________________ पुढवीकाइय 677 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय ननु चाश्मलताऽऽदेः कठिनपुद्गलाऽऽत्मिकायाः कथश्चेत नत्वमित्यत आहअट्ठी जहा सरीरम्मि अणुगयं चेयणं खरं दिटुं / एवं जीवाणुगयं,पुढविसरीरं खरं होइ / / 15 / / यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति। आवा० १श्रु० १अ० २उ०। विप्रतिपत्तिनिरासार्थ पुनराहपुढवी चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता / अण्णत्थ सत्थपरिणएणं / (1 सूत्र)। 'पुढवी चित्तमंतमक्खाया' 'पुढवी' पृथिवी उक्तलक्षणा, चित्तवतीति / चित्तजीवलक्षणं तदस्या अस्तीति चित्तवती, सजीवेत्यर्थः / पाठान्तरं वा- 'पुढवी चित्तमत्तमक्खाया।' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्च चित्तमात्रास्तोकचित्तेत्यर्थः / तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्द्रियाणां, तदभ्यधिक दीन्द्रियाऽऽदीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च- 'अनेकजीवा' अनेके जीवा यस्यां साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां पृथिवी देवतेत्येवमादिप्रवचनप्रामाण्यादिति। अनेकजीवाऽपि कैश्चिदेकभूताऽऽत्मापेक्षयेष्यत एव / यथाहुरेके - "एक एव हि भूताऽऽत्मा, भूते व्यवस्थितः / एकधा बहुधा चैव, दृश्यतेजलचन्द्रवत्॥१॥" अत आह'पृथक्त्वा पृथग्भूताः सत्त्वाआत्मनो यस्यां सा पृथक्सत्त्वा, अड्गुलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः / आह-यद्येवं जीवपिण्डरूपापृथिवी ततस्तस्यामुचाराऽऽदिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्याह- 'अन्यत्र शस्वपरिणतायाः' शस्त्रपरिणतां पृथिवीं विहायपरित्यज्यान्या चित्त - वत्याख्यातेत्यर्थः / दश०४अ० साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाहजे बायरपज्जत्ता, पयरस्स असंखभागमेत्ता ते। सेसा तिन्नि विरासी, वीसु लोया असंखेज्जा॥८६|| तत्र पृथिवीकायिकाश्चतुर्दा, तद्यथा-बादराः पर्याप्ताः, अपर्याप्ताश्च। तथा सूक्ष्माः अपर्याप्ताः, पर्याप्ताश्च। तत्र ये बादराः पर्याप्तकास्ते संवर्तितलोकप्रतरासंख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः / यत उक्तम्-"सव्वत्थोवा बादरपुढविकाइया पज्जत्ता, बादरपुढविकाइया अपज्जत्ता असंखेज्जगुणा सुहमपुढविकाइया अपज्जत्ता असंखेज्जगुणा, सुहमपुढविकाइया पज्जत्ता असंखेज्जगुणा।'' प्रकारान्तरेणाऽपि राशित्रयस्य परिमाणं दर्शयितुमाहपत्थेण व कुडवेण व,जह कोइ मिणेज्ज सव्वधण्णाई। एवं मविज्जमाणा, हवंति लोया असंखेज्जा।।७।। यथा प्रस्थाऽऽदिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्ध प्रज्ञापनागीकरणात लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति। / पुनरपि प्रकारान्तरेण परिमाणमाहलोगाऽऽगासपएसे, एकेक निक्खिवे पुढविजीवं। एवं मविज्जमाणा, हवंति लोगा असंखिज्जा ||8|| स्पष्टा। साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुःक्षेत्रकालयोः सूक्ष्मबा दरत्वमाहनिउणो य हवइ कालो, तत्तो निउणयरं हवइ खेत्तं / अंगुलसेढीमित्ते, ओसप्पिणिओ असंखिज्जा ||8|| निपुणःसूक्ष्मःकालःसमयाऽऽत्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽड्गुलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेणासंख्येया उत्सर्पिण्यवसर्पिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम्। प्रस्तुतं कालतः परिमाण दर्शयितुमाहअणुसमयं च पवेसो, निक्खमणं चेव पुढविजीवाणं / काए कायट्ठिया,चउरो लोगा असंखेजा।।६011 तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्क्रामन्ति च, एकस्मिन् समये कियता निष्क्रमः प्रवेशश्च १-२,तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति 3, तथा-कियती च कायस्थिति ४रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाऽऽकाशप्रदेशपरिमाणाः समयेनोत्पद्यते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाऽऽकाशप्रदेशप्रमाणाः, तथा-कायस्थितिरपि मृत्त्वा मृत्त्वाऽसंख्येयलोकाऽऽकाशप्रदेशपरिमाणं कालं तत्र तत्रोत्पद्यन्त इति। एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाह प्रतिपिपादयिषयाऽऽहबायरपुढवीकाइय-पजत्तो अण्णमण्णमोगाढो। सेसा ओगाहंती,सुहुमा पुण सव्वलोयम्मि||१|| बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढस्तस्मिन्नेवाऽऽकाशखण्डेऽपरस्यापिबादरपृथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाऽऽकाशप्रदेशावगाढा, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति। उपभोगद्वारम्चंकमणे य ट्ठाणे, निसीयण तुयट्टणे कयकरणे। उच्चारे पासवणे, उवगरणाणं तु निक्खिवणे ||12|| आलेवण पहरण भू-सणे य कयविक्कए किसीए य / भंडाणं पिय करणे, उवभोगविही मणुस्साणं / / 63|| एएहि कारणेहिं, हिंसंति पुढविकाइए जीवे / सायं गवेसमाणा, परस्स दुक्खं उदीरंति / / 64|| चक्र मणोद्ध स्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउचारप्रश्नवण उपकरण निक्षेप आले पनाहरणभूषणक यविक्रय - कृषीक रण भण्ड क घट्टनाऽऽदिषू पभोगविधिमनुष्याणां पृथिवीकायेन भवतीति। यद्येवं ततः किमित्यत आह-(एएहीत्या -