________________ पचक्ख 81- अभिधानराजेन्द्रः - भाग 5 पच्चक्ख त्मकत्वेऽपि प्रमाणत्वं प्रसिद्ध लोके, तथा सुवर्णाऽऽदेः प्रमेया च तुला प्रामाण्यवदिति प्रामाण्य प्रतिपादितं सूत्रकृता / सूत्रस्य चार्थः यथा सुतपर्णाऽऽदिपरिच्छिद्यते तदा तुला प्रमाण, प्रमाण वाऽनुमानमागपूर्वक देशवलाऽऽदिज्ञानस्यानिन्द्रियार्थसन्निकर्षपूर्वकत्वात, तदभावश्च वस्त्राऽऽदिव्यवहितेऽपि भावात्। तथा प्रमेयं च यदा सुवर्णाऽऽदिना तुलाऽन्तरमितेनानुमीयते, तदा सुवर्णाऽऽदिद्रव्यं प्रत्यक्ष प्रमाणमिन्द्रियार्थसन्निकर्षजज्ञानजनकत्वात्। इन्द्रियार्थसन्निकर्षजं च पञ्चपलरेखाऽऽदिज्ञानं सदाविभावित्वाऽऽदिनेन्द्रियाऽऽदिसहकारि तत्सुवर्णाऽऽदि पञ्चपलरेखाऽऽदिज्ञानभुत्पादयत् प्रत्यक्ष प्रमाणं सुवर्णवदिन्द्रियार्थजज्ञानमुत्पदान्तः सर्व एव भावाः प्रत्यक्षप्रमाणतामाविभ्रति / स्मृतिसंशयविपर्ययादीऽऽनां चेन्द्रियार्थसन्निकर्षेण सह व्यापारे विशिष्टफलजनकत्वेन प्रत्यक्षतोपेयति / तथाहि-संशयविपर्यययोरपि बाह्ये विषये स्वाऽऽलम्बने स्वावच्छेदकत्वेनेन्द्रियार्थसन्निकर्षेण सह व्यापारादात्मप्रत्यक्षवादिना चाऽऽत्मनो विशेषणत्वेन विशिष्ट प्रतीतिजनकत्वेन प्रत्यक्षत्वात्, न न च तयोः सूत्रोपात्तविशेषणयोभ्यतासंदिग्धविपर्ययस्वभावत्यादतिव्याप्तिरपि यदेन्द्रियार्थसन्निकर्षाद् लिङ्गादनुमितमिद्रियं प्रतिपाते, तदा सकलसूत्रोपात्तविशेषयोगात् सन्निकर्षलक्षणलिङ्गाऽऽलबनस्य ज्ञानस्य तथाविधफलजनक स्य प्रत्यक्षताप्रसङ्गाऽऽदेः, तच्चेन्द्रियस्यार्थ इति समासानाश्रयणे दूषणं द्रष्टव्यमिति / स्वरूपविशेषणपक्षे अनेकदोषाऽऽपत्तिः। अथ ज्ञानप्रामाण्यवादिभिर्निर्णयस्य प्रामाण्यमिष्यत एवेति नानिष्टप्रेरणाऽवकाशः / तथाहि-तत्सद्भावे विषयाधिगतिरिति लोकस्याभिमानो, यच्च तथाविधविषयाधिगमे करणं तत्प्रमाणं, निर्णये त्वसति तद्धिगतिरिति स एव प्रमाणम् / अत एव नाश्रुतसूत्रान्तरकल्पना-दोषानुषड्गोऽपि। नैतत्सारम्। यतो निर्णये सति योऽयं विषयाधिगत्यभिधानः स किं साधकतमत्वान्निर्णयस्याऽतिविषयाधिगतिस्वभावत्वादिति संदेहो, विशेषहेत्वभावात्, साधकतमत्वे च | सिद्ध तत्प्रामाण्यावगतिः / अथ विषयाधिगतिस्वभावत्वेनैव निर्णयस्य विषयाधिगत्यभिमानो, न साधकतमत्वेनेति भवतोऽपि विशेषतो - वनाबोध स्वभावानामप्यर्थोपलम्भनिमित्तानां भावे विषयाधिगतिसिद्धेः / तथा च धूमाज्जातोऽग्निरिति व्यपपदिशल्लोक उपलभ्यते, नाग्निज्ञानादित्येव चक्षुषः प्रदीपाऽऽदेश्वान्धकारे विषयाधिगतिसिद्धेः / तथा च धूमाज्जातोऽग्निरिति व्यपदिशलोकप्रसिद्धेभ्यो नानिज्ञानाऽऽदिरिति परच्छेदे अबाधस्वभावस्य तज्जनकस्य साधकतमत्वान्नार्थज्ञानस्य प्रमाणता / अथापि स्यात् साधकतमज्ञानजनकत्वेनापि धूमाऽऽदीना तथा व्यपदेशः संभवतीति तत्तेषां ततः साधकतमत्वसिद्धिः / तथा च धूमसद्भावे विषयाऽधिगतिरित्यभिमानाभावात् सति त्वर्थज्ञाने प्रत्येकशस्तेषामभावेऽपि भावाद्विषयाधिगत्यभिमानेऽनन्तरवृत्तमर्थज्ञानमेव साधकतम, न विषयाधिगतौ ज्ञानस्य साधकतमता, विषयाधिगतिस्वरूपत्वात् तस्य / न च किश्चिद्वस्तु स्वरूपे साधकतम, तद्विशेषस्यामिधानं च प्रमाणपदम् / अथ स्वविषये सव्यापारप्रतीततामुपादाय फलस्यैव प्रमाणोपचारः / उक्तं च- ''सव्यापारप्रतीतत्वात्, प्रमाण फलमेव सत। सव्यापारमिवाभाति, व्यापारेण स्वकर्मणि / / 1 / / " इति चेत् / न मुख्यसद्भावे उपचारपरिकल्पनात् / बौद्धपक्षे तु न मुख्यं साधकमत्वं क्वचिदपि सिद्धमिति नोपचारः / अस्मन्मते तु धूमाऽऽदीनां साधकतमत्वे प्रमाणफलयोर्भेदः प्रसज्यते, सव भवातोऽनिष्टः / यच्च धुमाऽऽदिभाव विषयाधिगतेरभावात् तद्भावे च भावादित्युक्तम्। तदसंगतम् यतो नैव सद्ज्ञानसद्भावे काचित् तज्जन्यविषया विषयाधिगतिः, धूमाऽऽदिसद्भावे तु तस्याः सद्भावोऽनन्तरमुपलभ्यत एव / अतो धूमाऽऽद्येव साधकतमम्, अभिमानस्तु ज्ञानानन्तर मुपजायमानो धूमाऽऽदिभावेऽप्यनुपजायमानो ज्ञानस्य न साधकतमत्वं प्रकाशयति, अपि त्वर्थाधिगमस्वरूपताम् / तथा हि-अर्थाधिगतावर्थोऽधिगत इत्यभिमतः प्रभवति / ननु धूमाऽऽदिभावतो विषयाधिगतस्याभिमानस्यानेन प्रकारेण भावान तदभावान्न तद्गती साधकतमत्वं ज्ञानस्येति निर्णये अध्यक्षताप्रसक्तिप्रेरणा तदवस्थैव। किंच-सुप्तावस्थोत्तरकालं घटाऽऽदिज्ञानोत्पत्तौ यद्यबोधरुपं तज्जनकं प्रमाण नेष्यते, तदा प्रागपरज्ञानस्याभावात् कस्य तत्फलं भवेत् / घटत्वसामान्यज्ञानस्य घटज्ञानं कफमिति चेत्। ननुघटत्वज्ञाने किं प्रमाणम्?, तदेवेति चेदेकस्य प्रमाणफलताप्रसक्तिरभ्युपगम्यत एवेति / अत्र विशेष्यज्ञानेऽपि तत्प्रसङ्गात् / न च विशेष्यज्ञानोत्पत्तौ विशेषणज्ञानस्य प्रमाणत्वमिति ततस्तभिन्नमभ्युपगम्यत इति वक्तव्यमिन्द्रियार्थसन्निकर्षानन्तरं घटत्वाऽऽदिसामान्यज्ञानस्य दर्शनात्तत्र सन्निकर्षस्य प्रमाणत्यप्रसक्तेः, अज्ञानत्वान्नेति चेन्न, विशेषणज्ञानं विशेष्यज्ञानोत्पतौ प्रामाण्यं, तथा सन्निकर्षस्याऽपि विशेषणज्ञानोत्पतौ तदभ्युगन्तव्यम् / तथाहिसन्निकर्षप्रमाणं विशिष्टज्ञानरात्ताकारणत्वाद्विशेषणज्ञानत्वात प्रमाणत्वाभ्युपगमे कारणनिर्णयाऽऽदीनां प्रमाणत्वं स्यात् न च स्वयं संवेद्यत्वेन तेषामजनकानामपि प्रमाणत्वम् ।अर्था तरफलवादित्वहानिप्रसङ्गात्। न च नैयायिकैरर्थान्तरभूतं बौद्धैरिव फलमभ्युपगम्यते / तदभ्युपगमे तत्पक्षे निरासादयमपि निरस्त एव / अतो ज्ञानप्रमाणवादिनः सुषुप्तावस्थोत्तरकालंघटत्वाऽऽदिज्ञानाभावप्रसक्तेर्घटाऽऽदिज्ञानस्याप्यभावप्रसङ्गात्यशेषस्य जगत आन्ध्याऽऽपत्तिः। न च सुषुप्तावस्थायां ज्ञानसद्भावान्नायं दोषः, असंवेद्यमानस्य तदवस्थायां तस्य सद्भावासिद्धेः। न व जाग्रत्प्रत्ययेन तत्सद्भावोऽवसीयते, तस्य तत्प्रतिबन्धासिद्धेः। तत्कार्यत्वान्न प्रतिबन्ध इति चेन्न / वैशेषिकैः सर्वस्य ज्ञानस्य ज्ञातपूर्वकत्वानभ्युपगमाद्विशेष्यज्ञानाऽऽदीनामेव विशेषणज्ञानाऽऽदिपूर्वत्वं नान्येषां, प्रतिबन्धाभावात् बोधरूपताप्रतिबन्ध इति चेन्न / अबोधस्वभावादपि बोधस्योत्पत्त्यविरोधात् / अन्यथा धूमस्वभावादग्रेधूमोत्पत्तिर्न भवेत्, तस्य तज्जननस्वभावत्वाददोष इति चेन्न / इतरत्राप्यस्य समानत्वात्। तथा ह्यबोधऽऽस्मिका कारणसामग्री बोधजननस्वभावत्वात्तं जनयिष्यतीतिन प्रतिबन्धः, तस्मादपि बोधाऽऽत्मकस्यापि प्रमाणत्वमभ्युपगन्तव्यमित्यव्यापकत्वंलक्षणदोषः, तन्न स्वरूपविशेषणपक्षोऽपियुक्तिसङ्गतः, नापि सामग्रीविशेषणपक्षः, तत्रास्यौपयचारिकत्वात् / तथाहि-सामग्रीविशेषणपक्षे इन्द्रियार्थसनिकर्षात्पन्नमित्युपपन्नमपि व्याख्येयम् / तचायुक्तम्। उत्पत्तिशब्दे स्वरूपनिष्पत्तौ प्रसिद्धत्वात्। तथा- ज्ञानशब्दोऽपि सामग्रीविशेषणपक्षे ज्ञानजनकत्वात्सामग्यां ज्ञानमिति व्याख्येयम्। एवमव्यभिचारि व्यवसायाऽऽत्मकच सामन्यं तथा-विधफलजनकत्वादव्यपदेश्यमिति, तच्छब्देन सहाव्यापारात्।तदेवंसुत्रोपादत्तविशेषणयोगित्वं सामा यस्य तथाविधफलस्य जनकेन न खत इति न युक्तिमत्पक्षोऽपि / तटवर्थक सूत्रम्, न / फलविशेषणपक्षस्योपपत्तेर्न तत्राऽपि यत इत्यध्याहारोऽस्त्येव दोषोनतावन्मात्रेण, सकलदोषविकलाभिमतपक्षसिद्धः। अतस्तथाविधंज्ञान यतो भवतितत्प्रत्यक्षमिति सकलदोषविकलं प्रत्यक्षलक्षणं