________________ पचक्ख 77- अभिधानराजेन्द्रः - भाग 5 पचक्ख संबन्धित्वमवगच्छन्ति कथं तद् भिन्नविषयेति। तत्सिद्धमेव साधितम्। ततिरेकेण दर्शनपरिणतेरविकल्पिकाया अभावात्। यदपि रूपदर्शनाल्लिङ्गात्परोक्षार्थक्रियायोग्यताऽध्य वसायानुमानमुदयमासादयति, तद् व्यवहितमुफ्जनयतीति। तदप्ययुक्तम्। फलजननयोग्यतायाः परोक्षत्वासिद्धेः प्रतिभासमानरूपस्य वा निश्चितस्य लिङ्गत्वायोगादनुमानात्तविश्येऽनवस्थाप्रतिपादनात् / अध्यक्षतस्तन्निश्चये च सिद्धं निर्णयाऽऽत्मकमध्यक्षम् / यदप्यनिश्चयाऽऽत्मकमध्यक्षमभ्यासदशायां प्रवृत्ति सुपरचयत् दृष्ट, तदप्यसंगतम्। शब्दोल्लेखशून्यस्यापिसावयवैकरूपार्थाधिगतिस्वभावस्य सविकल्पकतया व्यवस्थापनात, तमन्तरेणाभ्यासदशायामपि प्रवृत्तेः / यत्पुनः सर्वदाऽनुमानात् प्रवृत्त्यभ्युपगभे लिङ्गग्रहणाभावतोऽध्यक्षणानवस्थादूषणभभ्यधायि, तद्युक्तमेव / यदपि पौर्वापर्य अप्रवृत्तमध्यक्ष कथं तादृगलिङ्गग्रहणे क्षममिति पूर्वपक्षस्तु स्थाप्यलोकाभिमनादेवाध्यक्ष, लिङ्गग्राहिव्यहारिकृत् च। तत्त्वतस्तुस्वसंविनाभावान्न प्रत्यक्षानुमानभेद इत्युत्तराभिधानम् / तदप्यसंगतम्, प्रत्यक्षानुमानभेदस्यापारमार्थिकत्वे स्वसंवेदनमात्रस्याप्यपारमार्थिक त्वप्रशक्तेः सर्वशन्यत्ताऽऽपत्तिरित निर्विकल्पकत्वाऽऽदिव्यवहारो दूरापास्त एव स्यात् / न च शून्यता चाऽस्त्वित्यभिधानं युक्तिसंगतम्, प्रमाणमन्तरण तदभ्युपगमस्याप्यघटमानत्वात् इत्युक्तत्वानदेव सकलबाधकाः सविकल्पकाः, प्रमाणविषयत्वात्, सविकल्पकमध्यक्ष सिद्धमिति व्यवस्थितप्रमाणं स्वार्थनिण्णीत स्वभावं ज्ञानमिति / अत्र च स्वत्य ग्रहणयोग्योऽर्थः स्वार्थ इत्यस्यापि समारसरयाऽऽश्रयणा व्यवहारिजनापेक्षयाऽस्य यथा यत्र ज्ञानस्याविसंवादस्तस्य तथा तत्र प्रामाण्यमित्यभिहितं भवति। तेन संशयाऽऽदेरपि धर्मिमात्रापेक्षया न प्रामाण्यव्याहतिः / एतेन ''प्रत्यक्ष कल्पनाऽपोढमभ्रान्तम्।'' इति प्रत्यक्षलक्षणं सौगतपरिकल्पितमयुक्ततया व्यवस्थापितम्। (५)तत्राऽऽहुर्नयायिकाः- मा भूत् सौगतपरिकल्पितं निर्विकल्पकमध्यक्ष प्रमाणम्, 'इन्द्रियार्थसन्निकर्षात्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायाऽऽत्मकं प्रत्यक्षम्।" इत्येतल्लक्षणलक्षितं तु पत्यक्ष प्रमाणम्। अस्यार्थः इन्द्रियं द्रव्यत्वकरणत्वनियताधिष्ठानत्वातीन्द्रियत्व सत्योक्षोपलब्धिजनकत्वात् चक्षुरादिमनः -पर्यन्तः,तस्यार्थः परिच्छेद्य इन्द्रियार्थः पृथिव्यादिगुणा रूपाऽऽदयस्तदर्थाः।" इति तदर्थलक्षणत्वात्।तदर्थ इति लक्षणनिर्देशः, तदर्थत्वं लक्षणं, तदर्थत्वं पञ्चेन्द्रियार्थत्द, न तु तदर्था इत्येतावदेवास्तु तदर्थलक्षणम् / पृथिव्यादिगुणग्रहण तुनकर्तव्यं, ननुतदर्थत्वेन लक्षणेन संगृहीतास्तेषां विभागार्थ पृथिव्यादिगुणग्रहण-तथा चोद्योतकरः- पृथिव्यादिग्रहणेन त्रिविध द्रव्यमुपलब्धिलक्षणशासं गृह्यते। गुणग्रहणेन सर्वो गुणोऽस्मदाद्युपलब्धिलक्षणप्राप्त आश्रितत्यतिशेषणत्वाभ्यामेवं पृथिव्यादिगुणग्रहणं लक्षणविभागसूत्रोपलक्षणार्थम्। नन्वेवमपि रुपाऽऽदिग्रहणं व्यर्थ, गुणग्रहणेन संगृहीतत्वान्न विशेषलक्षणप्रतिपादनार्थत्वात्। तथा च प्रतिपादितम्-पृथिव्यादिगुणस्य सतश्चक्षुाह्यत्वमेव यस्य तद्रूपं चक्षुहां, यत्तद्रूपमित्यभिधीयमाने घटाऽऽदावतिप्रसक्तिन्तन्निवृत्यर्थमवधारणम्।तथाऽपि रूपत्वेऽतिप्रसङ् गः, निवृत्त्यर्थ पृथिव्या दिगुणग्रहणम्। एवं रसाऽऽदिष्वप्येकाऽऽदिव्यवहारहेतुः संख्येत्यादि विशेषलक्षणं वैशेषिकमतप्रसिद्ध सवंत्र दृष्टम्। नन्वेव रूपाऽऽदीनामपि विशेषणलक्षणं न वाच्यम् , तत्रैव प्रसिद्धत्वाभावप्रतिपत्तिज्ञापनार्थत्वात् / रूपाऽऽदयो हि बहुभिर्विषयत्वेन संप्रतिपन्ना इति पञ्चानामपि लक्षणाऽऽद्यभिधानम् / पुरुषस्य चैतेऽतिशयेन शक्तिहेतवः / एतावत्त्वत्रोपयुज्यतेइन्द्रियविषयभूतोऽर्थशब्देनाभिप्रेतः, नार्थमात्र, तेन सन्निकर्पप्रत्यासत्तेरिन्द्रियस्य प्राप्तिः, तस्य च व्यवहितार्थानुपलब्धया सद्भावः सूत्रकृता प्रतिपादितः, तत्सद्भावे सिद्धे पारिशेष्यात् तत्संयोगाsऽदिकल्पना, परिशेषश्चेन्द्रियेण सार्द्धद्रव्यस्य संयोग एव, अयुतसिद्धत्वात्। गुणाऽऽदीनां द्रव्यसमवेतानां संयुक्तसंमवायोद्रव्यत्वेसति अत्र समवायत्, तत्समवेतेषु संयुक्तसमवेतसमवाय एतान्यस्यासंभवाप्राप्तेश्च प्रस्राधितत्वात् शब्दे समवाय एवाऽऽकाशस्य श्रोत्रत्वेन व्यवस्थापितत्वात, शब्दस्य च गुणाभावात्, गुणत्वेनाथाऽऽकाशलिङ्गत्वादाकाशसमवायित्वं निश्चितमिति समवाय इत्युक्तं शब्दत्वे समवेतसमवाय एव परिशेषात् लक्षणस्य च तैर्विघातः कथमेतल्लक्षणं व्यवच्छिनत्तीत्यन्यव्यवच्छेदार्थमिन्द्रियार्थसन्निकर्षः कारणमित्यभिधीयते। कारणत्वेऽप्यसंभविदोषाऽऽकारपरिजिहीर्षयाऽत्याननुयायिकारणवचनं, न त्वन्याननुयायिकारणनिवृत्तिरेवभूतस्येन्द्रियार्थसन्निकर्षस्यैव कारणत्वाभिधानं, नत्वन्तःकरणेन्द्रियसंवन्धस्य तस्य व्यापकत्वात्। अव्यापकत्वं तु सुखाऽऽदिज्ञानोत्पत्तावसंभवात्। अथ संनिकर्षग्रहणमेवास्तुसंग्रहणं व्यर्थ न संशयाऽऽदिज्ञाननिवृत्त्यर्थत्वात् संशब्दोपादानस्य / तथाहि-सम्यग निकर्षः संनिकर्षः / सम्यक्त्वं तु तस्य यथोक्त विशेषणविशिष्टफलजनकत्वेन नैतदतिचाराऽऽदिपदोपादानवैयर्थ्यप्रसक्तेः, तदर्थस्य संशब्दोपादानादेव लब्धत्वात् नाव्यभिचाराऽऽदिविशेषणोपादानमन्तरेण तत्सम्यक्त्वस्य ज्ञातुमशक्तेः, तदर्थस्य संशीतिकरणस्यातीन्द्रियस्य सम्यक्त्वं वा सम्यग कार्यद्वारेणैव निश्चीयत इति तत्फ लविशेषणार्थमव्यभिचाराऽऽदिपदोपादानं कारणं साधुत्वावगमनव्यापारः / नन्वेमपि संशब्दोपादानानर्थक्यम्, अव्यभिचाराऽऽदिपदोपादानात्। अथ तत्फलस्य विशेषितत्वान्न संग्रहणस्य सन्निकर्षषट्कप्रतिपादनार्थत्वादेतदेव सन्निकर्षषट्क ज्ञानोत्पादे समर्थकारणं, न संयुक्तसंयोगाऽऽदिकमिति संग्रहणाल्लभ्यते। नन्वेवमपीन्द्रियग्रहणानर्थक्यं नानुमानव्यच्छेदार्यत्वात् / तथा हिअर्थसन्निकर्षादुत्पन्नमित्यभिधीयमाने अनुमानेऽतिप्रसङ्ग इतीन्द्रियग्रहणम् / इन्द्रियविषयेऽर्थे संनिकर्षाऽऽद्यदुत्पद्यते ज्ञान तत्प्रत्यक्षमनुमानाऽऽदिभ्यो व्यवच्छेदेनेति / न चानुमानिकमिन्द्रियसंबन्धादिन्द्रियविषये समुत्पद्यत इति / तथाऽप्यर्थग्रहणमनर्थकमिति चेत्। न। स्मृतिफलसन्निकर्षनिवृत्त्यर्थत्वाद्। न ह्यात्मनः करणसंबन्धात् स्मृतिरुपजायत इति जनकस्यापि प्रत्यक्षत्वं स्यादसत्यर्थग्रहणे, तचेन्द्रियार्थग्रहणमनर्थसन्निकर्षजा स्मृतिः, अतीतेऽपि स्मर्यमाणत्वात्तस्य च तदा सत्त्वादुत्पत्तिग्रहणं कारकत्यज्ञापनार्थम, ज्ञानग्रहणं सुखाऽऽदिनिवृत्त्यर्थम् / नचतुल्य कारणजन्यत्वात् ज्ञानसुखा दीनामेकत्वमिति, तन्निवृत्त्यर्थ ज्ञानग्रहणं न कार्यम्। तुल्यकारणजन पस्या सिद्धत्वात् / वक्ष्यति च चतुर्थेऽध्याये-"एकयोनयश्च पाकजाः " च तेषामेकत्वमिति व्यभिचारः, प्रत्यक्षविरोधश्च सुप्रसिद्ध एव / तथा- आल्हादाऽऽदिस्वभावाः सुखाऽऽदयोऽनुभूयन्ते, ग्राह्यतया च, ज्ञानं वावगमस्वभावं ग्राहकतयाऽनुभूयत इति ज्ञानसुखाद्योर्भेदोऽध्यक्षरिद एव, विशिष्टादृष्टकारणजन्यत्वात् सुखाऽऽदेः / सुखाऽदिजोला' याच न भिन्नहेतुजत्वमसिद्ध, ज्ञानसुखाऽऽद्योरतो बोधजनकर ज्ञापना ज्ञानग्रहणम्, अव्यपदेशग्रहणमप्यतिव्याप्तिनिवृत्त्यर्थम्, व्यपदेशः शब्दस्तेनोन्द्रियार्थसन्निकर्षेण चोत्पादितमध्यक्ष शब्देऽनन्तर्भावात् स्यात् तन्नि