________________ पचक्ख 76 - अभिधानराजेन्द्रः - भाग 5 पञ्चक्ख देकतया तथा विशिष्टार्थस्मरणमनस्कारादूपमितिविशिष्टोल्लेखाऽऽक्रान्तस्यैकतया प्रतीयमानस्य बोधविशेषस्यैकरूपता युक्तिसङ्ग तैव / सामग्रथन्तर्गतकारणाभेदेऽपि सामग्रीलक्षणस्य कारणस्याभिन्नत्वात् / यदपि तटस्थवागूपताविशिष्टा वा अर्थमात्रा गृह्यते, वाररूपतनापन्ना वा ? तत्पक्षद्वयमप्यनभ्युपगमान्निरस्तम्, विशिष्ट - शब्दवाच्यतया तु विशिष्टक्षयोपशमसव्यपेक्षेन्द्रियजप्रतिपत्त्याऽर्थमात्रा गृह्यत एव, तद्बाच्यत्वं वाऽर्थमात्राणां कथञ्चिदनभिभूतो निजो धर्म इति प्रतिपादितं शब्दप्रामाण्यं व्यवस्थापयद्भिः केवलं तद्वाच्यताप्रतिपत्तिस्तासा मतिः श्रुतं वेत्यत्र विचारः। स च यथास्थानं निरूपयिष्यते। अक्षं प्रभवानुरूपमिदमिति प्रतिपत्तिरूपशब्दवाच्यताविशिष्टाऽर्थग्राहिण्येकास्वसंवेदनाऽध्यक्षतोऽनभतएव, अस्या अपलापे स्वसंवेदनामात्रस्याप्यपलापप्रसक्तेः शून्यतामात्रमेव स्यात्। न च शब्दगोचरोऽर्थ इन्द्रियविषयः, सामान्यविशेषाऽऽत्मनस्तस्याक्षप्रभवप्रतिपत्तो प्रतिभासनात् न च प्रतिभासमानस्याविषयत्वम्, अतिप्रसङ्गात् / तच न संविदितरप्रतीतोऽर्थः संविदन्तरप्रतीतस्य विशेषणम्। तदयुक्तमेव। विशिष्टशब्दवाच्यताविशेषणस्य रूपस्य रूपमिदमित्येकप्रतीतिविषयत्वाभ्युपगमात्। अत एव केयं तदनुरक्ततेति विकल्पनये यद्दोषाभिधान, तदनभ्युपगमादेव निरस्तम्। यदपि यदि नामः परिणद्धा यस्य सकलमार्थस्य संवित्तदाऽर्थसंवेदमेव न भवेदिति दोषाभिधानम्, तदप्यनभ्युपगमान्निरस्तम्। न हि शब्दानुविद्धार्थप्रतिपत्तिरेव सविकल्पिका, तथाऽभ्युपगमे सविकल्पप्रतिपत्तिरेव न भवेदित्युक्तं प्राक् / अग्रहीतसंकेतस्य पुंसोऽर्थप्रतिपत्तिर्विकल्पिका, तथा च विकल्पयतो गोप्रतिपत्तिः गोशब्दोल्लेखविकलेत्यत्रापि प्रति विहितमेव / व्युत्क्रामेयदपि वपता चेदित्यादिदोषाऽभिधानं, तच सिद्धसाध्यतया निरस्तम्।यच समानकालयोर्वा भावयोः विशेषणविशेष्यभावमिन्द्रियप्रतिपत्तिरधिगच्छति, भिन्नकालयोर्वेति पक्षद्वयेऽपि दोषभिधानम्। तदप्यसङ्गतम् / यत्र हि समानासमानकालविशेषणविशिष्टोऽथेः अबाधिताकाराक्षजप्रतिपत्तौ प्रतिभाति, सा तदग्राहिकाऽभ्युपगम्यते नान्येति कुतोऽतिप्रसङ्गदोषावकाशः,यथा च स्तम्भाऽऽकारोत्पन्नैकपरमाणुग्रहणप्रवृत्तं संवेदनं भिन्नदेशं परमाण्वन्तरमवभासयति, अन्यथा प्रतिभाऽतिविरतिप्रसङ्गात्। तथाहि-विशेषग्रहणप्रवृत्तं विशेष्यावभासि तदभ्युपगन्तव्यम्, अन्यथा विशेषणविशेषार्थावभासाभावो भवेदित्युक्तं प्राक् / न च विशेषणविशेष्यभावस्यानवस्थानाद् न समानकालयोरपि तयोः सद्भावप्रतिपत्तिः, अनेकधर्मकलाऽऽक्रान्तस्य वस्तुनो विशिष्टसामग्रीप्रभवप्रतिपत्त्या प्रतिनियतधर्मविशिष्टतया ग्रहणात् / न चाऽगिदग्दर्शने अशेषधर्माध्यासितवस्तुस्वरूपप्रतिभासः कस्यचित् कथञ्चित् कयाचित्प्रतिपत्त्या, यथा क्षयोपशमग्रहणात्। न च तत्प्रतिपत्याऽगामाणस्थाऽऽत्यन्तिकस्ततो भेदः, असत्त्वं चाऽऽदेरपि नीलप्रतिपत्त्याऽप्रतीयमानस्य तथात्वप्रशक्तेरिव्युक्तत्वात्। यदपि पुरोवर्तिनिरूपे प्रवृत्तमक्ष यद्यतीले विशेषणाऽऽदौ प्रतिपत्तिमुपजनयति, अतिविरतिमुपगतासु यदा परम्परास्वपि प्रतिपत्तिमुपजनयेत / तदप्ययुक्ताभिधानम्। यतो यदेव ह्यक्षमतो परिस्फुट प्रतिभाति तवाक्ष प्रतिपत्तिमुपरचयतीति व्यवस्थाप्यते, अन्यथैफ कस्तम्भपरिणत्यापन्नैकपरमाणुग्रहणज्ञानजननप्रवृत्तमक्षं तदपरपरमाणुग्रहणज्ञानजननवत् सकलपदार्थग्राहिज्ञा- | नजननेऽपि प्रवर्तते, भेदाविशेषाद् भवद् भ्युपगमेनानन्तरातीतक्षणग्रहणज्ञानजननप्रवृत्तं वा सकलातीतक्षणग्रहणज्ञानजनने वा प्रवर्तते, अतीतत्वाविशेषात् / अथ यदेव तज्ज्ञाने प्रतिभाति, जनन एव तस्य व्यापारः परिकल्प्यते, तदितरत्रापि समानम् / न च विशेषणाऽऽदयस्तदाऽसन्निहिता एवैकान्ततो येन तान् प्रति प्रत्यक्षबुद्धिनिरालम्बने भवेत् / निरन्वयक्षणक्षयस्य निषिद्धत्वात् कथञ्चिदनुगतस्य च प्रसाधितत्वात् / यदपि सुखाऽऽदिव्यतिरिक्तस्याक्षप्रभवसंवेदनस्या विभासकत्वं प्रतिपादितं, तदपि सिद्धसाधनमेव / यच्च सुखाऽऽदिवद्विकल्पोऽपि नार्थसाक्षात्करणस्वभाव इत्यत्र यद्यविशेषेण विकल्पमात्रं विधीयते तदा सिद्धसाध्यता / अथ प्रकृतो विकल्पस्तदाऽसिद्ध, तमन्तरेणापरस्यार्थसाक्षात्कारिणोऽविकल्पस्याभावात् / यदपि यदि नाम पुरोवर्तिनमर्थ विकल्पमतिरुद्योतयति / तथा क्रिया समर्थरूपा अपरिच्छेदान्न तत्र प्रवृत्तिमारचयितुंक्षमेति। तदप्ययुक्तम्। अर्थक्रियासमथरूपस्य तस्या एव परिच्छेदकत्वेन प्रवर्तकत्वादन्यथाप्रवृत्तेरभावप्रसङ्गात्। तामन्तरेण कस्यचित् प्रत्ययस्य तद्रूपयोगादपि प्रतिपादनात्। अतएव यदि नयनप्रसरमनुसरन्ती प्रथमा मतिर्न तत्त्वं प्रत्येति, पश्चादपि नैव प्रत्येष्यति, स्मरणसहायस्याऽपि लोचनस्य विषयतयेकत्वेन प्रतिपत्त्यजनकत्वादित्यादि सर्व प्रतिक्षिप्तम्, स्थिरस्थूरावभास्यक्षप्रभवसंवेदनाध्यक्षतः प्रसिद्धः / तथाऽपिः तत्त्वस्याक्षप्रतिपत्तिविषयत्वे संवेदनस्य स्वसंवेदनाध्यक्षविषयताऽपि न भवेत्। अवाधितप्रतिपत्तिविषत्वाऽऽदिकं च सर्वमन्यत्रापि समानम्। अथ स्वसंवेदनं वेदनाभावेन दृष्टमिति तत्तद्विषयं, संवेदनं तु विषर्ययान्न तद्विषयम। ननु? क्षकिनिरंशकपरमाण्याकारसंवेदनाभावे तन्न दृष्टमुत तद्विपरीतसंवेदनाभाये। यद्याद्यः पक्षः-सनयुक्तः सर्वदातद्भाव एव तस्य दृष्टः। अथ द्वितीयस्तदा विषर्ययसिद्धि यथा स्थिरस्थूराऽऽकारसंवेदनाभावे अभवत् स्वसंवेदनं तद्विषय सिद्ध्यति / स्थिरस्थूरार्थाभावे संवेदनं किं न तद्विषयं सिद्ध्यति, येन लोचनाविषयत्वंतत्त्वस्य भवेद।यथा पूर्वदिग्देशादर्शनाद्नामग्रहणेऽपीदानीतनदर्शनन खग्राह्यस्य तद्विवेकः प्रतीयते, तथाऽनेन तस्य तत्संपृशता किमिति नावगम्यत इति न युक्तम्, पूर्वदर्शनाद्यप्रतीतौ तदृष्टताऽऽदिक तस्य न प्रत्येतुं शक्यमित्याद्यभिधानम् / यदि प्राप्याप्रतीतावपि दृश्यदशनन स्वग्राह्यस्य तदेकत्व प्रतीयते, अन्यथा तस्याविसंवादकत्वा योगात प्रमाण्यं न स्यात्, किमित्यर्थक्रियादर्शने तत्समर्थरूपा प्रतिपत्तिर्येन प्रकृतिविकल्पात्प्रवृत्तिर्न भवेत्। यदपि स्मर्यमाणस्यार्थस्य सत्तासिद्धेस्तवृत्तिस्मृत्यनन्तरभाविनोऽध्यक्षस्य सत्यतेत्यादीतरेतराश्रयत्वं प्रेरितं, तत् खसंवेदनेऽपि समानम् / तथा हिसंवेदस्य सत्यत्वे तत्स्वसंवेदनस्य सत्यवेदिता, तस्याश्च तत्सत्येति कथं नेतरेतराश्रयत्वम् ? यथा च लिङ्गनिश्चयाद्विशदतनोरनुमितिरविशदावभासा पृथगवसीयते, न तथा प्रकृतविकल्पात् प्रथमविकल्पिका मतिः कदाचिदप्यनुभूयत इति / तत्सत्यमेवा निरंशक्षणिकैकपरमाण्ववभासस्यासत्त्वप्रतिपादनात। यदपि चचाऽपि लिङ्गतः पश्चादिन्द्रियस्य प्रवर्तनमित्यादि प्रत्यर्थिगिरयोपन्यस्त तत्सर्वमयुक्ततया स्थितम्। यदपि जात्यादेरभावात्तद्विशिष्टाऽर्थप्रतिपत्तिः सविकल्यिका संभवतीति। तदपि प्रतिक्षितत्वान्न पुनः प्रतिसमाधानमर्हति / यच फलयोम्यता परोक्षेति नाध्यक्षप्रतिपत्तिर्निश्चयात्मिका प्रवर्तत इति / तदपि प्रतिविहितमेव / यच दर्शनपरिणत्यनवगतफल