________________ पुढवीकाइय 678 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय दि) एभिश्चक्रमणाऽऽदिभिः कारणैः पृथिवीजीवान हिंसन्ति / / किमर्थमिति दर्शयतिसातं सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाऽऽशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, परस्य पृथिव्याश्रितजन्तुराशेः दुःखमसातलक्षणं तदुदीरयन्ति-उत्पादयन्तीत्यनेन भूदानजनितशुभफलोद्वयः प्रत्युक्त इति। अधुना शस्त्रद्वारम्- शस्यतेऽनेनेति शस्त्रम्। तच्च द्विधा-द्रव्यशस्वं, भावशस्त्रं च / द्रव्यशस्वमपि समासविभागभेदाद द्विधैव। तत्र समासद्रव्यशस्त्रप्रतिपादनायाऽऽहहलकुलियविसकुद्दालालित्तियमिगसिंगकट्ठमग्गी य। उच्चारे पासवणे, एयं तु समासओ सत्थं // 15 // तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्टाग्न्युच्चारप्रश्रवणाऽ5दिकमेतत्समासतः संक्षेपतो द्रव्यशस्वम्। विभागद्रव्यशस्त्रप्रतिपादनायाऽऽहकिंची सकायसत्थं, किंची परकाय, तदुभयं किंचि। एयं तु दव्वसत्थं, भावे य असंजमो सत्थं / / 66|| किञ्चित्स्वकायशस्वं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्त्रमुदकाऽऽदि, तदुभयं किञ्चिदिति भूदक मिलितं भुव इति / तच्च सर्वमपि द्रव्यशस्वं, भावे पुनरसंयमः दुष्प्रयुक्ता मनोवाक्कायाः शस्त्रमिति। आचा० १श्रु०१अ०२०। दव्वं सत्थग्गिविसं-नेहविल खारलोणमाईयं। भादो उदुप्पउत्तो, वाया काओ अविरई य॥२३०।। द्रव्यमिति द्वारपरामर्शः, तत्र द्रव्यशस्त्र खड्गाऽऽदि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, क्षारलवणाऽऽदीनि अत्र तु क्षारः करीराऽऽदिप्रभवः, लवणं प्रतीतम्, आदिशब्दाद् करीषाऽऽदिपरिग्रहः / उक्तं द्रव्यशस्त्रम् / अधुना भावशस्त्रमाह-भावस्तु दुःप्रयुक्तौ वाक्कायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुःप्रयुक्त इत्यनेन द्रोहाभिमानेयाऽऽदिलक्षणो मनोदुःप्रयोगो गृह्यते, वाक्दुःप्रयोगस्तु हिंसपरुषाऽऽदिवचनलक्षणः, कायदुःप्रयोगस्तु धावनवल्गनाऽऽदिः, अविरतिस्त्वविशिष्टा प्राणातिपाताऽऽदिपापस्थानकप्रवृत्तिः एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिमित्तत्वाद्भावशस्त्रमिति गाथाऽर्थः / इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशपेण, तच्च त्रिप्रकारं भवतीत्याहकिंची सकायसत्थं, किंची परस्य तदुधयं किंचि / एयं तु दव्वसत्थं, भावे अस्संजमो सत्थं // 231 / / किञ्चित्स्वकायशस्त्र, यथा कृष्णा मुन्नीलाऽऽदिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदे पि शस्त्रयोजना कार्या तथा क्रिश्चित्परकायेति परकायशस्त्रं यथा पृथ्वप्तेजःप्रभुतीनाम्-अप्लेजःप्रभृतयो वा पृथिव्याः / तदुभयं किञ्चिदिति किश्चित्तदुभयं शस्त्र भवति, यथा कृष्णा मृदुदकस्य स्पर्शरसगन्धाऽऽदिभिः पाण्डुमृदश्च यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृदुकस्य पाण्डुमृदश्च शस्त्रं भवति, एवंतु तद् द्रव्यशस्त्रं, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकार द्रव्यशस्त्रम्, भाव इति द्वारपरामर्श, असंयमः शरत्र चरणस्येति गाथाऽर्थः / एवं च परिणताया पृथिव्यामुच्चाराऽऽदिकरणेऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः संभवी साधुधर्म इति / एष तावदागमः, अनुमानमप्यत्र विद्यतेसात्मका विद्रुमलवणोपलाऽऽदयः पृथिवीविकाराः, समानजातीयाड्कुरोत्प युपलम्भात्, देवदत्तमांसाड्कुरवत् / एवमागमोपपत्तिभ्यां व्यवस्थित पृथिवीकायिकानां जीवत्वम्। उक्त च"आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम्। अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये / / 1 / / आगमो ह्याप्तवचन-माप्त दोषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, न ब्रूया त्वसंभवात् / / 2 / / " इत्यलं प्रसङ्गेन। दश०४अ० वेदनाद्वारमाहपायच्छेयण भेयण, जंघोरु तहेव अंगुवंगेसुं। जह हुंति नरा दुहिया, पुढविक्काए तहा जाण ||7|| यथा पादाऽऽदिकेष्वङ्ग प्रत्यनेषु छेदनभेदाऽऽदिकया क्रियया नरा दु खितास्तथा पृथिवीकायेऽपि वेदना जानीहि / यद्यपि पादशिरोग्रीवाऽऽदीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापितच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाहनत्थि य सि अंगुवंगा, तयाणुरूवा य वेयणा तेसिं। केसिं चि उदीरंती, केसिंचऽतिवायए पाणे / / 18 / / पूर्वार्द्ध गतार्थ, केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति / तथाहि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्तिनो गन्धपषिका यौवनवर्तिनी बलवती आर्द्राऽऽमलकप्रमाण सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्ततस्तेषां पृथिवीजीवानां कश्चित्संघट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण ने स्पृष्टोऽपीति। बधद्वारमाहपवयंति य अणगारा, ण य तेहिं गुणेहिं जेहिं अणगारा। पुढवि विहिंसमाणा, न हु ते वायाहि अणगारा ||6|| अणगारवाइणो पुढ-विहिंसगा निग्गुणा अगारिसमा। निद्दोस त्ति य मइला, विरइदुगंछाइ मइलतरा / / 100 / आचा०१श्रु०११०२उ०। (इदं गाथाद्वयम् 'अणगार' शब्दे प्रथमभागे 207 पृष्ठे व्याख्यातम्) केई सयं वहंती, केई अन्नेहिं उ वहाविंती। केई अणुमन्नंती,पुढविक्कायं वहेमाणा / / 101|| स्पष्टा। तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयि तुमाहजो पुढवि समारंभइ, अन्नेऽवि य सो समारभइ काए। अनियाए अनियाए, दिस्से य तहा अदिस्से य।।१०२।। यः पृथ्वीकार्य 'समारभते' व्यापादयति सः 'अन्यानपि' अप्कायद्वीन्द्रियाऽऽदीन् 'समारभते' व्यापादयति, उदुम्बरवरफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्टासजन्तुभक्षणवदिति। तथा-(अणियाए य नियाए ति) अकारनकारणेनच, यदिवा-असङ्कल्पेनसंकल्पेन च पृथिवीजन्तूनसमारभतेतदार