेः प्रतिभासनात्तद्योग्यता व्यवस्थाप्यते, तर्हि तत्प्रतिभासनं कुतो व्यवस्थाप्यम् स्वयं वेदनादिति चेन्न तत्प्रतिभासः संवेद्यते। तत्तत्र योग्यमितरत्त्वयोग्यवस्था या तत्सन्निधानासन्निधाने क्वोपयोगिनी। एवं यद्यसन्निहितस्यापि नामाऽऽदिविशेषणं तस्यापि मती प्रतिभासः को विरोधः ? अध्यक्षत्वेन विरोधे वा चिरातीतभविष्यदर्थराशेरसन्निहितस्य बुद्धसंवेदनप्रतिभासनादध्यक्षताविरोधस्तस्यापि भवेत् / अथ विशदत्वात् तज्ज्ञानस्य नाध्यक्षताविरोधः, तद्विशेषणविशिष्टार्थावभासिन्यप्यक्षज्ञाने समानम्। एतेनोपधीनामुपाधिमतः पूर्वकालत्वे उपाधिमद्ग्राहिणा ज्ञानेनासन्निहितत्वेनाग्रहणात्वतद्विशेषणविशिष्टर्थग्राहिण्यध्यक्षमतिर्विशदा संभवतीति प्रत्युक्तम् / बुद्धज्ञानेऽप्यानेतव्या येन वैशद्याभावतोऽनध्यक्षताऽऽपत्तेः / न चासन्निहितस्यापि विशेषणस्याध्यक्ष प्रतिभासे कस्याप्यसन्निहितस्य प्रशक्तिः, यतो यस्यैवासन्निहितस्यापि प्रतिभासः संविद्यते तदेव तत्र प्रतिभातीत्यभ्युपगन्तव्यम् / अन्यथा अनन्तरातीतार्थक्षण-साध्यकप्रतिभासे विस्तरातीतस्याप्यतीतया प्रतिभा शक्तिरित्यनाद्यता तज्जन्मपरम्पराप्रतिभासस्य वा / तदसङ्गतम्। न ह्यकस्य व्यवहितस्य प्रति तादगध्यक्ष भवेत, यच वाचो ध्यापिताऽपदार्थात्मतया च नार्थदेशे सन्निधिरिति तद्दर्शनेन सा प्रतिभातीति तत्सिद्धमेव साधितम् / यच्च व्यवहितायास्तु वाक्प्रतिभासे निखिलातीतार्थपरम्परप्रतिभासिनामिति / तदसङ्गतम्। नाकस्य व्यवहितस्य प्रतिभासे अतीतक्षणवत्सकलस्य व्यवहितस्य चिरातीतक्षणस्येव प्रतिभासः संभवीत्युक्तत्वात् / यच समनन्तरप्रत्यया च बोधरूपत्वे च वगृपताऽपि वाचकस्मृतिसन्निहितोदया भविष्यतीति। तद्युक्तमेवा यच हेतुविषयभेदादेकस्मृतिप्रभवसंवेदनस्मरणयोर्भेदप्रसक्तिरिति तदसङ्गतमेव / चक्षूरूपालोके मनस्कारप्रभवस्य यथा रूपज्ञानस्य हेतुभेदेऽप्येकसामग्रीप्रभवत्वादभेदस्तथा विशिष्टशब्दस्मरणमनस्कारसचिवसामग्रीप्रभवस्य रूपमित्युल्लेखवतो विशदस्यैकतया प्रतीयमानस्य किमिति भेदो भवेत् ? यथा हि चक्षुषो रूपग्रहणं प्रति नियमो बोधाचिद्रूपता आलोकाद्विशदूतोत्पाद्यनेकधर्माऽऽक्रान्तस्य रूपज्ञानस्यकरूपतया प्रतिभाना
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy