________________ पचक्ख 74 - अभिधानराजेन्द्रः - भाग 5 पच्चक्ख अनुमानाऽऽदिभ्यो वक्ष्यमाणपरोक्षप्रकारेभ्योऽतिरेकेण यद्वि- शेषाणा नियतवर्णसंस्थानाऽऽद्यर्थाऽऽकाराणां प्रतिभासनं ज्ञानस्यतत् स्पष्टत्वमिति // 3 // रत्ना०२ परि०। (2) अत्र वैशेषिकाऽऽदय : प्राऽऽहुः-ननु ‘अक्षमिन्द्रियं श्रोतो हृषीकं करणं स्मृतं, ततोऽक्षाणामिद्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षा, अक्षमिन्द्रियं प्रतिवर्तते प्रत्यक्षमिति व्युत्पत्तेः। तथा चसलि सकललोके प्रसिद्ध साक्षादिन्द्रियाऽऽश्रितं घटाऽऽदिज्ञानं प्रत्यक्षमिति सिद्धम्। तदेतदयुक्तम्, इन्द्रियाणामुपलब्धत्वात्तदसंभवश्वाचेतनत्वात् / तथा चात्र प्रयोगःयदचेतनं तन्नोपलब्धं, यया घटोऽचेतनानिच द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुर्यतो नाम द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, निवृत्त्युपकरणे च पुद्गलगये, यथा चानयोः पुद्गलमयता तथाऽने वक्ष्यते / पुद्गलमयं च सर्वमचेतनं पुद्गलानां च काठिन्याबोधरूपतया चैतन्यं प्रतिधर्मीत्यायोगात् / धनुरुपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मिमभावो भवेत्ततः काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेनतः पुद्गलः / उक्तं च - "बोहसहावमुमुत्तं , विसयपरिच्छेयगं च चेयन्नं। विवरीयसहावाणि य, भूयाणि जगप्पसिद्धाणि / / 1 / / ता धम्मधम्मिभावो, कहमेसिं घडइ तहऽग्भुवगमे या श्रणुरूवत्ताभावे, काठिन्नजलाण किं न भवे ? ||2" इति। नापि संदिग्धानकान्तिकता हेतोःशड्नीया, अचेतनस्योपलम्भकत्वशक्त्यायोगात। उपलम्भकत्वं हिचेतनाया धर्मः, ततः स कथं सदभावे भवितुमर्हति ? आह-प्रत्यक्षवाधितेय प्रतिज्ञा, साक्षादिन्द्रियाणामुपलम्भकत्वेन प्रतीतेः / तथाहि-चक्षु रूपं गृह्यदुपलभ्यते, शब्दं कर्णी , नासिका गन्धमित्यादि / तदेतन्मोहावष्टडधान्तःकरणताविलसितम्। तथा हिआत्मा शरीरेन्द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्माऽमूनिवेन्द्रियाणि इति विवेक्तुमशक्नुवन्तो बालिशजन्तवः, तत्रापि युष्मादृशा कुशास्त्रसंपर्कतः कुवासनासङ्गमः, ततः साक्षादुपलम्भकानीन्द्रियाणीति, मन्यन्ते, परमार्थतः पुनरूपलब्धातत्राऽऽत्मैव। कथमेतदवसीयते इति चेत् / उच्यते-तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्। तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान्, ततः कालान्तरे देवविनियोगतश्चक्षुषोपगमेऽपि स तमर्थमनुस्मरति / तत्र यदि चक्षुरेव द्रष्टास्यात्ततश्चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत् / न ह्यात्मना सोऽर्थोऽनुभूतः, किं तु चक्षुषा, वक्षुष एवं साक्षात् दृष्डरवेनोपगमात्, न चान्येनानुभूतेऽर्थेऽन्यस्य स्मरण मा प्रापदिति प्रसङ्गः / अपि च-मा भूचक्षुषोपगमस्तथापि यदि चक्षुरेव दृष्टा ततः स्मरणमात्मनो न भवेत, अन्येनानुभूतेऽर्थे अन्यस्य स्मरणायोगात्, भवति च स्मरणमात्मनः, चक्षुषः स्मर्तृत्वेनाप्रतीतेरनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा। नेन्द्रियमिति तथा चात्र प्रयोगः-यो येषूपरतेष्वपि तदुलपलब्धानर्थान स्मरति स तत्रोपलब्धां तथा गवाक्षोपलब्धानामर्थानामनुस्मर्ता देवदत्तोऽनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियोपगमेऽप्यात्मा, इह रमरणमनुभवपूर्वकतया व्याप्तः, व्याप्यव्यापक-भाववानयोः प्रत्यक्षेणैव प्रतिपन्नः / तथाहि- योऽर्थोऽनुभूतः स स्मर्यते, नशेषः। तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेर्विपक्षे चातिप्रसङ्गो बाधकं प्रमाणम्. अनुभूते विषये यदि स्मरणं भवेत्ततोऽनमुभूतत्वाविशेषात् खरविषाणाऽऽदेरपि स्मरण भवेदित्यतिप्रसङ्गः, तस्माद् द्रव्येन्द्रियापगमेऽपि तदुपलब्धार्थानुस्मरणादात्मोपलब्धेति स्थितम्।। उक्तंच"केसिं चि इंदियाई, अक्खाइं तदुवलद्धिपच्चक्खं / तन्नो ताई जमचे-यणाइँ जाणंति न घडो व्य / / 1 / / उवलद्धा तच्छाया, तव्विगमे तदुवलद्धसरणाओ। गेहगवक्खोपरमे, वितदुवलद्धाणुसरिया वा / / 2 / / " अत्र वाशब्द उपमार्थः / अपरे पुनराहुः न वयमिन्द्रियाणामुपलब्धत्वं प्रतिजानीमहे / किं चैतदेव ब्रूमो-यदिन्द्रियद्वारेण प्रवत्तंते ज्ञानमात्मनि तत्प्रत्यक्षं, न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षान्नोपलब्ध इति वक्तव्यम्, इन्द्रियाणामुपलब्धिप्रतिकरणतया व्यवधायकत्यायोगात् न खलु देवदत्तो हस्तेन भुजानो हस्तव्यापारध्यवहितत्वात्साक्षान्न भोक्तेति व्यपदेष्टुं शक्यम्तदेत दसमीचीनम्, सम्यग् वस्तुतत्त्वापरिज्ञानात् / इह हियदात्मा च-क्षुरादिकमपेक्ष्यबाह्यमर्थमवबुध्यते तदाऽऽवश्यं चक्षुरादेः सा-दगुण्याद्यपेक्ष्यते / तथाहि-यदा सद्गुणं चक्षुस्तदा बाहामर्थ स्पष्ट यथावस्थितं चोपलभते, यदा तु तिमिराश्रुअमणनौयानपित्ताऽऽदिसंक्षोभदेशदवीयस्त्वाऽऽद्यापादितविभ्रम, तदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धौ पराधीनः, तथा च सति यथा राजा निजदीवारिकेनोपदर्शितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समीचीनमसमीचीनं वा राजा निजदौवारिकवचनत एव प्रत्येति, न साक्षात्तद्वदात्माऽपिं चक्षुरादिनोपदर्शितं बाह्यमर्थ चक्षुरादिप्रत्ययत एव समीचीनमसमीचीनंवा वेत्ति, न साक्षात्। तथाहि-चतुरादिनोपदर्शितऽपि व होऽर्थे यदि संशयमधिरूढो भवति, तर्हि चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चय विदधाति, यथा न मे चक्षुस्तिमिरोपप्लुतं नौयानाश्रुभ्रमणाऽऽद्यापादितविभ्रमं वा, ततोऽयमर्थः समीचीन इति। ततो यथा राज्ञो नाऽयं मम राजा दौवारिकोऽसत्यालापी कदाचनाप्यस्य व्यभिचारानुपलम्भादिति निजदौवारिकस्य साद्गुएयमवगम्य परराष्ट्रराजकीयपुरुषसमीचीनताऽवधारणं परमार्थतः परोक्षं तद्वदात्मनोऽपि चक्षुरादि-साद्गुएयाबधारणतो वस्तुयाथात्म्यावधारणं वस्तुतः परोक्षम्। नन्विदमिन्द्रियसादगुण्यावधारणतोवस्तुयाथात्म्यावधारणमनभ्यासदशामापन्नस्योपलभ्यते, नाभ्यासदशामुपगतस्य, अभ्यासदशामापन्नो ह्यभ्यासप्रकर्षसामादिन्द्रियसाद्गुण्यमनपेक्ष्यैव साक्षादवबुध्यते, ततस्तस्येन्द्रियाऽऽश्रितं ज्ञानं कथं प्रत्यक्ष न भवति? तदप्ययुक्तम्। अभ्यासदशामापन्नस्यापि साक्षादनवबोधस्यापीन्द्रियद्वारेणावबोधप्रवृत्तेरवश्यमिन्द्रियसादगुण्यपिक्षणात् केवलमभ्यासप्रकर्षवशात्तदिन्द्रियसादगुण्य झटित्येवायधारयति, पूर्वावधृतं च झटित्येय निश्चिनोति। ततः कालसौक्षम्यात्तन्नोपलभ्यते, इत्थं चैतदङ्गीकर्तव्यं, यतोऽवश्यमवायज्ञानमवग्रहेहापूर्वम्, ईहा च विचारणाऽऽत्मिका, विचारश्चेन्द्रियसाद्गुण्यसद्भूतवस्तुधर्माश्रितः, अन्यथैकतरविचाराभावेऽवयवज्ञानस्य सम्यगज्ञानत्वायोगात, नखल्विन्द्रिय-वस्तुनि वा सम्यग्विचारितोवा यज्ज्ञानं समीचीनं भवति, ततोऽभ्यासदशाऽऽपन्नेऽपीन्द्रियसाद्गुण्वावधारणमवसेयम् / यदपि चोक्तम् “न खलु देवदत्तो हस्तेन भुञ्जानोक हस्तव्यापारव्यवहितत्वात् न साक्षाद्भोक्तेति व्यपदेष्टुशक्यमिति।" तदप्ययुक्तम् / दृष्टान्तदाान्तिकार्थवैषम्याद्। भोक्ता हि भक्तिक्रियानुभवभगी भण्यते, भुजिक्रियाऽनुभवश्च देवदत्तस्य न हस्तेन विधीयते, किं तु सा -