________________ पचक्ख 76 - अभिधानराजेन्द्रः - भाग 5 पच्चक्ख पेक्ष्याऽपि न लेयतरूपता भावानाम् / उक्तं च भाष्यकृता-- "सोऽयं प्रमाणार्थोऽपरिसंख्येय इति / " ततो व्यभिचाराभावान्न सुखानवृत्त्या ज्ञानपदोपादानमथवत् / न चैवमनर्थक्व मेवैतत्, धर्मप्रतिपादनार्थत्वादस्य / ज्ञानपदोपा हि धर्मी इन्द्रियार्थसन्निकर्षजत्वाऽऽदिभिविशिष्यते, अन्यथा धर्मभावे काव्यभिचाराऽऽदीन धमः तत्पदानि प्रतिपाटयेयुः। नच विशेषणसामर्थ्यात धर्मिणः प्रतिलम्भ इति वक्तव्यम तथाऽभ्युपगमे प्रत्यक्ष प्रत्यक्षमित्येव वक्तव्यं, शिष्यस्य सामर्थ्यलभ्यस्वात् यथोक्तविशेषणविशिष्ट संशयज्ञानं भवति, व्यभिचारिप्रतियोगि अव्यभिचारिकत्वा तत्रैतत्प्रत्यक्षव्यच्छेदकम्।नचास्येन्द्रियार्थसन्निभर्यजत्व नास्ति तद्भावितया तज्जन्यत्वस्य तत्र सिद्धे: / अतस्तावच्छेदाथ व्यवसायाऽऽत्मकपदोपादानम् -व्यवसीयतेऽनेनेतिव्यवसाया विशेष उच्यते / विशेषजनितं च व्यवसायाऽऽत्मकम्, संशयज्ञान तु सामान्यजनितत्वात् नैवम् / अथवानिश्चयाऽऽत्मकं व्यवसायाऽऽत्मक ज्ञानं त्वनिश्चयाऽऽत्मकम्, अत एव विपर्ययाभिन्नं, व्यवस्यतीति व्यवसायः, अन्यपदार्थव्यवच्छेदेनेक पदार्थाऽऽलम्बतत्वमस्य, तद्विपरीतस्तुसंशयः। ननु च विकल्परूपत्वात् तद्व्यवसायाऽऽत्मकस्येन्द्रियार्थजत्वं कथनस्य प्रत्यक्षफलता न व्यवसायाऽत्मकस्याप्यध्यक्षताऽनुसारेण व्यवस्थापतीया, तेनानैकान्ताऽऽत्मकस्यावस्तुनोऽभीकृतत्वाद, भवतस्त्वेकान्तवादिनस्तयुक्तितः तव्यवस्थापनासंभवात्, कुतः पुनर्विकल्पस्यानर्थजत्व, शब्दार्थप्रतिभासखभावत्वात्। न हि विकल्पोऽर्थसामयपिक्षः समुपजायते, निर्विकल्पक त्वर्थसन्निधानापेक्ष, तत्सामर्थ्य सद्भूतत्वात्प्रत्यक्ष प्रमाणम् / तदुक्तम्-यो ज्ञानप्रतिभासमन्वयव्यांतरेकावनुकारयतात्यादि / अथ शब्दार्थप्रतिनासित्वेऽपि किमिति विकल्पानां नार्धजत्व, रूपोऽऽदेरर्थस्य स्वलक्षणत्वेन ध्यातृत्तपत्वात् शब्दार्थानुपपत्तेविंकल्पप्रतिभासस्याऽऽकारस्यानु (2) तह्यतिरिक्तस्यार्थत्वानुपपत्तेः / सदसद्रूपस्य नित्यत्वानित्यत्वाभ्यां तस्य जनकत्वनिषेधात्, अननुगतस्य चार्थत्वात् स्वलक्षणस्य घसर्वतो व्यावृत्ततयाऽनुगतत्वासंभवादनथजाविकल्पा इतोऽप्यक्षार्थज्ञा न भवन्ति अक्षार्थसन्निपातवेलायां प्रथमत एव तेषामनुभूतेः / यदि हि तदुद्भवास्ते स्युः, स्मृति मन्तरेणानुभवत उत्पद्येरन् / नचार्थोपयोगेऽपि तामन्तरेण उत्पद्यन्ते। तदुक्तम्-"अर्थोपयोगेऽपि पुनः, स्मार्त शब्दानुयोजनम्।अक्षधीर्यद्यपेक्षेत, सोऽर्थो व्यवहितो भवेत्॥१॥'' यो हि यजनः स तदापात एवेत्यविकल्पवत्, न भवति च तदापातसमये विकल्प इति नार्थजन्मत्वं तेषां, समृतिव्यवहितत्त्वात्। नच अर्थस्य स्मृत्याऽव्यवधानं, तस्यास्तत्सहकारित्वादिति वाच्यम्, यतो यदर्थस्य ज्ञानजनकत्व तदा तजनने किमित्यसौ रमृत्यपेक्षः न च तया विज्ञानस्योत्पत्तिः, तन्नार्थस्तजनकः स पश्चादपि तेन स्यादर्थापायोपनेत्रधीः / अपि चजात्यादिविशेषणविशिष्टार्थवाहिविकल्पज्ञानं न च जात्यादीनां सद्भावः, तत्त्वेऽपि तादेशिष्टग्रहण, बहुप्रयाससाध्यमध्यक्षं न भवति। उक्तं च - 'विशेषणविशेष्य च, संबन्ध लौकिका स्थितिम्। गृहीत्वा संकलय्यैतत्, तथा प्रत्येति नान्यथा / / 1 / / संकेतस्मरणोपायं दृष्टसंकल्पनाऽऽत्मकम्। पूर्वापरपरामर्श-शून्ये तचाक्षुषे कथम् ? // 2 // " इति। अतोऽर्थसन्निधानाभावेऽपि भावान्नार्थप्रभवा विकल्पाः। अथ मा भूवन राज्याऽऽदिविकल्पा अर्थप्रभवाः इदन्ताविकल्पा स्त्वर्थमन्तरेणानुद्भवन्तः कथ नार्थप्रभवाः ? तदुक्तम्- "नान्यथेदन्तयेति चेत्।" न / इदन्ताविकल्पानामपि वस्तुप्रतिभासत्त्वासंभवात्। न हि शब्दससर्गयोग्यार्थप्रतिभासतो विकल्पा वस्तुनिश्चायकाः / अन्यथा शब्दप्रत्ययस्याध्यक्षप्रतीतितुल्यता भवेत। उक्त च - "शब्देनाव्यवृत्ताक्षस्य, बुद्धावप्रतिभासता। अर्थस्य दृष्टाविव तदनिर्देशस्य वेदकम् // 1 // " इति। तन्नाथांक्षप्रभवत्वं व्यवसायस्येति प्रत्यक्षत्वमयुक्तम। अत्र नैयायिकोऽभिदधतिकिमिदं विकल्पकत्व परस्याभिप्रेतम्-किं शब्द संसर्गयोग्यवस्तुप्रतिभासित्वम् / आहोस्विदनिन्धमानार्थग्राहित्वं, किं विशेषणविशिष्टार्थावभासित्वम्। उताऽऽकारान्तरानुषक्तवद्भासकत्वम्?, तत्रयद्याद्यः पक्षस्तदा वक्तव्यम्-किमिद शब्दससर्गयोग्यार्थप्रतिभासित्वं विकल्पित्वं पारिभाषिकमुत वास्तवम? यदि पारिभाषिकं तदा न युक्तम्, परिभाषाया अन्यानवतारात् अथ वास्तवं, तदपि प्रमाणाभावात् भवतु वा तस्य तद्रूपत्वं, तथापि कथमनध्यक्षत्वम् ? अथार्थसामोदभूतत्वात् तस्येत्युक्तं विकल्पानां च तदसंभवान्नाध्यक्षता। ननु नीलाऽऽदिज्ञानवत् शब्दार्थप्रतिभासित्वेऽपि कथं नार्थप्रभवक्त्वं, तेषां स्वलक्षणाभिरतिरिक्तशब्दार्थस्याभावांन्न तत्प्रभवत्वं तेषामिति चेत्, नन्वेवमसदर्थग्राहित्वं कल्पनाप्रसक्तम्, तच सामान्याऽऽदेस्सत्त्वप्रतिपादनानिरस्तजातिविशिष्टक्षयार्थस्य शब्दार्थत्वेन प्रतिपादनात्। तदवभासिनो ज्ञानस्य कथमसदर्थविषयत्वेन कलपनात्वं भवेत् / न चार्थाभावेऽपि विकल्पानामुत्पत्तेः नार्थजत्वम्, अविकल्पस्याप्यर्थाभावेऽपि भावादनर्थजत्वप्रसक्तः। अथ तदध्यक्ष प्रमाणमेव नाभ्युपगम्यते, तर्हि विकल्पानामप्यय न्यायः समानः,तेऽस्तिदर्थाऽध्यक्षप्रमाणतयाऽभ्युपगम्यन्ते। असदर्थत्वं च विकल्पाविकल्पयोर्बाधकप्रमाणावसेयं, तच्च यत्रनप्रवर्त्तते तस्मात् कथमस दर्थता / एतेन द्वितीयो विकल्पः प्रतिविहितः / अथ विशेषणविशिष्टार्थग्राहित्वं कल्पनात्वं, तदा किं तथा भूतार्थाभावात्तद् ग्राहिणो ज्ञानस्य विकल्पकत्वम्, आहोस्विद्विशेषणविशिष्टर्थग्राहित्वेनैवेति वक्तव्यः / आद्यविकल्पे सिद्धसाध्यता असदर्थग्राहिणः प्रत्यक्षप्रमाणत्वेनाभ्युपगमात्। न च द्वितीयपक्षादस्यपक्षान्तरत्वं द्वितीयपक्षस्थच प्रतिविधानं विहितमेव। अथ द्वितीयः पक्षोऽभ्युपगम्यते, सोऽपि न युक्तः, नीलाऽऽदिज्ञानस्यापि अप्रत्यक्षत्वप्रसक्तेः / अथास्य न विशेषणविशिष्टार्थग्राहिता, ननु विशेषणविशिष्टार्थग्राहकत्वेनाध्यक्षत्वस्य को विरोधः?, येन तदूग्राहिणोऽध्यवसायस्यानध्यक्षता? अथ विशेषणविशिष्टार्थग्राहित्वे विचारकत्वमध्यक्षविरूद्धम, अर्थसामोद्भूतस्य विचारकत्वायोगात् / असदेतत् / विशेषणाविशिष्टाविभासिनस्तस्याविकलापवत विचारकत्वायोगातारणाऽऽद्यनुसंवन्धात् समर्थस्य प्रभातुरविचारकत्वात्, कथं विशेषर गादिसामग्रीप्रभवस्य तस्याप्रत्यक्षताविशिष्टसामग्रीप्रभवस्यास्याप्रत्यक्षत्वे चक्षुरूपाऽऽलोकमनस्कारसापेक्षस्याविकल्पस्याप्रत्यक्षता प्रसमिः। न च विशेषणाऽऽदिसामायनपेक्षत्वादस्य प्रत्यक्षता, प्रतिनियतरच सामा यपेक्षस्य विशेषणविशिष्टावभासिनोऽपि प्रत्यक्षताविरोधात। अन्यथारूपज्ञानस्याऽऽलोकाऽऽद्यपेक्षस्याध्यक्षत्वे रसज्ञानं सामग्रर र सापेक्षमनध्यक्ष स्यात, विभिन्नम्बभावसामग्रीसा पेक्षत्वात् / न / विशेषणविशिष्टार्थग्रहणे विशेषणविशेषसंबन्धलौकिकस्थितीनां परामर्शदाम यतः- विशेषणविशेष्यतत्संबन्धानां न स्वतन्त्राणां विशिष्टार्थग्रहणात् प्रागवभासः, अपितु