________________ पचक्ख 52 - अभिधानराजेन्द्रः - भाग 5 पचक्ख सिद्धम नन्वेतस्मिन्नपि पक्षे ज्ञानस्य प्रामाण्यं न लभ्यते, इष्टं च तस्य प्रामाण्यम्, यदा ज्ञानं प्रमाणं तदाऽनादिबुद्धयः फलमिति वचनात् नैष दोषः। ज्ञानस्याप्येवंविधफलजनकत्वेन प्रमाणत्वानुभवज्ञानवंशजायाः / स्मृतेस्तथा चायमित्येतद्ज्ञानमिन्द्रियार्थसन्निकर्षत्वात् प्रत्यक्ष फलम, तत्स्मृतेस्तु प्रत्यक्षप्रमाणता, सुखदुःखसंबन्धरमृतेस्त्विन्द्रियार्थसन्निकर्षसहकारित्वात्तथा ध्येयमिति / सारूप्यज्ञानजनकत्वेनाध्यक्षप्रमाणता सारूप्यज्ञानस्य च सुखसाधनोऽयमित्यानुमानिकफलजनकत्वेनानुमानप्रमाणता।नच सुखसाधनत्वज्ञानमिति केचित अपरे तु बह्येऽप्यर्थे विशेषाऽऽवृष्टमसन्निहिते विशेषणे मनः प्रवर्तत इति मनोलक्षणमिन्द्रियार्थसन्निकर्षजमध्यक्षप्रमाण फलमेतत् ज्ञानमिति संप्रतिपन्ना : / नन्येवमप्यव्यापकं लक्षणमात्मसुखाऽऽदिविषयज्ञानस्याप्रत्यक्षफलत्वात्। तच्च मनसोऽनिन्द्रियत्वं मनस इन्द्रियसूत्रेऽपरिपठितत्वात प्रत्यक्षफलं तावत्तद्विषयज्ञानस्याभ्युपगम्यते / असदेतत् / मनस इन्द्रियधर्मो पेतत्वेनेन्द्रियत्वादधिगतानाधिगतविषयग्राहकत्वमिन्द्रियधर्मः, स च मनसि विद्यत एव, तेनेन्द्रि यधर्मोपेतस्य सर्वस्यैव प्रत्यक्षसूत्रे इन्द्रियग्रहणेनाविरोधः। ततः प्रत्यक्षसूत्र एवेन्द्रियत्वं मनसः सिद्ध , तत्सिद्धौ च नाव्याप्तिर्लक्षणदोषः / इन्द्रियसूत्रे च मनसोऽपाठः, तत्सूत्रस्य नानात्वे इन्द्रियाणां लक्षणपरत्वात्सूत्रशब्देन हि जात्यपेक्षया सूत्र एवोच्यते। तेन लक्षणसूत्रसमूहोद्देशार्थं तत्सूत्र, तथा च जिघ्नत्यतेनेतिघ्राणं भूतं गन्धोपलब्धौ कारणं घ्राणमित्याभेधीयमाने सन्निकर्षप्रसङ्गः। तन्निवृत्त्यर्थ भूतमिति भूतखभाषत्वं विशेषणम् / एवं च अनेनेति चक्षरूपोपलब्धौ कारणं सन्निकर्षे प्रसङ्गः, तन्निवृत्त्यर्थ भूतग्रहण संबन्धनीय प्रदोपे प्रसङ्गस्तन्निवृत्त्यर्थमिन्द्रियाणामिति वाच्यम् / एवं त्वगादिष्वपि योज्यम्। एवं च सूत्रकपञ्चकमेतल्लक्षणार्थ प्रत्येकमिन्द्रियाणां न पुनर्विभागार्थम्, आदिसूत्रो विष्टस्य भेदवतो विभागाभ्युपगमात्, विभक्तिविभागे चानवस्थाविभागार्थे वा बाह्यानामित्यध्याहारः कार्यः, स्वलक्षणसामर्थ्यात् / मनसस्तु तदनन्तरं लक्षणानुपदेशो वैधात्। तच्च तस्या भूतस्वाभाव्यात्,भूतस्वाभाव्येनेन्द्रियाणि व्यवच्छिद्यन्ते भूतेभ्य इति वचनानि तु मनसं एतल्लक्षणमिति / अत एव सर्वविषयत्व मनसोन त्विन्द्रियाणि बाह्यानि सर्वविषयाणि तन्त्रयुक्त्या वा मनसोऽनभिधानं परमतमप्रतिषिद्धमनुमतमिति हि तत्र युक्तिः / न चैवं घ्राणाऽऽदीनामप्यनभिधानं प्रसज्यते, घ्राणाऽऽदेरप्यनभिधाने स्वमतस्यैवाभावात् परमतमिति व्यपदेशासंभवात्। “अस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम'' इति वचनात् / मनसोऽभिधानमिन्द्रियत्वेन, इन्द्रियान्तरं त्वनभिधानं वैधादित्युक्तम्, तन्नाव्याप्तिर्दोष इति स्थितम् / श्रोत्रादिवृत्तिरविकल्पिकेति विन्ध्यवासिप्रत्यक्षलक्षणमनेनैव निरस्तम् तथा हि-अविकल्पिका शाक्यदृष्ट्याऽध्यक्षमतिः प्रमाण न भवति / तथा विन्ध्यवासिपरिकल्पिताऽपि सा प्रमाणं न युक्ता / न च सायदर्शनकल्पितस्य श्रोत्रादेः पदार्थस्य सिद्धिः सत्कार्यवादसिद्धान्तसदर्थव्यवस्थिते, तस्य च निषिद्धत्वात्। किं च श्रोत्रादीनां वृत्तिस्तेभ्यो यद्यव्यतिरिक्ता तदा श्रोत्रादिकमेव, तच सुप्तमत्ताऽऽद्यवस्थास्वपि विद्यत इति तदाऽप्यध्यक्षप्रमाण-प्रसक्तिरिति सुप्ताऽऽदिव्यवहारोच्छेदः / अथ व्यतिरिक्ता तेभ्यो वृत्तिस्तदा वक्तव्यम्-किमसी तेषां धर्ममात्रम्, आहोस्विदर्थान्तरम् / यदाद्यः पक्षस्तदा वत्तेस्तत् संबन्धो वक्तव्यः ? यदि तादात्म्यं, तदा श्रोत्रादिमात्रमेवासाविति पूर्वोक्तो दोषः / अथ समवायः, तदा पुनः सिद्धिप्रसक्तिरित्यपि श्रोत्रादिसद्भावे सति नियतदेशावृत्तिरभिव्यज्यत इति / प्लवते अथ संयोगः, तदाऽन्तिरप्रसक्तिरिति न तसर्मो वृत्तिर्भवत् / अथार्थान्तरं वृत्तिः, तदा नाऽसौ वृत्तिः, अर्थान्तरत्वात् पटाऽऽदिवत् / अथार्थान्तरत्वेऽपि प्रति नियतविशेषसद्भावात्तेषामसौ वृत्तिः / नन्वसौ विशेषो यदि श्रोत्रादिविषयप्राप्तिस्वरूपः, तदेन्द्रियार्थसन्निकर्षोऽभिधानान्तरेण प्रतिपादितो भवेत्। स च यद्यव्यभिचाराऽऽदिविशेषणविशिष्टार्थोपलब्धिजनकः प्रत्यक्ष प्रमाणमभिधीयते, तदा अस्मत्पक्ष एव समाश्रितो भवेत्। अथतथाभूतोपलब्ध्या जनको न तर्हि प्रमाणम्, असाधकतमत्वात् / अथार्थाकारा परणितिः श्रोत्रादीनां वृतिः, तदाऽत्रापि वक्तव्यम्-किमसौ परिणतिः श्रोत्रादिस्वभावोऽनुतद्धर्म आहोस्विदन्तिरमिति पक्षत्ररोऽपि च पूर्ववहोषाभिधान विधेयम्। न च श्रोत्रादीनां विषयाऽऽकारापरिणतिः परपक्षेऽसंभविनी, परिणामस्य व्यतिरिक्तस्याऽव्यतिरिक्तस्य वा संभवादिति प्रतिपादितत्वात् / प्रतिनियताध्यवसायस्तु श्रोत्रादिसमुत्थोऽध्यक्षफलं, न पुनरध्यक्ष प्रमाणम्, असाधकतमत्वात्। विशिष्टोपलब्धिनिर्वर्तकत्वेनाध्यक्षत्वे अस्मन्मतमेव समाश्रितं भवेत्, तन्न साङ्ख्यमतानुसारि कल्पितमप्यध्यक्षलक्षमुपपन्नम् / जैमिनिपरिकल्पितमपि प्रत्यक्षलक्षणं सत्सङ्गप्रयोगे पुरुषस्येन्द्रियाणां वुद्धिजन्मतत्प्रत्यक्षमिति। संशयाऽऽदिषु समानत्वाद्वार्त्तिककारप्रभृतिभिर्निरस्तमेव / यैरपि सम्यगर्थे च संशब्दोदुःप्रयोगः निवारण इत्यादिना तल्लक्षणं व्याख्यातं, तेषां प्रयोगस्यातीन्द्रियत्वात्सम्यक्त्वं न विशिष्टिफलमन्तरेण ज्ञातुं शक्यं, फलविशेषणत्वेन च न किश्चित्पदं श्रूयत इति न कार्यद्वारेणाऽपि तत्सम्यक्त्वावगतिः, बुद्धिजन्मनः प्रमाणत्वं तुन संभवात्येव / बुद्धेतिव्यापारलक्षणयोः पूर्वमेव प्रमाणत्वनिषेधात्। यैस्तु नेदं प्रत्यक्षलक्षणविधानं किंतु लोकप्रसिद्धप्रत्यक्षानुवादेन प्रत्यक्षस्य धर्म प्रत्य-निमित्तत्वविधानमिति व्याख्यातं, तैरपि वाच्यम्-कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वं विधीयते किमस्मदादिप्रत्यक्षस्य, उत योगिप्रत्यक्षस्येति? यत्र यद्यार्थः पक्षः, सन युक्तः। सिद्धसाध्यताप्रसक्तेः / द्वितीयपक्षोऽप्ययुक्तः, योगिप्रत्यक्षस्य स्वमतेनासिद्धत्वात् न वा सिद्धयस्यानिमित्तत्वविधानम्। अन्यथा खरविषाणाऽऽदेरपि तं प्रत्यनिमित्तविधिभवेत् / न च योगिप्रत्यक्ष परेणाभ्युपगतमिति प्रतीतस्य तदनिमित्तत्वं साध्यत इति वक्तव्यम् / इति विषयग्राहिसं पात्यादे-राजस्य तु चक्षुष्टे वऽपि चक्षुः योजनशतावभासि श्रूयते रामायणाऽऽदौ / न च कादम्बर्याऽऽदेरिव काव्यत्वादस्याप्रमाणतेति न तन्निबन्धना वस्तुव्यवस्था, तारताऽपि प्रमाणभूतेऽस्यार्थस्य संसूचनात्स्वार्थप्रतिपादकत्वेऽपि च तारता, यदि प्रमाणतस्तदनेनाभ्युपगतं तदा प्रमाणप्रसिद्धस्य भवतोऽपि प्रसिद्धत्वात् कथं तदनिमित्तत्वसिद्धिः, अत एवातीन्द्रियं वस्तु नाङ्गीकुर्वतोऽपरप्रतिपन्ने वस्तुन्यतीन्द्रियेऽसौ प्रमाणं प्रष्टव्यं, चेत्, तत्र ब्रूते, तद्वस्त्वङ्गीकर्तव्यम् / अथ न ब्रते, तदा तस्य प्रमाणावभावादेवासिद्धिर्न तदुक्तप्रमाणप्रतिषेधात्। न ह्यतीन्द्रिये वस्तुनि प्रमाण प्रतिषेधविधायि प्रवर्त्तितुमत्सहत इति / धर्म्यसिद्धत्वादिदोषैराघ्रातत्वात् / अथाऽपिस्यात् भवेदेष दोषः स्वतन्त्रसाधनपक्ष। न त्विदं स्वतन्त्रसाधनमपि तु प्रसङ्ग साधनम् / तच्च स्वतोऽप्र सिद्धेऽपि वस्तुनि परप्रसिद्धेन परस्यानिष्टाऽऽपादनमिति पैररभ्युपगतं यथा सामान्याऽऽदिनिषेधे / एतदप्ययुक्तम् / दृष्टान्तस्याप्यसिद्धिः / यथा च सामान्यायऽऽदिनिषेधेन प्रसङ्गसाधनं प्रवर्तते तथा नैयायिकैः प्रतिपादितंसामान्याऽऽदिपरीक्षायाम्। किं च प्रसाधनानुपपत्तिरत्र / यतः प्रसङ्गः सर्वोऽपि विपर्ययफल इति पूर्व