________________ पुढवीकाइय 180- अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय सन्ति विद्यन्ते प्राणाः सत्त्वाः पृथग पृथग्भावेनाइगुलासंख्येयभागस्वदेहावगाहनया पृथिव्याऽऽश्रिताः, सिता वा संबद्धा इत्यर्थः, अनेनैतत् कथयति-नैकदेवता पृथिव्यपि तु प्रत्येकशरीरपृथिवीकायाऽऽत्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति। एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुभाह(लज्जामाणा पुढो पास त्ति) लज्जा द्विविधालौकिकी, लोकोत्तरा च / तत्र लौकिकी स्नुषासुभटाऽऽदेः श्वशुरसंग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः। तदुक्तम्-"लज्जा दया संजम बंभचेरं।'' इत्यादि। लज्जमानाः संयमानुष्ठा-नपराः, यदि वा-पृथिवीकायसमारम्भरूपादसंयमानुष्ठानालजमानाः पृथगिति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च, अतस्तान् लजमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति / कुतीर्थिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-(अणगारा इत्यादि) न विद्यते अगारंगृहमेषमित्यनगारायतयःस्मो वयमित्येवं प्रकर्षण वदन्तः प्रवदन्त इति, एके शाक्यादयो ग्राह्यास्ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा इति / एवमादिप्रतिज्ञामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशुचिर्वोद्रश्वतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याचाऽस्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थ सङ्ग्रह कारितवान्, तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तमेवर्मतेऽपि शाक्याऽऽदयोऽनगारवादमुद्हन्ति, नचानगारगुणेषु मनागपि प्रवर्तते,न च गृहस्थचर्या मनागप्यतिलङ्घयन्ति इति दर्शयति-यद्यस्मादिममिति सर्वजन-प्रत्यक्षं पृथिवीकार्य विरूपरूप नाप्रकारैः शरबैर्हलकुद्यालखनित्राऽऽदिभिः पृथिव्याश्रयं कर्म-क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकायसमारम्भेण पृथिवीशस्खं समारभमाणो व्यापारयन् पृथिवीकार्य नानाविधैः शस्त्रैः व्यापादयन्ननेकरूपान्, तदाश्रितानुदकवनस्पत्यादीन् विविध हिनस्ति, नानाविधैरुपायैापादयतीत्यर्थः / एवं शाक्याऽऽदीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाकायलक्षणां प्रवृत्ति दर्शयितुमाहतत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सथमेव पुढविसत्थं समारंभइ, अण्णेहिं वा पुढविसत्थं समारंभावेइ, अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ / (15 सूत्र)। तत्र पृथिवीकायसमारम्भे, खलुशब्दो वाक्यालङ्कारे, भगवता श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा,सा प्रवेदितेति / इदमुक्तं भवतिभगवतेदमाख्यातम्-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामूनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थ तथा जातिमरणमोचनार्थदुःख प्रतिघातहेतुं च स्वसुखलिप्सुर्दुःखद्विद् स्वयमात्मनैव पृथिवीशरवं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रं समारम्भयति, पृथिवीशस्त्र समारभमाणानस्यांश्च स एष समनुजानीते, एवमतीतानागताभ्यां मनोवाक्कायकर्मभिरायोजनीयम्। * तदेवं प्रवृत्तमतेर्यद्भवति तदर्शयितुमाहतं से अहिआए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ अणगाराणं इह-मेगेसिं णातं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए इचत्थं गड्डिए लोए जमिणं विरूवरूवे हिं सत्थेहि पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे अप्पेगे पायमन्भे अप्पेगे पायमच्छे अप्पेगे गुप्फमडभे अप्पेगे गुप्फमच्छे अप्पेगे जंधमन्भे 2 अप्पेगे जाणुमब्भे 2 अप्पेगे ऊरुमब्भे 2 अप्पेगे कडिमम्मे 2 अप्पेगे णाभिमब्भे 2 अप्पेगे उदरमन्भे 2 अप्पेगे पासमन्भे 2 अप्पेगे पिट्ठिमन्भे 2 अप्पेगे उरमन्भे 2 अप्पेगे हिययमन्भे 2 अप्पेगे थणमडमे 2 अप्पेगे खंधमन्भे 2 अप्पेगे बाहुमब्भे 2 अप्पेगे हत्थमन्भे 2 अप्पेगे अंगुलिमन्भे 2 अप्पेगे णहमन्भे 2 अप्पेगे गीवगब्भे 2 अप्पेगे हणुमडभे 2 अप्पेगे होट्ठमब्भे 2 अप्पेगे दंतमब्भे 2 अप्पेगे जिन्भमन्भे 2 अप्पेगे तालु-मब्भे 2 अप्पेगे गलमन्भे 2 अप्पेगे गंडमन्भे 2 अप्पेगे कण्णमब्भे 2 अप्पेगे णासमब्भे 2 अप्पेगे अच्छिमब्मे 2 अप्पेगे भमुहमब्भे 2 अप्पेगे णिडालमन्भे 2 अप्पेगे सीसमब्भे 2 अप्पेगे संपसारए, अप्पेगे उद्दवए, इत्थं सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति (16 सूत्र) (तसे अहियाएतं से अबोहीए) तत्पृथिवीकायसमारम्भणं (से) तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारममाणस्याऽऽगामिनि काले अहिताय भवति, तदेव चाबोधिलाभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्या योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भ पापाऽऽत्मकं भावयति स एवं मन्यत इत्याह-('से' तमित्यादि) 'सः' ज्ञातपृथवीजीवत्वेन विदितपरमार्थः 'त' पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः 'आदानीय ग्राह्य सम्यग्दर्शनाऽऽदिसम्यगुत्थायअभ्युपगम्य, केन प्रत्ययेनेति दर्शयति- 'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽनगाराणां वा समीपे, ततः 'इह' मनुष्यजन्मनि 'एकेषा' प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह-(एसेत्यादि) एष पृथ्वीशस्त्रसमारम्भः, खलुरवधारणे, कारणे कार्योपचार कृत्वा 'नमलोदकं पादरोगः' इति न्यायेनैष एव ग्रन्थः-अष्टप्रकारकर्मबन्धः, तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वान्मोहः-कर्मबन्धविशेषो दर्शनचारित्रभेदोऽष्टविंशतिविधः, तथैषएवमरणहेतुत्वान्मारः-आयुष्पकर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वानरकः सीमन्तकाऽऽदिभूभागः, अनेनचासातवेदनीयमुपात्तं भवति, कथंपुन