________________ पुढवीकाइय 681 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय रेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते-मार्यमाण जन्तुज्ञानावरोधित्वात् ज्ञानाऽऽवरणीयं बध्नात्येवमन्यत्राप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह- (इयत्थमित्यादि) इत्येवमर्थम् आहारभूषणोपकरणार्थ तथा परिवन्दनमाननपूजनार्थ दुःखप्रतिघातहेतुं च 'गृद्धो' मूर्छितो 'लोकः' प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भे अज्ञानवशान्मूञ्छितस्त्वेतद्विधत्त इति दर्शयति- 'यद्' यस्माद् 'इम' पृथ्वीकार्य विरूपरूपैः शस्त्रैः पृथिवीकर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रस्वकायाऽऽदेः पृथिव्या वा शस्त्रं हलकुदालाऽऽदि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्वान्याननेकरूपान् 'प्राणिनो' द्वीन्द्रियाऽऽदीन्विविधं हिनस्तीति / स्यादारेका, ये हिन पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम्? अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह- (से येमीत्यादि) सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि, अथवा- 'से' इति तच्छब्दार्थे वर्तते, यत्त्वया पृष्टस्तदहं ब्रवीमि, अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिजात्यन्धो बधिरोमूकः कुष्ठी पड्गुः अनभिनिवृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविभुखोऽतिकरुणांदशा प्राप्तः, तमेवंविधमन्धाऽऽदिगुणोपेतं कश्चित्कुन्ताग्रेण (अब्भे इति) आभिन्द्यात्तथाऽपरः कश्चिदन्धमाच्छिन्यात, स च भिद्यमानाऽऽद्यवस्थाया न पश्यति न शृणोति मूकत्वान्नोबैरारटीति, किमेतावता तस्य वेदनाऽभावो जीवाऽभावो वा शक्यो विज्ञातुम्? एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धबधिरमूकप गादिगुणोपेतपुरुषवदिति, यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानाम् (अप्पेगे पायमभे इति) यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्यावेत्येवं गुल्फाऽऽदिष्वप्यायोजनीयमिति दर्शयति, एवं जड्याजानूरुकटीनाभ्युदरपार्श्वपृष्ठोरोहृदयस्तनस्कन्धबाहुहस्ताङ्गुलिनखग्रीवाहनुकौष्ठदन्तजिहातालुगलगण्डकर्णनासिकाऽक्षिभूललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजा स्त्यानांद्युदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् / अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- (अप्पेगे संपमारए अप्पेगे उद्दवए) यथा नाम कश्चित् ‘सम्' एकीभावेन प्रकर्षण प्राणानां भारणम्अव्यक्तत्वाऽऽपादनं कस्याचेत् कुर्यात, मूर्छामापादयेदित्यर्थः, तथाsवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदना स्फुटमनुभवति, अस्ति चाव्यक्ता तस्याऽसौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति। पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाऽऽविर्भाव्य अधुना तद्वधे बन्ध दर्शयितुमाहएत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेव सयं पुढविसत्थं समारंभेजा, णेवsण्णेहिं पुढविसत्थं समारंभावेजा, णेवऽण्णे पुढविसत्थं समारं भंते समणुजाणेज्जा, जस्सेते पुढविकम्म समारंभा परिण्णाता भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि (17 सूत्र०)। अत्र पृथिवीकार्य शव द्रव्यभावभिन्नं, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपं, भावशरस्त्रं त्वसंयमो दुःप्रणिहितमनोवाकायलक्षणः, एतद् द्विविधमपि शस्त्रं समारभमाणस्येति एते खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेनापरिज्ञाता अविदिता भवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह- (एत्थेत्यादि) अत्र पृथिवीकाये द्विविधमपि शस्खमसमारभमाणस्याऽव्यापारयत इति. एते प्रागुक्ताः कर्मसमारम्भाः परिज्ञाता विदिता भवन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह- (तमित्यादि) तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भेवा अबन्धमिति मेधावी कुशलः एतत् कुर्यादिति दर्शयतिनैव पृथिवीशस्त्र द्रव्यभावभिन्न समारभेत, नापि तद्विषयोऽन्यैः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति। एवं मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयम् इति, ततश्चैव कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसजिहीर्षुराह(जस्सेत्यादि) यस्य विदितपृथिवीजीववेदनास्वरूपस्यैते पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहिता भवन्ति, हुरवधारणे, स एवं मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं कर्मसावद्यानुष्ठा नमष्टप्रकार वा कर्म येन स परिज्ञातकर्मा, नाऽपर, शाक्याऽऽदिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय उद्देशकः समाप्तः। गतः पृथिव्युद्देशकः / आचा०१ श्रु०१ अ०२ उ०। सुत्त जे भिक्खु पुढविकायस्स कलमायं वि सभारंभइ, समारंभंतं वा साइज्जइ ।।दा एवं० जाव वणप्फइकायस्स 12 / कलमाय त्ति स्तोकप्रमाणं, अहवा कलो त्ति चणओ तप्पमाणमे तंपि जो विराहेति तस्स चउलहुं, आणादिया य दोसा, एवं कठिणा उक्का ते तेउवाउपत्तेथवणस्सतिसु दाव पुण आउक्काए बिंदूमित्तं, बाउक्काए कलमेत्तं कह? भन्नतिवित्थिपूरणो लब्भति / जे भिक्खु पुढविकायं, कलवंधन्नप्पमाणमेत्तमवी / आऊ तेऊ वाऊ, पत्तेयवणं विराहेजा // 58) कलधन्न त्ति चणगं धन्नं, सेस कंट। जो एते काए विराधेतिसो आणा अणवत्थं, मिच्छत्त विराहणा तहा दुविहं / पावति जम्हा तेणं, एते उपदे विवज्जेज्जा // 56|| पुढवाऽऽदिविराहेंतस्स संजमविराहणा। आहारे त्ति पंडुरोगाऽऽदिसंभवे आयविराहणा, सेसं कंठ। सीसो पुच्छतिकलमेत्तहीणतरे विराधिते किं चउलहू न भन्नति आणादिया य दोसा? गुरू भणतिकलमेत्तेणं चरिमे, एक्कम्मि विघातियम्मि चउलहुगा।