________________ पचक्ख 75 - अभिधानराजेन्द्रः - भाग 5 पचक्ख - - वृत्त्यर्थमव्यपदेश्यपदोपादनम्, नन्विन्द्रियविषयशब्दस्य सामान्यविषयत्वेन व्यपारासंभवादिन्द्रियस्य च स्वलक्षणविषयत्वान्नोभयारेकविषयत्वमिति, न तज्जन्यमेक ज्ञानं संभवति / न च तयोभिन्नविषत्वस्य 'व्यवल्याकृतिजातयरतुः।' पदार्थ इत्यत्र निषेत्स्यमानत्वात्तद्धावभावित्वाचोभयजनत्वं ज्ञानरयावगतमेव। तथाहि-चक्षुर्गोशब्दव्यापारे सत्यय गौरितिविशिष्टकाले ज्ञानमुपजायमानमुपलभ्य एव, तद्भावभावित्वेन चाऽन्यत्रापि कार्यकारणभावो व्यवस्थाप्यते, तचात्रापि तुल्यमिति कथं नोभयज ज्ञानम्।नचान्तःकरणानधिष्ठितत्वदोषः, चक्षुषस्तेनाधिष्ठानात् शब्दस्य च प्रदीपवत्कारणत्वात् न च ग्राह्यत्वकाले शब्दस्य करणत्वमयुक्तम्, श्रोत्रस्यैव तदा करणभावात्, शब्दस्य तु तदा ग्राह्यत्वमेव, गृहीतस्य चोत्तरकालमन्तः-करणाधिष्ठितचक्षुः सहायस्यार्थप्रतिपत्ती व्यापार इति भवत्यु भयजं गौरिति ज्ञानम् / न चास्य प्रमाणान्तरत्वं युक्तम, उभयविलक्षणात् शाब्दे अव्यपदेश्यविशेषणस्याभावात्प्रत्यक्षेच सादृश्यशब्दत्वात् / न च शब्देनैव यजन्यते न शब्दमिति शाब्दलक्षणे नियमोऽपि शब्देन यजनित शब्दमस्ति च प्रकारान्तरे एतद्रूपमिति कथं न शाब्दम् / न चैतदत्रास्ति न चाप्रमाणव्यभिचारित्वाऽऽदिविशेषणायोगात्। न चानुमानक्षधर्मत्वाऽऽधभावात्प्रत्यक्षमप्येतन्न भवति, शब्देनाऽपि जन्यत्वान्नाप्युपमानं, तल्लक्षणविरहात् / पारिशेष्यात् शाब्दम्। ननु शाब्दमपि न युक्तम् / इन्द्रियेणापि जनितत्वात्, न शब्दस्यात्र प्राधान्यात्। प्राधान्यं च तस्य प्रभूतविषयापेक्षया यतोऽसौ न क्वचिद व्याहन्यते। तथाच प्रत्यापदि भाष्यकृतायात्रदा वैनामधेयशब्दा इति / नन्वेवमिन्द्रियं, तस्य स्वर्गाऽऽदै प्रतिहन्यमानत्वात्तस्मात्प्राधान्यात् शब्देनैव व्यपदेशः, व्यपदेशकर्मताऽऽपन्नज्ञाननिवृत्त्यर्थमव्यपदेश्यमिति विशेषणमिति केचित् प्रतिपन्नाः, ताथाहीन्द्रियार्थसन्निकर्षादुपजातस्य ज्ञानस्य शब्देनानभिधीयमानस्य प्रत्यक्षत्वमयुक्तम्, एतत्प्रदीपेन्द्रियसुवण्णाऽऽदीनामभिधीयमानत्वेऽपि प्रत्यक्षत्वानिवृत्तेः / नच ज्ञानस्यभिधीयमानत्वे करणत्वय्याहतिः / शक्तिनिमित्तत्वात्कारकशब्दस्य / न ह्यभिधीयमानार्थोऽन्यत्र लदैव परिच्छित्ति न विदधाति न चायं न्यायो नैयायिकै भ्युपगतः, प्रमेया च तुला प्रामाण्यवदित्यत्र प्रतिपादयिष्यमाणत्वात्, फलविशेषगणपक्षेऽप्यभिधीयमानस्य स्वकारणव्यवच्छेदकत्वमस्त्येव शब्दवानिवृत्त्यर्थमेतदित्येतदप्ययुक्तम् / अप्रकृतत्वात् / शब्दप्रमेयत्वेऽपीनिद्रयार्थसन्निकर्षोत्पन्नत्वं ज्ञानस्य संभवति किमनेन विशेषणेन कृत्यम् / तथाहि इन्द्रियविषयभूतेन रूपेण शब्देन वा जातं ज्ञानमिति सर्वथा लक्षणं युक्तिमदेव विशेषणं वाऽतिव्याप्त्यादिदोषनिवृत्त्या लक्षण उपादेयम्, न परपक्षव्युदसार्थम्, इन्द्रियार्थसन्निकर्षादुपजातं शब्देन वा जनितं व्यभिचारि ज्ञानं न प्रत्यक्षव्यवच्छेदकमित्यव्यभिचारिपदोपादानम्, इन्द्रियजत्वं च मरीचिषूदकज्ञानस्य तदभावभावित्वेनावसीयते, मरीच्यालम्बनत्वमपि तत एवावसीयते, मरीचिदेश प्रति प्रवृत्तेश्व, पूर्वानुभूतोदकविषयत्वे तुतहे- व प्रवृत्तिर्भवेत्, न मरीचिदेशे, भ्रान्तत्वान्न तद्देशे प्रवर्तत इति चेद्य एवाभ्रान्तः स उदकस्मरणादुदकदेश एव प्रवर्त्तते, अयं तु भान्त इत्ययुक्तमेतत्, भ्रान्तिनिभित्ताभावदिन्द्रियव्यापार एव तन्निमित्त एव इति युक्तमेतत, तत एवेन्द्रियजत्वसिद्धः / न च स्मृति बाह्यन्द्रियजा दृष्टा, इदं तु बाह्यन्द्रियजमिति न स्मृतिः / ननु कथमुदकज्ञानस्याऽऽलम्बनं मरीचयोऽप्रति भासमाना उक्तमेतत्तेषु सत्सु भावादस्य। ननु यद्येतदनुदके उदकप्रतिभासनं भवत्यन्यत्र किमिति न भवेत्, न भवत्यन्यस्योदकेन सारूप्याभावात्, तस्मादुदकसरूपामरीचय एव देशकालाऽऽदिसव्यपेक्षउदकज्ञानं जनयन्ति / तथाहि-सामान्योपक्रम विशेषपर्यवसानमिदमुदकमित्येकं ज्ञानं तस्य सामात्यवावर्थः स्मृत्युपस्थापितविशेषापेक्षो जनकस्तिरस्कृतस्याऽऽकारस्यागृहीताऽऽकारान्तरस्य सामान्यविशिटस्य वस्तुनो विषर्ययजनकत्वे तथाविधस्येन्द्रियेण संबन्धोपपत्तेःकथं नेन्द्रियार्थसन्निकर्षजो विपर्ययः / नन्वस्य शब्दसहायेन्द्रियार्थसन्निकर्षजत्वेन नाव्यभिचारिपदव्यवच्छेद्यत्वम्, अव्यपदेश्यपदेनैव निरस्तत्वान्न प्रथमाक्षसन्निपातजस्य शब्दस्मरणनिमित्तस्येन्द्रियार्थसन्निकर्षप्रभवस्या-शब्दजन्यस्याह्यभिचारिपदापोह्यत्वाभ्युपगमात् अभ्युपगमनीयं चैतत्, अन्वथोदकशब्दस्मृतेरयोगात्। यत्सन्निधाने यो दृष्टस्तध्वनौ स्मृतिरिति न्यायात् / न च तरङ्गायमाणवस्तुसन्निधाने उदकशब्दस्य दृष्टिः, किंतूदकसन्निधौत एवातो मरुजङ्गलाऽऽदौ देशे क्वचिद् दूरस्थस्य निदाघसमये तरङ्गायमाणवस्तुनः सामान्यविशिष्टस्य दर्शनान्तरं तत्सहचरितोदकत्वानुस्मरणं, तस्मात्सामान्यवत्त्वाध्यारोपितोदकग्रहणम्, तत उदकशब्दानुस्मृतिस्ततोऽप्यनुस्मृतोऽप्युदकसहायादिन्द्रियार्थसन्निकर्षादुदकमिति ज्ञानमतो न पूर्वमुदकस्मृतेनिमित्तं तदिन्द्रियार्थसन्निकर्षत्वेनाव्यभिचारि यदापोह्यमिति केचित् संप्रतिपन्नाः / अपरे तु स्मर्यमाणशब्दसहायेन्द्रियार्थसन्निकर्षजमध्यव्यभिचारि-पदा पोह्यमेव मरीचिषूदकमितिशब्दोल्लेखवत् ज्ञानं मन्यन्ते, अव्यपदेश्यपदव्यवच्छेद्यं तु यत्र प्रथमत एवेन्द्रियसन्नि कृष्टार्थसंकेतानभिज्ञस्य श्रूयमाणात् शब्दात्पनसोऽयमिति ज्ञानमुत्पद्यते तत्र शब्दस्यैव तदवगतौ प्राधान्यात्, इन्द्रियार्थसन्निकर्षस्य तु विद्यमानस्याऽपि तदवगतावप्राधान्यात् तदेव व्यपदेश्यपदव्यवच्छेद्यं, न पुनरवगतसमयस्मर्यभाणशब्दसचिवेन्द्रियार्थसन्निकर्षप्रभवः, तत्र तत्सन्निकर्षस्यैव प्राधान्यावाचकस्य च तद्विपर्ययात् / ननु सामा यां कस्य व्यभिचार:- कर्तुमकरणस्य, कर्मणो वा ? तत्र स्वकारसंवरणेनाकारान्तरेण ज्ञानजननात् कर्मणो व्यभिचारः, कर्तृकरणयोस्तु तथाविधकर्मसहकारित्वादसाविति मन्यन्ते, भवत्वयं व्यभिचारो, न त्वेतन्निवृत्त्यर्थ मव्यभिचारपदोपादानमर्थवानिन्द्रियार्थसन्निकर्षजत्वादे तन्निवृत्तिसिद्धः, न हि ज्ञानरूपत्वेनेन्द्रियार्थसन्निकर्षजत्वे तत्र सिद्धे तस्माद्यदेतस्मिस्तदित्युत्पद्यते तद्व्यभिचारि ज्ञानं, तद्व्यवच्छेदेन तस्मिस्तदिति ज्ञानमयभिचारिपदसंग्राह्यम्। नन्वेवमपि ज्ञानपदमनर्थकमव्यभिवारिपदादेव ज्ञानसिद्धेः, व्यभिचारित्वं हि ज्ञानस्यैव तद्व्यवच्छेदार्थमव्यभिचारित्वमपि तस्यैवेति ज्ञानपदमनर्थकम्, इन्द्रियार्थसन्निकर्षो त्पन्नस्याज्ञान रूपस्यापि सुखस्य व्यभिचारातन्निवृत्त्यर्थ ज्ञानपदमर्थवत्, किं पुनः सुखं व्यभिचारि यत्परयोषिति। ननु कस्तस्य व्यभिचारो ज्ञानस्य क इति वाच्यम्। तस्मिस्तदिति भावात. ज्ञानत्वेऽपि तद्व्यभिचार्यसुखसाधनेपराङ्गनाऽऽदौ सुखस्य भावात् समानव्यभिचारित्वमिति सुखनिवृत्त्यर्थ ज्ञानपदमर्थवदेतच केचिद् दूषयन्ति / न हितापाऽऽदिस्वभावत्वं पराङ्गनायां सुखमुत्पद्यते, अपि त्वाहादस्वरूप, यथा स्वललनायां सुखसाधनत्वादेव वा शक्तिहेतुत्वादधर्मोत्पादकत्वेन तस्याभाविनिकाले दुःखसाधनत्वम्। न च यस्यैकदा दुःखजनकत्वन सर्वदा तद्रूयत्वमेव / अन्यथा पावकस्य निदाघसमये दुःखजनकत्वात् शिशिरेऽपि तजनकत्वमेव स्यात्। एवं देशाऽऽद्य