________________ पच्चक्ख 80- अभिधानराजेन्द्रः - भाग 5 पच्चक्ख चक्षुरादिव्यापारे स्वतन्त्रनीलग्रहणवत् विशेषणविशिष्टार्थग्रहण सकृदेव, केवल तत्र त्रयमिति प्रतिभासो विशिष्टार्थग्रहणस्याऽन्यथाऽसंभवात् कथ्यते। नच यथाऽवस्थितवस्तुग्रहणं कल्पनाऽतीताऽऽदिग्रहणवत्। न च जात्यादित्रयस्याभिन्नभेदोऽध्यवसायः, दण्डशब्दयोर्भिन्नयोरभेदाध्यवसायो वा, कल्पनाद्वयस्याप्य संभवात्।तथाहिन जात्यादिवयस्य वस्तुनोऽव्यतिरेकादसत्त्वाद्वा भेदाभेदाध्यवसायो, द्वयोरप्यनुपपत्तेः / न हि जातेरभेदेऽसत्त्वे वा तद्व्यवच्छिन्ने वस्तुग्रहणसंभवः, असतो भिन्नस्य वाऽच्छेदकत्वानुपपत्तेः। न च तत्प्रतिभासेऽपि प्रतिभासविषयस्य द्विचन्द्राऽऽदेरर्थप्रमाणबाधितत्वात् प्रतिभासोऽप्रमाण, यतो न द्विचन्द्राऽऽदेरिव जात्यादेः किशिदाधकं वृत्तिविकल्पाऽऽदेस्तबाधक स्य निषेधात् / तन्न जात्यादित्रयस्याभिन्नस्याभेदप्रतिभासकल्पना, नापि दण्डशब्दयोरभेदाध्यवसायः / यदि तत्राप्रतिपत्तिस्तदैकप्रतिभासेऽवच्छेदकावच्छेद्यभाषेन ग्रहण न भवेत, किं तहि तदपेक्ष्यावच्छेदकमवच्छेद्यवा,अर्थान्तरापेक्षत्वात्तयोः।तथाहि- दण्डस्य दण्डिनं प्रति व्यवच्छेदकत्वेन प्रतिभासो, नैकत्वेन, एवं वाचकस्यापि वाच्यप्रतिपत्ती द्रष्टव्यम्। वाचकावच्छिन्नवाच्य-प्रतिभासाऽभ्युपगमवादिनामेतन्मतम्। येषां तु तटस्थ एव वाचकःवाच्यप्रतिपत्तौ वाचकत्वेन प्रतिभातीति मतं, तेषामभेदाध्यवसायो दुरापास्त एव। अपि चएवंवादिना तिरस्कृतस्वाकारस्याऽऽकारान्तरानुषक्तस्यार्थस्य ग्रहण कल्पेतेति चतुर्थपक्ष एवाभ्युपगलो भवेत्। न चायमभ्युपगमः सौगतानां युक्तः, स्वसिद्धान्तविकल्पकमेतद्विज्ञानं भ्रान्तमध्यक्षाऽऽभासमभ्रान्तपदव्यबच्छेद्यं सौगतसमये प्रसिद्धम् / तथाहि भ्रान्तिसंहातिसंज्ञानमनुमानानुमानिक, स्मार्ताभिलाषिकं चेति प्रत्यक्षाभ्रसतिमिरमित्यत्र रस्मार्ताभिलाषिकं चेतीतिशब्दपरिसमापिताद्विकल्पवर्गात्पृथक् सतैमिग्मित्यतो विकल्पस्यैवंजातीयकस्य प्रत्यक्षाभासत्यं प्रतिपादितंकल्पमात्वे वाऽस्याभान्तपदोपादानमेतद्व्यवच्छेदार्थ प्रत्यक्षलक्षणेन युक्तियुक्तं स्यात्। तन्न चतुर्थपक्षाभ्युपगमोऽपि न्योपपन्न इति नार्थसामर्थ्यानुभूतत्वादप्रत्यक्षता विकल्पानाम् / यथार्थोऽपीत्यादि दूषणमक्षजत्वे तेषा प्रतिपादितम् / तदप्यसङ्गतम, यतोऽर्था निर्विकल्पोद्घाटकसामर यन्तभूताश्चक्षुरादयः सहकारिणोऽन्योन्यसक्ष्यपेक्षा अपि सा विकल्पोत्पादनेनैव परस्परतो व्यवधीयते, तज्जननस्वभावत्वात् तेषाम्।तथा सविकल्पकोत्पादका अपिन चान्त्यावस्थाप्राप्त निर्विकल्पोत्पादकं चक्षुरादिकमब्यनिरपेक्षमेव स्वकार्यनिवृत्तिकम, अन्यसन्निधिस्तुतत्र हेतुनिबन्धनोपालम्भविषय इति वक्तव्यम्, न च किश्चिदेक जनकमित्यादिर्विरोधप्रसक्तेश्चक्षुरादिवन्न स्मृत्यर्थस्यावधानम् / न च क्षणिकत्वस्मृति काले अर्थस्यातीतत्वात् तया तस्य व्यवधानं क्षणिकत्वस्यास्मान् प्रत्यसिद्धत्वात स्फटिकसूत्रे निराकरिष्यमाणत्वात्। यदष्यर्थस्य स्मृतिसापेक्षत्वे दूषणमभ्यधायि- 'यः प्रागजनक इत्यदि" तदप्यसङ्गतम्। उपयोगविशेषस्यासिद्धत्वात्। तथाहित्भावानां द्विविधा शक्तिः-प्रतिनियतकार्यजनने एका स्वरुपशक्तिः। द्वितीया सहकारिस्वभावा तत्र प्राक् स्मरणात स्वरुपशक्तिः केवला न कार्य जनयति, यदा तु समासादितसहकारिशक्तिः स्वरुपशक्तिर्भवति तदा कार्यमाविर्भावयत्येवा नच स्वरुपशक्तेः सहकारिशक्त्या व्यतिरिक्तोऽव्यतिरिक्तो वा कश्चिदुपकारः क्रियते, किं तु संभूय ताभ्यामेकं कार्य - निष्पाद्यते / तथा हिअन्त्यावस्थाप्राप्तक्षणवत् सहकर्तृत्वमेव सर्वत्र सहकारार्थो, नत्वतिशयाऽऽधानमिति क्षणभङ्ग भने विस्तरेण प्रतिपाद यिष्यते। यदपि विशेषणं विशेष्यं च इत्यादिदूषणभभिहितम्। तथा सङ्के तस्मरणोपायमित्यादि च। तदपि प्रागेव निरस्तम् / यदपि किलाध्यक्षयोरेकविषत्वे प्रतिभासभेदो न स्यात्, दृश्यते च। तदुक्तम् 'शब्देनाव्यापृताक्षस्य / '' इत्यादि / तदप्यसङ्ग तम् शब्दाक्षप्रभवप्रतिभेदस्य प्रसाधितत्वात्। शब्दजप्रतिपत्तौ शब्दावच्छेदेन वाच्यस्यकैश्चित् प्रतिभासोपगमात् करणभेदादेकविषयत्वे प्रतिभासभेदस्य च कैश्चिदभ्युपगमात् नैकान्तेन तयोभिन्नविषयता तन्न व्यवसायात्मकं किञ्चदस्ति अरूपत्वात, अनक्षार्थ व्यवसायस्य ज्ञानरूपत्वात् ज्ञानग्रहणं न कार्यमिति चेत् / न / धर्मिदेशार्थ ज्ञानपदोपादानस्य दर्शितत्वाव्यत्, वसायाऽत्मकग्रहणं तु धर्मनिदेशार्थमिति न पुनरुक्तम्। ननु फलस्वरूपसामर या विशेषत्वेना संभवान्नेदं लक्षणम् / तथाहि प्रत्यक्षफ लविशेषणत्वे इन्द्रियार्थसन्निकर्षजत्वाऽऽदिषु ज्ञानप्रत्यक्षशब्दयोः सामानाधिकरण्यानुपपत्तिः। फलप्रमाणविधायकत्वेन ज्ञानं हि फलं प्रत्यक्षं तत्साधकतमत्वात्प्रमाणमिति कथं तयोः सामानाधिकरण्यम् ? न चैवंभूतं फल, यतस्तत्प्रत्यक्ष यत इत्यस्याश्रुतस्वात्तत्र फलविशेषणपक्षः, अथैतदोषविपरिजिहीर्षया स्वरुपविशेषणपक्षः समाश्रीय ते, सोऽप्युक्तः। एतद्विशेषणविशिष्टस्य प्रत्यक्षनिर्णयस्याऽऽकारकस्य प्रत्यक्षत्वप्रसक्तेः / न चाकारकस्यासाधकतमस्वात प्रत्यक्षत्वंयुक्तम्। अथ कारकत्वविशेषणमुपादीयते तथाऽपि संस्कारजनके तिप्रसङ्गः / अथैवंविशिष्टमुपलहिंधसाधनं यत्तत्प्रत्यक्षम् / नन्वेवमप्यश्रुतपरिकल्पनाप्रसक्तिः / सामान्यलक्षणानुवादद्वारेण विशेषलक्षणविधानान्नाश्रुतकल्पनेति चेन्नैवमपि द्वितीयालङ्गदर्शनेविनाभावस्मृतिजनके गोत्वबदर्थदर्शने च संकेतस्मृतिजनकेऽति प्रसङ्गः, तन्निवृत्त्यर्थमर्थोपलब्धिजनकत्वाध्याहारे विपर्ययज्ञानजनकेऽति प्रसङ्ग। विपर्ययज्ञानं हिसारूप्यज्ञानादुपजायत यथोक्तविशेषणविशेषितात् तस्य चार्थोपलब्धित्वमिन्द्रियार्थ सन्निकर्षजत्वप्रतिपादनात् सूत्रकारस्याभीष्टमेव / अथ तद्व्यावुत्तये अव्यभिचरिविशिष्टोपलब्धिजनकत्वाध्याहारः, तथा संशयज्ञानजनके प्रत्यक्षत्वप्रसक्तिः। अथ तन्निवृत्तये व्यवसायाऽऽत्मकार्थो पलब्धिजनकत्वाध्याहारस्तथाऽप्यनुमानेऽतिप्रसङ्गः यस्मात्प्राक्प्रतिपादिताशेषविशेषणाध्यासित विशिष्टोपलब्धिजनकं च परामर्शज्ञानमध्ययनाऽऽदिभिरभ्युपगम्यते इति तस्यानुमितिफलजनकस्याध्यक्षताप्रसक्तिः। अथेन्द्रियार्थसंन्निकर्षजोपलब्धिजनकस्येत्यध्याहारः, तथाऽप्युभयज्ञानजनकस्य प्रत्यक्षताप्रसक्तिः। यस्मादिन्द्रियजस्वरुपज्ञानात् केनचिद् देवदत्तोऽयमितिशब्द उच्चारित इन्द्रियशब्दव्यापारादेवदत्तोऽयमिति संकेतग्रहणसमये ज्ञानमुत्पद्यते यथोक्तविशेषणविशिष्टमिति तज्जनकस्य स्वरुपज्ञानस्य प्रत्यक्षताप्रसक्तिः, तन्निवृत्यर्यमव्यपदेश्यपदाध्याहार इति चेत्, तोश्रुतस्य द्वितीयसूत्रस्य कल्पनाप्रसक्तिः। सत्यामपि सूत्रकल्पनायामव्याप्त्यतिव्याप्त्योरनिवृत्तिः, तुलासुवर्णाऽऽदीनामवोधरूपाणामप्रत्यक्षत्वप्राप्तेः सन्निकर्षेन्द्रियाऽऽदीनां च / न च सन्निकर्षस्य प्रामाण्यं सूत्रकृता नेष्ट, सन्निकर्षविशेषात्तदग्रहणमिति वचनात् ग्रहणहेतोर्न प्राप्ताण्यम् / न च कर्मकर्तृरूपता तस्येति कर्मकर्तृविलक्षणस्य ज्ञानजनकत्वात्कथं न तस्य प्रामाण्यम् / एवमिन्द्रियाणामपि प्रमाणत्वं सूत्रकृतोऽभिमतम्, "इन्द्रियाणि अतीन्द्रियाणि स्वविषयग्रहणलक्षणम्" इति वचनात्। न च प्रमाणसहकारित्वात्तेषां प्रमाणत्वम्, अन्यस्येन्द्रियात प्रागुपग्राहकस्यौपग्राहिणोऽभावात्, भावेऽप्यज्ञानरूपत्वात्तस्य न प्रमाणता भवेदित्यतिव्याप्तिः तदवस्थैव / प्रदीपाऽऽदीना वा ज्ञाना