________________ पुढवीकाइय 676 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय म्भवांश्च दृश्यान्' दर्दुराऽऽदीन 'अदृश्यान्' पनकादीन समारभते व्यापादयतीत्यर्थः। एतदेव स्पष्टतरमाहपुढविं समारभंता, हणंति तन्निस्सिए य बहुजीवे / सुहुमे य बायरे य, पज्जत्ते या अपज्जत्ते / / 103|| स्पष्टा / अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति। विरतिद्वारमाहएवं वियाणिऊणं, पुढवीए निक्खिवंति जे दंडं। तिविहेण सव्वकालं, मणेण वायाएँ कारणं / / 104|| एवमित्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधंबन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डपृथिवीसमारम्भाद् व्युपरमन्ति, ते ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, त्रिविधेनेति कृतकारितानुमतिभिः 'सर्वकालं' यावज्जीवमपि मनसा वाचा कायेनेति। अनगारभवने उक्तशेषमाहगुत्ता गुत्तीहिँ सव्वाहिँ, समिया समिईहिँ संजया। जयमाणगा सुविहिया, एरिसया हुंति अणगारा।।१०।। तिसृभिर्मनोवाकायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्-उत्थानशयनचक्रमणाऽऽदिक्रियासु यताः संयताः 'यतमानाः सर्वत्र प्रयत्नकारिणः, शोभनं विहितसम्यग्दर्शनाऽऽधनुष्ठानं येषां ते तथा, ते ईदृक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्याऽऽदय इति। गतो नामनिष्पन्नो निक्षेपः / अधुना सूत्रानुगमेऽस्खलिताऽऽदिगुणो पेतं सूत्रमुच्चार्यते, तचेदं सूत्रम्अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सिंलोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परितापूति। (14 सूत्र) आचाo! 'अट्टे' इत्यादिपरम्परसम्बन्धस्तु 'इह एगेसिंणो सन्नाभवति' इत्युक्त, कथं पुनः संज्ञान भवतीति, आर्षत्वात्, तदाह- (अट्टे इत्यादि) आर्तो नामाऽऽदिश्चतुर्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमतो द्रव्यातः शकटाऽऽदिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्राऽऽगमतो ज्ञाताआर्तपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगाऽऽदिदुःखसङ्कनिमग्नो भावार्त्त इति व्यपदिश्यते, अथवा शब्दाऽऽदिविषयेषु विषविपाकसदृशेषु तदाकाशित्वात् हिताहितविचारशून्यमना भावार्तः कर्म उपचिनोति। यत उक्तम्- “सोइंदियवसट्टेणं, भंते ! जीवे किं बंधइ, कि चिणाति? किं उवचिणाति? गोयमा ! अट्ट कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेतिजाव अणादीयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारमणुपरियट्टइ।" एवं स्पर्शनाऽऽदिष्वपि आयोजनीयम् / एवं क्रोधमानमायालोयदर्शनमोहनीयचारित्रमोहनीयाऽऽदिभिर्भावार्ताः संसारिणो जीवा इति। उक्तंच-"रागदोसकसाएहिं, I इंदिएहि य पंचहिं / दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया॥१॥" यदि वा-ज्ञानाऽऽवरणीयाऽऽदिना शुभाशुभेनाष्टप्रकारेण कर्मणा आर्तः, कः पुनरेवविध इत्यत्राऽऽह-लोकयतीति लोकः- एकद्वित्रिचतुःपञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदश्याप्रशस्तभावोदयवर्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावातिः स सर्वोऽपि परिवूनो नाम परिपेलवो निस्सारः औपशमिकाऽऽदिप्रशस्तभावहीनः अव्यभिचारिमोक्षसाधनहीनो वेति / स च द्विधा द्रव्यभावभेदात्, तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरियूनो जीर्णपटाऽऽदिः, भावपरियून औदयिकभावोदयात् प्रशस्तज्ञानाऽऽदिभावविकलः, कथं विकलः? अनन्तगुणपरिहाण्या। तथाहि-पञ्चचतुःविद्येकेन्द्रियाः क्रमेण ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसभयोत्पन्ना इति। उक्तं चसर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष धीरेण। सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः / / 1 / / तस्मात् प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् / लब्धिनिमित्तैः करणैः, कायेन्द्रियवागमनोगभिः ।।शा' सच विषयकषायातः प्रशस्तज्ञानघूनः किमवस्थो भवति इति दर्शयतिदुःसंबोध इति दुःखेन संबोध्यतेधर्मचरणप्रतिपत्ति कार्यते इति दुःसंबोधो, मेतार्यवत् इति, यदि वा-दुःसंबोधो यो बोधयितुमशक्यो, ब्रह्मदत्तयत्, कि मित्येवम्?, यतः (अविजाणए त्ति)विशिष्टावबोधरहितः स चैवंविधः कि विदद्ध्यात् इत्याह-अस्मिन् पृथिवोकायलोके प्रव्यथिते प्रकर्षण व्यथिते,सर्वस्याऽऽरम्भस्य तदाश्रयत्वा दिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननाऽऽदिभिः पीडिते नानाविधशस्त्राद् भीते वा 'व्यथ' भयचलनयोः इति कृत्वा व्यथितं भीतमिति। (तत्थ तत्थेति) तेषु तेषु कृषिखननगृह करणाऽऽदिषु पृथग्विभिन्नेषु कार्येषु उत्पन्नेषु पश्य इति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदीत, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बलादेशो भवतीति,आतुराः विषयकषायाऽऽदिभिः अस्मिन् पृथिवीकार्य विषयभूते सामर्थ्यात् पृथिवीकार्य परितापयन्ति परि समंतात्तापयन्ति पीडयन्तीत्यर्थः, बहुवचनननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदि वा-लोकशब्दः प्रत्येकमभिसंबध्यते, कश्चिल्लोको विषयकषायऽऽदिभिरातः अपरस्तु कायपरिजीर्णः कश्चिद् दुःखसंबोधस्तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदहाऽऽदिभिः सुखाऽऽप्तये अस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकार्य नानाविधैरुपायैः परितापयन्ति परिसमन्तात्तापयन्ति पीडयन्तीति सूत्रार्थः। . ननु चैकदेवताविशेषाऽवस्थिता पृथिवीति शक्यं प्रतिपत्तुं, न पुनरसंख्येयजीवसंघातरूपेत्ये तत्परिहतुकाम आहसंति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं पुढवि-कम्मसमारंभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे पाणे विहिंसइ।।